摩诃婆罗多 · 章 13.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.57.1
श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने ।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो ॥ १३.५७.१ ॥
大仙啊,关于妻子和儿子,我已详细听闻。请告诉我,住在修行处的女子如何不会被玷污。
13.57.2
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति ।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम् ॥ १३.५७.२ ॥
住在修行处的女子,亲属关系会断绝。这些女子会失去亲族与丈夫的血脉。
13.57.3
परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः ।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः ॥ १३.५७.३ ॥
住在修行处的那些女子,即使是他人之妻,也无过失。她们自己主宰自己的身体,令人向往,心意专注于此。
13.57.4
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु ।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः ॥ १३.५७.४ ॥
如此,女子在人类子嗣之事上并无玷污。这些正妻有了儿子,便成为供奉天神与祖先之祭品的人。
13.57.5
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः ।
अन्यं भजति भर्तारं ससुता असुता कथम् ॥ १३.५७.५ ॥
那曾是他人之妻、丈夫死后又另嫁他人的女子——无论有子还是无子——又怎能算是清净的呢?
13.57.6
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः ।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः ॥ १३.५७.६ ॥
无论无子还是已育子嗣,家主之妻中被他人触碰过的,都应远离;她们在正法行为上已被玷污。
13.57.7
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः ।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात् ॥ १३.५७.७ ॥
诸神不接受这些女子的供物(havya与kavya)。在她们之中生子的人,不能通过这些儿子获得儿子之福。
13.57.8
परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः ।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम ॥ १३.५७.८ ॥
在他人田中因轻率而撒下种子的人,怎能得到子嗣之果呢?至上仙人啊?
13.57.9
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् ।
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति ॥ १३.५७.९ ॥
若人在无主之他人田中撒种,或在居于静修处、自择之女子中播种,其种子不会失落。
13.57.10
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् ।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् ॥ १३.५७.१० ॥
若人因傲慢在他人田中撒种,那种子便属于田主;播种者得不到果实。
13.57.11
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् ।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि ॥ १३.५७.११ ॥
没有比这更大的不法与耻辱,之后亦然。关于怀孕等事,许多人认为应当抛弃她们,即使在同等情形下也是如此。
13.57.12
अथ ये परदारेषु पुत्रा जायन्ति नारद ।
कस्य ते बन्धुदायादा भवन्ति परमद्युते ॥ १३.५७.१२ ॥
那么,那纳罗陀啊,生于他人妻子之中的儿子,他们是谁的亲属与继承人呢,至尊光明者啊?
13.57.13
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः ॥ १३.५७.१३ ॥
在他人之妻身上生出两个儿子,即昆荼与戈洛迦。丈夫在世时所生者为昆荼;丈夫死后所生者为戈洛迦。
13.57.14
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम् ॥ १३.५७.१४ ॥
生于他人田中者,无论在此世还是在身体死后,都会毁坏施主所奉献给有身者的哈维亚与卡维亚祭品。
13.57.15
पितुहि नरकायैते गोलकस्तु विशेषतः ।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः ॥ १३.५७.१५ ॥
这两者确实导致父亲堕入地狱,而戈洛迦尤甚。生如旃陀罗者,二者在彼世与此世都会毁灭。
13.57.16
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः ।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान् ॥ १३.५७.१६ ॥
那些应当为祖先奉献哈维亚与卡维亚的受责之子,属于谁?是属于在其田中诞生者,还是属于生育那些儿子者?
13.57.17
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ ।
न रक्षति च यो दारान्परदाराश्च गच्छति ॥ १३.५७.१७ ॥
田地的主人与播种之人,这两者都堕入了地狱。那不守护自己妻子而去他人之妻处者,也(堕入地狱)。
13.57.18
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः ।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः ॥ १३.५७.१८ ॥
这些人永远受责,被排除于法行之外。昆荼是享用者,也是耽乐者;为祖先与神明所鄙弃。
13.57.19
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद ।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं ॥ १३.५७.१९ ॥
同样,这些被责备的儿子,啊那罗陀,他们总是将祭品献给谁?或者他们之中有何法之果?
13.57.20
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् ।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः ॥ १३.५७.२० ॥
夜叉与毕舍遮接受他们所献的祭品;而夜行的鬼怪则接受他们所施予的哈维亚与卡维亚。
13.57.21
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् ।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम ॥ १३.५७.२१ ॥
那些罗刹欢喜之后,给予施者什么?或者对于他们而言,法的果报会是什么,啊诸仙中最杰出者?
13.57.22
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम् ।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः ॥ १३.५७.२२ ॥
施者对一切众生所施予的,没有一样会失去;死后以及此世,施者都享有那份滋养。
13.57.23
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति ।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं ॥ १३.५७.२३ ॥
如今,由戈拉与昆达所生的后代,他们的某些亲属将如何施予他们?
13.57.24
साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् ।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः ॥ १३.५७.२४ ॥
他们的儿子出生于贤德女子,遵行那种行为,专心于哈维亚与卡维亚,使祖先与诸神欢喜。
13.57.25
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः ।
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः ॥ १३.५७.२५ ॥
如此,出身于golaka与kuṇḍa而自称属于种姓者,诸神只接受清净者的祭品(havya)与祖先供养(kavya)。