Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.54.1

पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् ।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप ॥ १३.५४.१ ॥

伟大的国王啊,人如何能靠儿子得救?在人未得子之前,国王啊,他是无果的。

13.54.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते ॥ १३.५४.२ ॥

关于此事,人们也引用这个古老的故事;从前,当摩根德耶发问时,那罗陀唱述了它。

13.54.3

पर्वतं नारदं चैव असितं देवलं च तम् ।
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा ॥ १३.५४.३ ॥

波尔瓦塔、那罗陀、阿夕多、提婆罗、阿鲁涅耶和罗毗婆,这些人从前都来到了这里。

13.54.4

गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे ।
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत ॥ १३.५४.४ ॥

在恒河与亚穆纳河之间、跋伽瓦蒂的汇合处,摩根德耶看见先前已坐在那里的人们,便走近了过去。

13.54.5

ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः ।
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन् ॥ १३.५४.५ ॥

诸位仙人看见那位仙人,便起身面向他站立;他们恭敬地礼敬这位值得尊敬的婆罗门,说道:“我们该做什么?”

13.54.6

अयं समागमः सद्भिर्यत्नेनासादितो मया ।
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम् ॥ १३.५४.६ ॥

这群善人的聚会是我费尽心力促成的;我将在此获得关于法则与行为的确定之见。

13.54.7

ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति ।
युगेयुगे महर्षिभ्यो धर्ममिच्छामि वेदितुम् ॥ १३.५४.७ ॥

在克里塔时代,法正直明晰;当它衰微时便陷于迷乱。每个时代,我都想从大仙人那里了解法。

13.54.8

ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः ।
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान् ॥ १३.५४.८ ॥

众仙人提到了那罗陀。知真谛者啊,请说此疑惑在何处;在法与非法之中,你确实能断除疑惑。

13.54.9

ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा ।
सर्वधर्मार्थतत्वज्ञं मार्कण्डेयं ततोऽब्रवीत् ॥ १३.५४.९ ॥

经众仙人同意并受其嘱托,那罗陀便对通晓一切法与利之真谛的摩根德耶说道。

13.54.10

दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित् ।
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम् ॥ १३.५४.१० ॥

长寿者啊,以苦行而光耀,通晓吠陀及其支分之真谛者!婆罗门啊,请说出你心中生起的疑惑。

13.54.11

धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि ।
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः ॥ १३.५४.११ ॥

法,或世间之利益,或你想听的其他任何事,我都将告诉你。大苦行者啊,请说吧。

13.54.12

युगेयुगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति ।
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः ॥ १३.५४.१२ ॥

此世每一个时代过去,法之桥便毁坏。我心中所想的是:如何借法的名义去达到它?

13.54.13

आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे ।
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः ॥ १३.५४.१३ ॥

婆罗门啊,往昔在圆满时代,法有四足。之后,随着时间,非法稍有产生,法稍有减损。

13.54.14

ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् ॥ १३.५४.१४ ॥

接着开始了名为特雷塔的时代,法在其中遭到玷污。

13.54.15

तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम् ।
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति ॥ १३.५४.१५ ॥

那时过去后,第三个时代——德瓦帕拉到来了。那时非法将毁去法的两足。

13.54.16

द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते ।
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे ॥ १३.५४.१६ ॥

当德瓦帕拉时代衰落、难迪迦时代来临时,请从我这里听取我所说的世间行为与法。

13.54.17

चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः ।
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः।
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः ॥ १३.५४.१७ ॥

第四个名为难迪迦时代,那时法只剩两足。从此人们生来智慧与寿命都减少;在世间,他们因生命力与财富衰减,被逐出法的行持。

13.54.18

एवं विलुलिते धर्मे लोके चाधर्मसंयुते ।
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति ॥ १३.५४.१८ ॥

当法如此动摇、世间与非法相连时,四种姓的供奉给神的祭品(哈维亚)与祖先的供品(卡维亚)必定被阻断。

13.54.19

मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति ।
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः ॥ १३.५४.१९ ॥

以咒语净化的供品(天神之供与祖灵之供)永不消失;施主依法供奉时,诸神便会接受。

13.54.20

सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात् ।
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् ॥ १३.५४.२० ॥

怀有善意的施主能获得一切所愿;愿望既成,便在天界按其所欲受到尊崇。

13.54.21

चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति ।
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति ॥ १३.५४.२१ ॥

四种姓中若有人无咒语、不依正道供奉天神与祖灵之供,那所施之物又去向何方?

13.54.22

असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः ।
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति ॥ १३.५४.२२ ॥

婆罗门所施之物归于阿修罗,刹帝利所施归于罗刹,吠舍所施归于饿鬼,首陀罗所施归于鬼魅。

13.54.23

अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः ।
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति ॥ १३.५४.२३ ॥

又,那些生于低种姓却宣说四姓制度、又供奉天神与祖灵之供的人,其所施之物又去向何方?

13.54.24

वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् ।
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम् ॥ १३.५४.२४ ॥

凡低种姓之人所施天神之供与祖灵之供,诸神与祖灵自己也不接受。

13.54.25

यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः ।
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः ॥ १३.५४.२५ ॥

对于夜叉、毕舍遮、鬼类以及涅利多,所规定的供养正是被祖先与诸神所舍弃的那一份。

13.54.26

तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः ।
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः ॥ १३.५४.२६ ॥

凡所有施主以专一之心依仪轨所献的供养,诸天实际上都享用了。