Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.71.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर ॥ १३.७१.१ ॥

此处人们也引用这段古老的故事——帝释天与商跋罗的对话。般度之子坚战,请听其详。

13.71.2

शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः ।
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥ १३.७१.२ ॥

帝释天隐去真身,化作披发、衣饰华美的模样,变作婆罗门之形,向商跋罗提出一问。

13.71.3

केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि ।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः ॥ १३.७१.३ ॥

商跋罗啊,你以何种行为超越同类?人们因何认为你最为杰出?请如实告诉我。

13.71.4

नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम् ।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥ १३.७१.४ ॥

我从不妒忌婆罗门;这确是我的看法。凡讲说经典的婆罗门,我都欣然尊敬。

13.71.5

श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् ।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम् ॥ १३.७१.५ ॥

聆听之后,我从不轻慢他们,也从不冒犯。先敬奉他们,再进一步请教,并握住智者的双足。

13.71.6

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ १३.७१.६ ॥

他们坦然发言,总是约束着我。在疏忽者之中,我常保警觉;在沉睡者之中,我常保清醒。

13.71.7

ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् ।
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ १३.७१.७ ॥

учителя изливают на меня, стойкого на пути писаний, почитающего брахманов и не завидующего, как мухи роятся над мёдом.

13.71.8

यच्च भाषन्ति संतुष्टास्तच्च गृह्णाम्यमायया ।
समाधिमात्मनो नित्यमनुलोममचिन्तयम् ॥ १३.७१.८ ॥

他们满意地说出的任何话,我都毫无欺诈地接受,并始终以与自己的专注相符的方式思考。

13.71.9

सोहं वागग्रमृष्टानां रसानामवलेहकः ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ १३.७१.९ ॥

我是品尝经由言语之尖端净化的精华之人;如月亮立于众星之上,我也超越于同类之上。

13.71.10

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ १३.७१.१० ॥

这是大地上的甘露,这是至上的眼睛:从婆罗门口中听闻经典之后,人在此处便得以踏上实践。

13.71.11

एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा ।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत ॥ १३.७१.११ ॥

我父亲理解了这个缘由,并曾见过往昔天神与阿修罗之战,于是心中欢喜,又感惊讶。

13.71.12

दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् ।
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम् ॥ १३.७१.१२ ॥

他见到大心婆罗门的伟大,便问月亮:“这些人是如何成为悉陀的?”

13.71.13

ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा ।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः ॥ १३.७१.१३ ॥

婆罗门总是因苦行而成就,其力量在于言语;刹帝利以臂力为勇;再生族以言语为武器。

13.71.14

प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन् ।
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः ॥ १३.७१.१४ ॥

即使流寓他乡,或居于恶劣之处,也应当学习吠陀;无怒而寂静,成为一位视众生平等的苦行者。

13.71.15

अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे ।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः ॥ १३.७१.१५ ॥

即使学识渊博之人,若在父亲家中夸耀般学习所有吠陀,人们也只把他视为乡下人。

13.71.16

भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ १३.७१.१६ ॥

如同蛇蜷伏洞中吞食猎物,大地也吞没这两种人:不作战的国王,和不出游他乡的婆罗门。

13.71.17

अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ १३.७१.१७ ॥

傲慢摧毁愚昧之人的福运;少女因怀孕而受污,再生族因久居家中而受污。

13.71.18

विद्याविदो लोकविदस्तपोदमसमन्विताः ।
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः ॥ १३.७१.१८ ॥

通晓学问、通晓世事、具备苦行与克制的再生族,应当永远受到敬重和礼拜,由那些希求两世善果的人来行。

13.71.19

इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ १३.७१.१९ ॥

我父亲听了月神关于奇妙景象的这番话,便礼敬婆罗门;我也同样礼敬持大誓的婆罗门。

13.71.20

श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् ।
द्विजान्संम्पूजयामास महेन्द्रत्वमवाप च ॥ १३.७१.२० ॥

因陀罗听了达那婆之主口中吐出的这句话,便隆重地礼敬婆罗门,并获得了大因陀罗的尊位。