Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.6.1

ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप ।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥ १३.६.१ ॥

人主啊,若婆罗门地位对三种种姓而言难以获得,那么,大王啊,这位高尚的刹帝利是如何获得的?

13.6.2

विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥ १३.६.२ ॥

法魂之人啊,人中之雄啊,我想如实听闻毗溪多弥多罗如何获得婆罗门性;祖父啊,请告诉我。

13.6.3

तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः ।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह ॥ १३.६.३ ॥

祖父啊,正是那位威力无量之人,即刻杀害了高尚的婆私吒的一百个儿子,以苦行之力。

13.6.4

यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः ।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥ १३.६.४ ॥

身被愤怒所附的那人所创造的众多夜叉与罗刹,光芒猛烈,如同时间与死神。

13.6.5

महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः ।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंकुलः ॥ १३.६.५ ॥

在这人间,憍尸迦的伟大世系得以建立,其中充满了数百位梵仙与博学的婆罗门。

13.6.6

ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः ।
विमोक्षितो महासत्रात्पशुतामप्युपागतः ॥ १३.६.६ ॥

还有利底迦之子、大苦行者舍那舍娑,虽已沦为祭畜,却被从大祭祀中解救出来。

13.6.7

हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा ।
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः ॥ १३.६.७ ॥

在哈里真德罗的祭祀中,他以自身的精神力量使诸神喜悦,成为智者毗首弥多罗之子。

13.6.8

नाभिवादयते ज्येष्ठं देवरातं नराधिप ।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः ॥ १३.६.८ ॥

人主啊,他没有向长兄提婆罗多致敬;因此他的五百个儿子也遭到诅咒,沦为贱民。

13.6.9

त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् ।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम् ॥ १३.६.९ ॥

甘蔗王族的特里商古被亲族出于爱护而解救,头朝下,朝向南方被带往天界。

13.6.10

विश्वामित्रस्य भगिनी नदी देवर्षिसेविता ।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता ॥ १३.६.१० ॥

这条河是毗首弥多罗的姊妹,受天界仙人所侍奉,被圣化并命名为考希基;它受梵仙与诸神侍奉。

13.6.11

तपोविघ्नकरी चैव पञ्चचूडा सुसंमता ।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥ १३.६.११ ॥

扰乱苦行的五髻,颇受敬重;还有名叫蓝婆的天女,因受诅咒而化为山石。

13.6.12

तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा ।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः ॥ १३.६.१२ ॥

同样,往昔光辉的婆悉吒因恐惧而自缚,投身水中;摆脱束缚后,他又重新浮起。

13.6.13

तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी ।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥ १३.६.१३ ॥

从那时起,毗波沙成为一条神圣的大河,因大德仙人伐悉吒的那一行为而闻名。

13.6.14

वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः ।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत ॥ १३.६.१४ ॥

因为他,诸神军队的首领、世尊被他所制服;因赞颂而心生欢喜,他便使其从诅咒中解脱。

13.6.15

ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च ।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥ १३.६.१५ ॥

优多纳帕陀之子德鲁瓦(北极星),常在梵仙之中,依住北方而恒常放光。

13.6.16

तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव ।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम ॥ १३.६.१६ ॥

俱卢之子啊,他的这些行为及其他行为,都属于刹帝利;因此我心中生起了这份好奇。

13.6.17

किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥ १३.६.१७ ॥

婆罗多族之雄,请如实告诉我这是什么:他未得另一身体,如何成为婆罗门的?

13.6.18

एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि ।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे ॥ १३.६.१८ ॥

孩儿啊,你应当如实地把这一切都告诉我;也请照样把摩丹伽的真实经历告诉我。

13.6.19

स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान् ॥ १३.६.१९ ॥

婆罗多族的雄牛啊,摩坦伽实际上并未获得婆罗门的地位。出生于旃陀罗之胎的他,究竟如何获得了婆罗门的地位?