Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.59.1

श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम ।
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम् ॥ १३.५९.१ ॥

最优秀的仙人啊,我听说过女人的力量与影响。我想知道一个拥有多位妻子的男子的法(dharma)。

13.59.2

बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः ।
ऋतौ विमुञ्चमानस्य सांनिध्ये भ्रूणहा स्मृतः ॥ १३.५९.२ ॥

一个执着于众多妻子、沉溺于女色的居家者,若在月经期(受孕期)避而不近,便被称为堕胎者。

13.59.3

वृद्धां वन्ध्यां सुव्रता च मृतापत्यामपुष्पिणीम् ।
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् ॥ १३.५९.३ ॥

避开老妇、石女、守戒之妇、子嗣已亡者、未行经者、处女,或多子之妇的人,便可免于恐惧。

13.59.4

व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु ।
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति ॥ १३.५९.४ ॥

病人、被囚者,或在旅途、节日中的人——但若在受孕之时与女子同处,便可免去杀胎之罪。

13.59.5

वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः ।
कस्य ते बन्धुदायादा भवन्ति हि महामुने ॥ १३.५९.५ ॥

生于吠舍女子或他人婢女之子——大仙啊,他们是谁的亲族与继承人?

13.59.6

पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः ।
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः ॥ १३.५९.६ ॥

生于娼妓之子,属于其为妻者。买来的儿子称为“作子”(kṛtrima),施予而得的儿子称为“与子”(datrima)。

13.59.7

पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम् ।
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् ॥ १३.५९.७ ॥

在妓女之中,无节制男子的私利必然存在。此处,怀孕之女的儿子,人们说他属于谁?

13.59.8

तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति ।
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते ॥ १३.५९.८ ॥

在如同圣地的女子之中,与之交合者被人所知;在经期中所受之胎,属于他,或属于女子不疑之人。

13.59.9

नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम् ।
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् ॥ १३.५९.९ ॥

对于因欲望与愤怒而抛弃贤德之妻的男子,无论她是否生育,我询问他们的赎罪之法。

13.59.10

अपापां त्यजमानस्य साध्वीं मत्वा यमादितः ।
आत्मवंशस्वधर्मो वा त्यजतो निष्कृतिर्न तु ॥ १३.५९.१० ॥

对于抛弃无罪、贤德之妻的人,依阎摩之法从始便视她为如此,无论是其家族之法还是抛弃者之法,都没有赎罪之道。

13.59.11

यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम् ।
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः ॥ १३.५९.११ ॥

若男子抛弃经期中、未生育的妻子,其家族便断绝;虽与祖先相连,他仍被诸神所弃。

13.59.12

भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम् ।
पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम् ॥ १३.५९.१२ ॥

抛弃已怀孕生育、有子有孙之妻的人——即抛弃子与妻者——不能获得赎罪。

13.59.13

एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः ।
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः ॥ १३.५९.१३ ॥

因此,抛弃妻子的男人没有赎罪之道;有儿子和孙子依靠的女子不应被抛弃。

13.59.14

कीदृशीं संत्यजन्भार्यां नरो दोषैर्न लिप्यते ।
एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम ॥ १३.५९.१४ ॥

抛弃哪种妻子的人不会沾染罪过?最优秀的仙人,我想真正了解此事。

13.59.15

मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् ।
भार्यापतीनां मुक्तानामधर्मो न विधीयते ॥ १३.५९.१५ ॥

对于安住于解脱法、彼此同意而已获解脱的夫妻,不规定为不法。

13.59.16

अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् ।
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् ॥ १३.५९.१६ ॥

对于那些在仔细查验后抛弃与他人相好、为他人生子、与首陀罗同行或投奔他人的女子的男人,没有罪过。

13.59.17

पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ॥ १३.५९.१७ ॥

即使有罪过,母亲和父亲两人都必须供养。

13.59.18

भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा ।
कथं धर्मोऽप्यधर्मो वा भवतीह महामते ॥ १३.५९.१८ ॥

妻子通奸而丈夫怀怒抛弃她时,这在此处如何成为法或非法呢?大智者啊。

13.59.19

अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् ।
अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा ॥ १३.५९.१९ ॥

无论指控真假,遗弃被玷污的女子而不保护自己妻子的人,便成为杀害胎儿者。

13.59.20

अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् ।
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन ॥ १३.५९.२० ॥

若女子为求子嗣而越过丈夫的规矩,即便被称为情欲放纵之人,也应保护她,绝不可以任何方式抛弃她。

13.59.21

नद्यश्च नार्यश्च समस्वभावा ।
नैताः प्रमुञ्चन्ति नरावगाढाः।
स्रोतांसि नद्यो वहते निपातं ।
नारी रजोभिः पुनरेति शौचम् ॥ १३.५९.२१ ॥

河流与女子本性相同:沉入其中的人,它们不会放开。河流将水流引向低处;女子则通过月经重新获得洁净。

13.59.22

एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् ।
मासिमासि भवेद्रागस्ततः शुद्धा भवन्त्युत ॥ १३.५९.२२ ॥

如此,即便女子对丈夫有奸淫之事,也不会因此受污。每月都有月经,借此她们便重新洁净。

13.59.23

कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै ।
तानि वै शंस भगवन्याथातथ्येन पृच्छतः ॥ १३.५९.२३ ॥

尊者啊!人身之中所依止的那些圣渡口是哪些?尊者啊,我如实请问,请为我宣说。

13.59.24

सर्वतीर्थेषु सर्वज्ञ किं तीर्थं परमं नृणाम् ।
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः ॥ १३.५९.२४ ॥

全知者啊!在一切圣渡口之中,哪一处是人类最殊胜的圣渡口?人在其中沐浴后便能常常得到清净?

13.59.25

देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम् ।
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै ॥ १३.५९.२५ ॥

诸神、仙人与祖先之渡口,其次梵天之渡口,中间为毗湿奴之渡口——人之五渡口据说就在手中。

13.59.26

आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते ।
यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम्।
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च ॥ १३.५९.२६ ॥

诸渡口中最初者称为毗湿奴分;于其处沐浴者,四姓之族得以增长,祭祖与祭神之事在此世与死后皆得增盛。

13.59.27

नराणां कामवृत्तानां या नार्यो निरवग्रहाः ।
यासामभिग्रहो नास्ति ता मे कथय नारद ॥ १३.५९.२७ ॥

那些随从欲望的男子之间、无所拘束的女子,请告诉我,那罗陀。

13.59.28

पाशुर्वैश्या नटी गोपी तान्तुकी तुन्नवायिकी ।
नारी किराती शबरी नर्तकी चानवग्रहा ॥ १३.५९.२८ ॥

帕舒、妓女、舞女、牧女、织女、缝女、妇人、吉罗陀女、遮婆罗女与舞女——这些女子皆无约束。

13.59.29

एतासु जाता नारीषु सर्ववर्णेषु ये सुताः ।
केषु के बन्धुदायादा भवन्ति ऋषिसत्तम ॥ १३.५९.२९ ॥

这些女子在一切姓中所生之子——诸仙之最,他们究竟是谁的亲族与继承人?

13.59.30

य एताः परिगृह्णन्ति तेषामेव हि ते सुताः ।
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् ॥ १३.५९.३० ॥

娶纳她们者方为其子;然而若到处沉溺其中,有形之物的种子便会灭绝。

13.59.31

सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः ।
मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः।
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् ॥ १३.५९.३१ ॥

若有人沉溺于众女,缺乏善行与吠陀,行为卑劣,被逐出吠陀真言,却被委任于天神与祖先的供奉,那么施予他们的布施怎能有果报?

13.59.32

नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः ।
व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा ॥ १३.५९.३२ ॥

缺少萨维特里真言的再生族不配享用天神与祖先的供奉。施食给缚拉提亚,正如施食给首陀罗。

13.59.33

धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः ।
कथं न विघ्नो भवति एतदिच्छामि वेदितुम् ॥ १३.५९.३३ ॥

被委任于法(达摩)之事的人,心智会迷惑。这怎么不成为障碍呢?我想知道。

13.59.34

अर्थाश्च नार्यश्च समानमेन-
च्छ्रेयांसि पुंसामिह मोहयन्ति।
रतिप्रमोदात्प्रमदा हरन्ति ।
भोगैर्धनं चाप्युपहन्ति धर्मान् ॥ १३.५९.३४ ॥

财富与女人同样迷惑人在此世的至善。女子以欢爱之乐攫取(男人);以享乐耗尽钱财,也败坏法(达摩)。

13.59.35

हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः ॥ १३.५९.३५ ॥

唯有行法的、博学吠陀的婆罗门,才配享有一切天神与祖先的供奉。因为施予博学善良者,如同向熊熊烈火投入供品。

13.59.36

श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् ।
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः ॥ १३.५९.३६ ॥

生于以吠陀义理认识自我的学者(śrotriya)之家,为何舍弃三明之学,而投身于商贸与农耕之业?

13.59.37

चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु ।
तस्माद्वर्णौः संविभज्या वृत्तिः सङ्करवर्जिता ॥ १३.५९.३७ ॥

往昔,四姓之制托付于最有学问的再生族;因此,依种姓妥善分配的职业,应当不相混杂。

13.59.38

ये चान्ये श्रोत्रिया जाताः संस्कृताः पुत्रगृध्नुभिः ।
पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः ॥ १३.५९.३८ ॥

其他生为学者、由求子者所行成就之礼的人,依前世解脱所成就的出生之业而立。

13.59.39

असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिजाः कथम्। ॥ १३.५९.३९ ॥

生于学者之家者为何未经圣礼,而生于智者之家者却已受圣礼?

13.59.40

असंस्कारो वैदिकश्च स मान्यः श्रोत्रियात्मजः ।
शुद्धान्वयः श्रोत्रियस्तु सुविद्वद्भिः समोऽन्यथा ॥ १३.५९.४० ॥

吠陀式的未受圣礼亦为可敬;唯学者之子、血统清净的学者,才被大学者视为平等,否则不然。

13.59.41

अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः ।
तस्मात्ते वेदविज्ञाऽपि विप्राः श्रुतिनिकारिणः ॥ १३.५९.४१ ॥

其子不习吠陀、缺乏吠陀圣礼者;因此,他们虽通晓吠陀,却是背弃天启(śruti)的人。

13.59.42

ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः ।
तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः ॥ १३.५९.४२ ॥

往昔从梵之聚中被创造,经吠陀礼仪净化;因此从他们中诞生的善人成为家族的守护者。

13.59.43

स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः ।
कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम ॥ १३.५९.४३ ॥

那些与自己买来的婢女生育子女的人,其妻子与儿子属于谁呢?至上的仙人啊。

13.59.44

स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत् ।
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् ॥ १३.५९.४४ ॥

人若因迷惑与自己的女奴生子,便是罪人;此世被唾弃,死后其子嗣应被送去为奴。

13.59.45

सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते ।
तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः।
सर्वे तस्यास्तु सम्बन्धा मुच्यन्ते प्रेष्यकर्मसु ॥ १३.५९.४५ ॥

她是他的妻子,献上供物(havya、kavya)的儿子也是他的;但她的亲属中若有人眷恋奴役而沦为奴隶,她的一切关系皆从奴役之务中解脱。

13.59.46

एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया ।
अथवा संशयः कश्चिद्भूयः सम्प्रष्टुमर्हसि ॥ १३.५९.४६ ॥

你所说的一切,已为你讲明;若仍有疑惑,你可以再问。

13.59.47

अमिथ्यादर्शनालोके नारदः सर्वकोविदः ।
प्रत्यक्षदर्शी लोकानां स्वयंभुरिव सत्तमः ॥ १३.५९.४७ ॥

在不谬之见的光明中,那罗陀无所不知;他是诸世界的直观者,至善如自生者。

13.59.48

इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः ।
नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः।
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः ॥ १३.५९.४८ ॥

与诸仙人如此交谈之后,大苦行者摩讦德耶也尊敬了那罗陀;受到他的回敬后,这位仙人向诸仙人告辞,回到了自己的修行处。

13.59.49

ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः ॥ १३.५९.४९ ॥

诸仙人也开始照料诸圣渡口。

13.59.50

सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मिचर्यया ।
नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति ॥ १३.५९.५० ॥

以良田播种之礼而得净化,以梵行得净化,并以常规与临时之礼沐浴者,因心的清净而得清净。