摩诃婆罗多 · 章 13.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.70.1
जन्मनैव महाभागो ब्राह्मणो नाम जायते ।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक् ॥ १३.७०.१ ॥
婆罗门凭出生便是大福之人;他值得一切众生礼敬,作为受邀的客人,在恭敬的邀请之后,他最先进食。
13.70.2
सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः ।
सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः।
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ १३.७०.२ ॥
孩子啊,婆罗门是众人的朋友,面容和悦;但一旦怒火燃起,这些婆罗门便会将众人全部打倒。受到尊敬时,他们便以吉祥的言辞冥想。
13.70.3
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः ॥ १३.७०.३ ॥
孩子啊,这些婆罗门一旦怒起,便会以严厉的言辞杀死所有敌视他们的人;若他们受辱,也会如此。
13.70.4
अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः ।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥ १३.७०.४ ॥
这里,古老的智者吟诵昔日所唱的诗句:造物主达塔创造了再生者,并如往昔那样确立了他们。
13.70.5
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि ।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम् ॥ १३.७०.५ ॥
你们在此别无他事可做,只需遵循向上之道的规则。受梵天守护者,必被梵天护卫;因此你们将得到福祉与光辉。
13.70.6
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति ।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ ॥ १३.७०.६ ॥
对于各自履行本分的人,你们将拥有婆罗门的光辉。你们将成为一切众生的准则,也是引导的缰绳。
13.70.7
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते ॥ १३.७०.७ ॥
智慧的婆罗门不应从事奴仆的职业。从事奴仆职业者,婆罗门的光辉便被遮蔽。
13.70.8
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ ॥ १३.७०.८ ॥
光荣、智慧、光辉与威严的权势,唯有通过自修吠陀,你们才能获得广大的尊荣。
13.70.9
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः ।
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः ॥ १३.७०.९ ॥
在阿呼伐尼耶火中献祭之后,安立于大福之中,你们将成为祭品的首先享用者,并由婆罗门的光辉所任命。
13.70.10
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥ १३.७०.१० ॥
怀着至高的信心,以不伤害他人而得的财富,专注于克制与自修,你们将得到一切所愿。
13.70.11
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन ।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च ॥ १३.७०.११ ॥
凡人间所有之物,以及诸神所有之物,皆可通过苦行、智慧与戒律而成就。
13.70.12
युष्मत्संमाननां प्रीतिं पावनैः क्षत्रिया भृशम् ।
अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा ॥ १३.७०.१२ ॥
因你们所受的尊敬与对清净者的爱戴,刹帝利在今生与来世都大量地归附于你们,吠舍与首陀罗亦依次而来。
13.70.13
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम् ।
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम् ॥ १३.७०.१३ ॥
若你们不保护他们,他们便会怀有敌意,走向婆罗门的毁灭。诸世界依靠你们的光辉而存续;因此你们应当守护三界。
13.70.14
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ १३.७०.१४ ॥
因此,无垢者啊,我已将这些以梵歌的形式向你宣说。那位智者出于对婆罗门的怜悯而说了此言。
13.70.15
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः ॥ १३.७०.१५ ॥
我认为他们的力量如同国王与苦行者;他们难以接近、凶猛,并凭借苦行之力迅速行动。
13.70.16
सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे ।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे ॥ १३.७०.१६ ॥
他们之中有人具有狮子的本性,有人具有老虎的本性;另有人具有野猪与鹿的本性,还有人具有大象的本性。
13.70.17
सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः ।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे ॥ १३.७०.१७ ॥
有人如蛇的触碰,有人如鳄鱼的触碰;有人以言语杀人,另有人夺人双目。
13.70.18
सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे ।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ १३.७०.१८ ॥
有人如毒蛇,另有人愚钝。般度之子坚战啊,此处婆罗门的行为多种多样。
13.70.19
मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा ।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः ॥ १३.७०.१९ ॥
摩柯罗、德罗毗荼、罗陀、波陀罗、干婆尸罗,以及首恩底迦、达罗陀、达尔婆、盗贼、沙巴罗与野蛮人。
13.70.20
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ १३.७०.२० ॥
还有㤭罗陀与耶槃那,以及那些刹帝利种姓,因不尊敬婆罗门而沦为贱民(牛的状态)。
13.70.21
ब्राह्मणानां परिभवादसुराः सलिलेशयाः ।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥ १३.७०.२१ ॥
因轻慢婆罗门,阿修罗成为水中的居者;因婆罗门的恩惠,诸天神居于天界。
13.70.22
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः ।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि ॥ १३.७०.२२ ॥
触摸天空是不可能的;雪山不可撼动;恒河不能被堤坝阻挡;在大地上,婆罗门之力(梵力)是不可战胜的。
13.70.23
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा ।
ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥ १३.७०.२३ ॥
与婆罗门为敌,不可能统治大地;婆罗门是大德之人,甚至是诸神之神。
13.70.24
तान्पूजयस्व सततं दानेन परिचर्यया ।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम् ॥ १३.७०.२४ ॥
若你想享有这被大海环绕的大地,就应以布施和侍奉经常供养他们。
13.70.25
प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप ॥ १३.७०.२५ ॥
无罪者啊,婆罗门的光辉正是通过接受布施而平息。国王啊,那些不愿接受布施的人,你也应当加以保护。