摩诃婆罗多 · 章 13.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.64.1
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ ।
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः। ॥ १३.६४.१ ॥
瞻仰圣地渡口并在其中沐浴是吉祥的,婆罗多族中最优秀的人啊。大智者啊,我想如实听闻此事。
13.64.2
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ ।
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो ॥ १३.६४.२ ॥
请告诉我大地上那些圣洁的渡口,婆罗多族的雄牛啊。主啊,我是一个坚定的聆听者。
13.64.3
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते ।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ १३.६४.३ ॥
大光明者啊,你应当听闻安吉罗所宣说的这一圣地世系。愿你吉祥;你将获得至上的法。
13.64.4
तपोवनगतं विप्रमभिगम्य महामुनिम् ।
पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः। ॥ १३.६४.४ ॥
苦行林中的那位婆罗门大仙,持戒坚定的乔达摩走近他,向坚毅的安吉罗发问。
13.64.5
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥ १३.६४.५ ॥
世尊啊,关于圣地,我对法有一些疑惑。我想听闻其中的一切;大仙啊,请告诉我。
13.64.6
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने ।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद ॥ १३.६४.६ ॥
大仙啊,在那些圣地漱水净口会得到什么果报呢?大智者啊,请如实说出死后的情形。
13.64.7
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् ।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत् ॥ १३.६४.७ ॥
在月河与波浪环绕的毗多斯塔河中沐浴七日,禁食,便如仙人般清净。
13.64.8
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम् ।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ १३.६४.८ ॥
到达克什米尔地区轰鸣奔流的诸河,以及汇入的信度河,有德之人便得升天。
13.64.9
पुष्करं च प्रभासं च नैमिषं सागरोदकम् ।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥ १३.६४.९ ॥
在普什卡罗、普拉巴萨、奈米沙、大海之水、德维卡河、因陀罗之道及金点处沐浴之后。
13.64.10
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ।
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च ॥ १३.६४.१० ॥
坐于天车之中,受天女赞颂而醒来;见到金滴,自制地礼拜之后。
13.64.11
कुशेशये च देवत्वं धूयते तस्य किल्बिषम् ।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ ॥ १३.६४.११ ॥
在库舍夜耶及天神之位,他的罪恶便被抖落;抵达干陀摩陀那附近的因陀罗托雅河。
13.64.12
करतोयां कुरुङ्गे च त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥ १३.६४.१२ ॥
在卡拉托耶河与库朗伽处禁食三夜的人,自制而清净地沐浴后,便得马祭之功。
13.64.13
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ १३.६४.१३ ॥
在恒河门、俱舍伐尔多、毕尔瓦卡、尼罗山以及迦那卡拉沐浴之人,洗去罪孽,便升往天界。
13.64.14
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत् ।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥ १३.६४.१४ ॥
在水池中漱口净身者,可获得马祭的果报;应当梵行、克制愤怒、守信诚实、不害生灵。
13.64.15
यत्र भागीरथी गङ्गा वहते दिशमुत्तरम् ।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते ॥ १३.६४.१५ ॥
在婆吉罗提恒河向北流去之处,于大自在天的三处圣地受沐浴灌顶之人——
13.64.16
एकमासं निराहारः स पश्यति हि देवताः ।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ॥ १३.६४.१६ ॥
禁食一月,他得见诸神;在七恒河、三恒河和因陀罗之道上以供水款待诸神,(便可得此果报)。
13.64.17
अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः ।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ॥ १३.६४.१७ ॥
在大道场行漱口净身,又虔诚行火祭并保持清净之人,得财富以享用,且重新投生。
13.64.18
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ॥ १३.६४.१८ ॥
禁食一月,他一月之内即得成就;于大池中漱口净身,在婆利古山上不生贪欲。
13.64.19
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ॥ १३.६४.१९ ॥
禁食三夜者可脱离杀婆罗门之罪;在少女井处触水,在婆罗迦完成奉水之仪的人。
13.64.20
देवेषु लभते कीर्तिं यशसा च विराजते ॥ १३.६४.२० ॥
他在诸神之中获得名声,并以荣耀而光彩照人。
13.64.21
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे ।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः ॥ १३.६४.२१ ॥
在提毗迦河与顺达利迦池触水,同样在阿需尼触水的人,死后可获得容貌与光辉。
13.64.22
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा ।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ १३.६४.२२ ॥
在大恒河、昴宿与火星处触水,并禁食半月的清净者,可升天界。
13.64.23
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा ।
निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥ १३.६४.२३ ॥
在金铃修行处触水,同样在天女的神圣居所,能随意游行的人受到尊崇。
13.64.24
कालिकाश्रममासाद्य विपाशायां कृतोदकः ।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात् ॥ १३.६४.२४ ॥
到达迦利迦修行处并在毗波沙河奉水的梵行者,若已战胜愤怒,三夜即可脱离世间轮回。
13.64.25
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् ।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ १३.६४.२५ ॥
在卡利迦(Kṛttikā)仙居沐浴,向祖先献水并使摩诃提婆欢喜者,便得清净,升入天界。
13.64.26
महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः ।
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ १३.६४.२६ ॥
触碰大井、禁食三夜而清净者,应当舍弃对动物、植物及两足众生的恐惧。
13.64.27
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः ।
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः ॥ १३.६४.२७ ॥
在提婆达茹林中沐浴,洗去罪业,行水祭,居住七夜而清净者,获得“天神”之称。
13.64.28
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा ।
अपांप्रपतनासेवी सेव्यते सोप्सरोगणैः ॥ १३.६४.२८ ॥
居于沙罗斯坦巴、古萨斯坦巴及德罗纳沙尔曼之地瀑布旁者,受到诸阿普萨拉斯群的侍奉。
13.64.29
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते ॥ १३.६४.२९ ॥
在吉特拉库塔与贾纳斯坦、曼达基尼之水中沐浴并绝食者,受王者之福荫侍奉。
13.64.30
श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च ।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत् ॥ १३.६४.३० ॥
前往舍耶玛的仙居,居住其中,行灌顶沐浴,绝食半月者,获得隐身之果。
13.64.31
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः ।
एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ १३.६४.३१ ॥
到达考希基河,只以风为食,无贪欲,人在二十一夜之内升往天界。
13.64.32
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति ।
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ १३.६४.३२ ॥
若在摩坦伽池沐浴一夜,便得成就;他进入无所依、黑暗的永恒之境。
13.64.33
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः ।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ १३.६४.३३ ॥
在奈米沙的天堂渡口,制御诸根、漱口净身,并供水一月,人便得到人祭(Puruṣamedha)之果。
13.64.34
गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने ।
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः ॥ १३.६४.३४ ॥
在恒河渡口及乌特帕拉瓦那漱口净身,并在那里供水一月,便得马祭之果。
13.64.35
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ ।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः ॥ १३.६४.३५ ॥
在恒河与阎牟那河的圣渡口,以及迦兰遮罗山,在那里供水一月,便得十次马祭。
13.64.36
यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते ॥ १३.६४.३६ ॥
在杖池漱口净身,甚至胜过布施食物。
13.64.37
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः ।
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥ १३.६४.३७ ॥
一万个圣渡口、三千万及其他圣地在磨伽月聚集于普拉雅加,婆罗多之牛啊。
13.64.38
माघमासं प्रयागे तु नियतः संशितव्रतः ।
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ १३.६४.३८ ॥
在磨伽月于普拉雅加自制且持守坚定誓愿而沐浴的人,婆罗多之最,将变得清净并获得天界。
13.64.39
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः ।
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥ १३.६४.३९ ॥
在摩录多众的渡口漱口,在祖先的道场和毗婆娑多的渡口变得清净的人,自己便成为圣渡口。
13.64.40
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः ।
एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ १३.६४.४० ॥
同样,前往梵湖、在婆吉罗提河行水供并绝食一月的人,将达到月亮界。
13.64.41
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः ।
द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ १३.६४.४१ ॥
在乌特帕塔卡沐浴,在阿湿塔跋克拉行水供,并绝食十二日的人,将获得人祭之果。
13.64.42
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते ।
तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते ॥ १३.६४.४२ ॥
在阿什玛普利施塔、伽耶、尼罗文达山,以及第三日在鹤足,人便可洗清杀婆罗门的罪过。
13.64.43
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम् ।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत् ॥ १३.६४.४३ ॥
在迦罗频伽处饮水净身,多次识得水,人在阿耆尼之城沐浴后,应居住于阿耆尼女之城。
13.64.44
करवीरपुरे स्नात्वा विशालायां कृतोदकः ।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥ १३.६४.४४ ॥
在迦罗毗罗补罗沐浴,在毗舍罗供奉水,在天湖饮水净身者,成为梵而光辉照耀。
13.64.45
पुनरावर्तनन्दां च महानन्दां च सेव्य वै ।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ १३.६४.४५ ॥
亲近再转喜与大喜之地后,在难陀园中,克制而不害生者,受到天女们的侍奉。
13.64.46
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः ।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ १३.६४.४६ ॥
在昴宿相会时心志专一地往乌尔瓦西处,并依仪轨在罗希提亚沐浴,人便得白莲之果。
13.64.47
रामह्रद उपस्पृश्य विपाशायां कृतोदकः ।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ १३.६४.४७ ॥
在罗摩湖饮水净身,在毗波沙河供奉水,断食十二日,人便完全脱离罪垢。
13.64.48
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः ।
एकमासं निराहारो जमदग्निगतिं लभेत् ॥ १३.६४.४८ ॥
在大湖饮水净身,心志清净,断食一月,人便得到遮摩陀吉尼的归宿。
13.64.49
विन्ध्ये संताप्य चात्मानं सत्यसन्धस्त्वहिंसकः ।
विनयात्तप आस्थाय मासेनैकेन सिध्यति ॥ १३.६४.४९ ॥
在汀底山上以苦行煎熬自身,守信且不害生,以谦卑持守苦行者,一月之内即得成就。
13.64.50
मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम् ।
देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते।
कुमारपदमास्थाय मासेनैकेन शुध्यति ॥ १३.६४.५० ॥
在文达、梵牛处及神山尼里奇,于神池中漱水净身,他便如梵一般光耀;安住于童子之所,一月之内即得清净。
13.64.51
नर्मदायामुपस्पृश्य तता शूर्पारकोदके ।
एकपक्षं निराहारो राजपुत्रो विधीयते ॥ १३.६४.५१ ॥
在那尔玛达河漱水之后,再于尚帕拉卡之水中,王子被规定绝食半月。
13.64.52
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः ।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ १३.६४.५२ ॥
在赡部道上,三个月中克己专注,于一昼夜之内便得成就。
13.64.53
कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम् ।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥ १३.६४.५३ ॥
在考卡穆卡沐浴之后,前往安伽利的隐修处,食蔬、穿树皮衣,便得十位少女。
13.64.55
वैवस्वतस्य सदनं न स गच्छेत्कदाचन ।
प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः ॥ १३.६४.५५ ॥
他绝不前往毗婆斯伐多(阎摩)之居。在普拉巴薩,于新月之日,一心向我,一夜之间即得成就;大臂者啊,此人生而为不死者。
13.64.56
उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे ।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ १३.६४.५६ ॥
在乌占那伽漱口净身,并在阿尔什提舍那和平伽的修道院沐浴之人,可脱离一切罪恶。
13.64.57
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥ १३.६४.५७ ॥
在库利亚漱口净身并诵念阿格玛沙那颂,禁食三夜之人,可得马祭之功德。
13.64.58
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः ।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥ १३.६४.५८ ॥
在平达拉伽漱口净身并住宿一夜之人,变得清净,于黎明时分获得火祭之功德。
13.64.59
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः ॥ १३.६४.५९ ॥
同样,前往被法林装饰的梵湖,漱口净身之人变得清净,获得白莲祭之功德。
13.64.60
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च ।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत् ॥ १३.६४.६० ॥
在迈纳卡山沐浴,并行晨昏之礼,一月之内战胜欲望,即可获得一切祭祀之果报。
13.64.61
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम् ।
अभ्येत्य योजनशताद्भूणहा विप्रमुच्यते ॥ १३.६४.६१ ॥
无论从百由旬之外而来,只要接近迦罗达迦、难提池及北方曼纳萨湖,杀胎之人即得解脱。
13.64.62
नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः ।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति ॥ १३.६४.६२ ॥
见到难提湿伐罗的神像者,可脱离罪业;在天路上沐浴者,即往梵界而去。
13.64.63
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः ।
आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ १३.६४.६३ ॥
著名的圣山雪山是湿婆的岳父;它是一切宝石的矿藏,为悉陀与遮罗所侍奉。
13.64.64
दर्शनाद्गमनात्पूतो भवेदनशनादपि ।
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ॥ १३.६४.६४ ॥
见之、往之,乃至绝食,皆可使人清净;于此无食之处,依法舍弃身体。
13.64.65
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ।
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा। ॥ १३.६४.६५ ॥
知生命无常,已通达吠陀终极的再生者,于彼处礼拜诸神、敬拜诸仙……
13.64.66
ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् ।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ १३.६४.६६ ॥
若有人克服忿怒与贪婪而居于圣地,则无物不得;因往圣地而成就。
13.64.67
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया ॥ १३.६४.६७ ॥
凡不可至、艰险崎岖之圣地,皆可以心意前往,于观想一切圣地之时。
13.64.68
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम् ।
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा ॥ १३.६४.६८ ॥
此乃清净、有功德、通往天界且至上。此乃吠陀的秘密,适于沐浴,亦能净化。
13.64.69
इदं दद्याद्द्विजातीनां साधोरात्महितस्य च ।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च। ॥ १३.६४.६९ ॥
此当授予再生族及求自身利益的善人。当在朋友耳边念诵,亦当在随从的弟子耳边念诵。
13.64.70
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः ।
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता ॥ १३.६४.७० ॥
大苦行者安吉罗斯确实将此传授给乔达摩,并得到智者迦叶波的许可。
13.64.71
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् ।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥ १३.६४.७१ ॥
此乃大仙所当诵念,于诸净化之中亦为至上。若常常诵念,警醒起身,清净之人当得升天。
13.64.72
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् ।
उत्तमे च कुले जन्म लभेञ्जातीश्च संस्मरेत् ॥ १३.६४.७२ ॥
凡闻此安吉罗斯所说之秘义者,当得生于高贵之家,并忆起其前世。