Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.55.1

श्रुतं वर्णावरैर्दत्तं हव्यं कव्यं च नारद ।
सम्प्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे ॥ १३.५५.१ ॥

那罗陀啊,请告诉我下等种姓所听闻和奉献的供品(havya)与祖先供物(kavya),以及子女的婚配之事。

13.55.2

कन्याप्रदानं प्रत्राणां स्त्रीणां संयोगमेव च ।
आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे ॥ १३.५५.२ ॥

我将依次为你正确讲述嫁女之礼以及子女与妇人的结合,请从我这里领会。

13.55.3

जातमात्रा तु दातव्या कन्यका सदृशे वरे ।
काले दत्तासु कन्यासु पिता धर्मेण युज्यते ॥ १३.५५.३ ॥

女儿一出生就应许配给合适的夫婿;按时嫁女,父亲便与达摩相合。

13.55.4

यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति ।
मासिमासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते ॥ १३.५५.४ ॥

若亲族不把已到月经之年的少女嫁出,每过一月,此亲族便犯下杀胎之罪。

13.55.5

यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम् ।
अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् ॥ १३.५५.५ ॥

若亲族把少女关在家中,剥夺世俗之乐,便是对少女有所亏待,并因此犯下杀胎之罪。

13.55.6

दूषिता पाणिमात्रेण मृते भर्तरि दारिका ।
संस्कारं लभते नारी द्वितीये सा पुनः पतौ ॥ १३.५५.६ ॥

丈夫死后,仅因被握手而沾染的少女,可与第二位夫婿重新行礼成婚。

13.55.7

पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा ।
अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि ॥ १३.५५.७ ॥

名为原婆的那位少女有子嗣,能献上天神与祖先的供物。在生育与婚礼之中,她并不受玷污。

13.55.8

या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् ।
कथं दारक्रियां भूयः सा भवेदृषिसत्तम ॥ १३.५५.८ ॥

然而,已经生育或怀孕的少女,怎样才能再次适合婚礼之仪?至善的仙人啊。

13.55.9

तत्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये ।
तस्मात्कुर्वन्ति वै भावं कुमार्यस्ता न कन्यकाः ॥ १३.५५.९ ॥

依据真义所确定的规则,少女被引至火前。因此人们认为她们是待嫁的少女,而非处女。

13.55.10

ब्रह्महत्यात्रिभागेन गर्भाधानविशोधितः ।
गृह्णीयात्तां चतुर्भागविशुद्धां सर्जनात्पुनः ॥ १३.५५.१० ॥

凡以婆罗门杀害之罪的三分之一,经受胎而得净化者,应当娶她;经分娩后以四分之一得净化者,应当再次娶她。

13.55.11

कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा ।
कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने ॥ १३.५५.११ ॥

那些生于少女、又总被亲族视为有污的人,将为谁献上天神与祖先的供物呢,大仙啊?

13.55.12

कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः ।
अन्तर्वत्नयास्तु यः पाणिं गृह्णीयात्स सहोढजः ॥ १३.५५.१२ ॥

少女之父的儿子称为迦尼那(kānīna),他们也能献上天神与祖先的供物。若娶了怀孕之女的人,其子称为萨霍达(sahoḍhaja)。

13.55.13

अथ येनाहितो गर्भः कन्यायां तत्र नारद ।
कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे ॥ १३.५५.१३ ॥

那多罗啊,若有人使少女受孕,他如何能得子嗣之果?请为我宣说此事。

13.55.14

धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः ।
बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते ॥ १३.५५.१४ ॥

于法行之中,他们常为污染者,虽经净化之仪也是如此;其种子已失,其所作徒劳无功。

13.55.15

अथ काचिद्भवेत्कन्या क्रीता दत्ता हृताऽपि वा ।
कथं पुत्रकृतं तस्यास्तद्भवेद्दषिसत्तम ॥ १३.५५.१५ ॥

若有少女被买、被嫁或被劫,那么她为生子所行之事将如何?至上的贤者啊,这将如何?

13.55.16

क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता ।
कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान्।
न पत्न्यर्थे शुभा प्रोक्ता तत्कर्मण्यपराजिते ॥ १३.५५.१६ ॥

被买、被嫁或被劫而未受握手之礼的少女,称为「孔摩利」;不说她作为妻子能生嫡生之子;无敌者啊,她不被宣称适合那件事。

13.55.17

केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः ।
एतदिच्छामि विज्ञातुं तत्वेनेह महामुने ॥ १३.५५.१७ ॥

在吉祥之礼中,少女们由何人任用?大仙啊,我想在此如实知晓此事。

13.55.18

नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता ।
शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु ॥ १३.५५.१८ ॥

吉祥天女常住于少女之中,安立其中;她们光彩照人,适于吉祥之事,于吉庆之礼中当受敬拜。

13.55.19

आकरस्थं यथा रत्नं सर्वकामफलोपगम् ।
तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् ॥ १३.५५.१९ ॥

如同埋藏于矿中的宝石能成就一切所愿,少女便是大吉祥天女,是整个世界的福祉。

13.55.20

एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम् ।
महाकुलानां चारित्रवृत्तेन निकषोपलम् ॥ १३.५५.२० ॥

如此,少女便是至高的吉祥天女,是有身众生的欢喜与满足;对于大族而言,她是品行与德性的试金石。

13.55.21

आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः ।
दातारं हव्यकव्यानां पुत्रकं या प्रसूयति ॥ १३.५५.२१ ॥

人若从自己的种姓迎娶少女,她便会生下一子,此子为诸神与祖先供奉havya与kavya。

13.55.22

साध्वी कुलं वर्धयति साध्वी पुष्टिग्रहे परा ।
साध्वी लक्ष्मी रतिः साक्षात्प्रतिष्ठा सन्ततिस्तथा ॥ १३.५५.२२ ॥

贤德的妻子使家族兴旺;在兴盛的家中,贤德之人最为尊贵。贤德的吉祥天女即是喜悦、根基与子嗣本身。