Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.69.1

ब्राह्मणानेव सततं भृशं सम्परिपूजयेत् ।
एते हि सोमराजान ईश्वरः सुखदुःखयोः ॥ १३.६९.१ ॥

应当始终极其恭敬地供养婆罗门,因为他们是苏摩之王,是苦乐的主宰。

13.69.2

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः ।
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात् ॥ १३.६९.२ ॥

国王应当以享乐、饰物及其所愿之物,并以礼拜,常常供养他们,像父亲一样保护他们;如此国家得享安宁,犹如因因陀罗而众生得安宁。

13.69.3

ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ १३.६९.३ ॥

在国中应寻求博学、清净、具有梵之光辉的婆罗门,以及使敌人受苦的大车战士刹帝利。

13.69.4

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् ।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै ॥ १३.६९.४ ॥

国王啊,应在家中供养出身高贵、通晓法、持守坚定誓愿的婆罗门;没有比这更高的了。

13.69.5

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ १३.६९.५ ॥

凡献给婆罗门的供物,诸神接受,一切众生的祖灵也接受;没有比他们更高的了。

13.69.6

आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः ।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते ॥ १३.६९.६ ॥

阿ditya、月神、毗湿奴、湿婆、火神与生主,皆进入婆罗门之身,常常享用食物。

13.69.7

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ १३.६९.७ ॥

若婆罗门不食其食,祖先便不食其食;作恶而憎恨婆罗门者,其食诸天亦不食。

13.69.8

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।
तथैव देवता राजन्नात्र कार्या विचारणा ॥ १३.६९.८ ॥

婆罗门满足之时,祖先常得欢喜;同样,大王,诸天亦得欢喜。此中不应有疑。

13.69.9

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम् ॥ १३.६९.९ ॥

同样,凡受此献祭者亦得欢喜。死后他们不灭,而得至上之境。

13.69.10

येनयेनैव प्रीयन्ते पितरो देवतास्तथा ।
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा ॥ १३.६९.१० ॥

祖先与诸天以何种方式得欢喜,便以同样的方式得欢喜。

13.69.11

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ १३.६९.११ ॥

众生皆由婆罗门而生,那生主之本源即出于婆罗门;此人从何而生,死后往何处去,也都由此而来。

13.69.12

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः ॥ १३.६९.१२ ॥

吠陀乃是通往天界的道路,也是通往地狱的道路。婆罗门,两足众生中最优者,知过去与未来。

13.69.13

ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः ।
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥ १३.६९.१३ ॥

婆罗门是两足者中最优秀的,知晓自己的法;追随他的人不会遭受失败。他们死后不会毁灭,不会遭受失败。

13.69.14

यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः ।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥ १३.६९.१४ ॥

那些心胸宽广、自我克制的人,接受从婆罗门口中所得的话语,他们不会遭受失败。

13.69.15

क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥ १३.६९.१५ ॥

炽盛的刹帝利的光辉与力量,只在婆罗门之中平息。

13.69.16

भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन् ।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥ १३.६९.१६ ॥

婆哩古族征服了多罗遮阇族,安吉罗娑族征服了尼波族;婆罗多族的雄牛啊,婆罗堕遮征服了吠多诃婆族和爱罗族。

13.69.17

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ १३.६९.१७ ॥

这些以黑羚羊皮为旗帜的人也征服了赤兵族;然后应投掷水瓶,开始为渡者施行仪轨。

13.69.18

यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा ।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ १३.६९.१८ ॥

世间所说、所闻、所诵的一切,都只存在于婆罗门之中,犹如隐藏在木柴中的火。

13.69.19

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥ १३.६९.१९ ॥

此处人们也讲述这段古老的历史:婆苏提婆与大地的对话,婆罗多族的雄牛啊。

13.69.20

मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे ।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥ १३.६९.२० ॥

众生之母,吉祥者啊,我向你提出一个疑问:家居者以何种行为消除罪恶?

13.69.28

ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥ १३.६९.२८ ॥

依婆罗门之许可而行的人,应当坚定、清净、自制。

13.69.29

इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः ।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत् ॥ १३.६९.२९ ॥

摩图苏陀那听了大地的这番话,说道:“说得好,说得好。”然后,考罗婆啊,他也尊敬了大地。

13.69.30

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ १३.६९.३० ॥

普利塔之子啊,听了这个譬喻后,应当常以克制之心恭敬婆罗门中的最优秀者;如此你便能获得福祉。