摩诃婆罗多 · 章 13.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.72.1
अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम् ।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह ॥ १३.७२.१ ॥
无论是新来的、长期住在此处的,还是远道而来的——祖父啊,谁才是合适的受施者?
13.72.2
क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् ।
यो नो याचेत यत्किंचित्सर्वं दद्याम इत्यपि ॥ १३.७२.२ ॥
对某些人而言,这是一种至高的私下誓愿:凡向我们求取任何东西的人,我们都应给予一切。
13.72.3
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम ।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥ १३.७२.३ ॥
我们听过这样的教导:不要欺压仆从之辈;因为欺压仆从的人,正是贬低了自己。
13.72.4
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम् ।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः ॥ १३.७२.४ ॥
无论是新来的、长期居住的,还是远道而来的人,智者都不认为他是合适的受施者。
13.72.5
अपीडया च भूतानां धर्मस्याहिंसया तथा ।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत् ॥ १३.७२.५ ॥
不压迫众生,依法之不害——正确了解受施者,不应使所施之人感到懊悔。
13.72.6
ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः ॥ १३.७२.६ ॥
主祭司、家庭祭司、师长、弟子、姻亲与亲属——凡博学而无嫉妒者,都应受到尊敬与礼遇。
13.72.7
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् ।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै ॥ १३.७२.७ ॥
行为与此相反的人,都不配得到尊敬的对待。因此应当通过品德来考验人,并仔细加以观察。
13.72.8
अक्रोधः सत्यवचनमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ १३.७२.८ ॥
不怒、说真话、不杀生、自制、正直、不害人、不骄慢、知耻、忍耐、克制感官与平静。
13.72.9
यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत ।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति ॥ १३.७२.९ ॥
婆罗多之子啊,凡身上显露这些品德、看不到不当行为、天性上安住于这些品德之中的人,才是值得尊敬的合格之人。
13.72.10
तथा चिरोषितं चापि सम्प्रत्यागतमेव च ।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥ १३.७२.१० ॥
同样,无论是长久居住于此的人,还是刚刚到来的人,无论是新来不熟识的人,还是旧识之人,那合格之人都值得尊敬。
13.72.11
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम् ।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ॥ १३.७२.११ ॥
轻视吠陀的权威、违背论典、处处混乱,这便是自我毁灭。
13.72.12
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां ॥ १३.७२.१२ ॥
若有婆罗门自以为博学,诽谤吠陀,沉迷于无益的逻辑与论辩之学——
13.72.13
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः ।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि ॥ १३.७२.१३ ॥
在善人之中以辩论取胜、却无正当理由而争辩、辱骂婆罗门、又话多的人,他们始终(为婆罗门所鄙弃)。
13.72.14
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि ।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः ॥ १३.७२.१४ ॥
孩子啊,凡事都怀疑、愚昧、幼稚、言语刻薄的人,应当认清这样的人;人们确实把他看作一条狗。
13.72.15
यथा श्वा भषितुं चैव हन्तु चैवावसज्जते ।
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च।
अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः ॥ १३.७२.१५ ॥
正如狗为了吠叫和咬人而纠缠不休,同样,为了闲谈和毁灭一切经典,才有那些学识浅薄的诡辩者与伪学者出现于世。
13.72.16
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः ।
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः ॥ १३.७२.१६ ॥
应当追随那些通晓天启与传承典籍、史诗、往世书和森林经典的人,追随博学之士,以及通晓精要的学者。
13.72.17
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च ।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः ॥ १३.७२.१७ ॥
还应当观察世俗生活的规范、法(达摩)以及自身的利益。如此行事的人,将长久昌盛,岁月绵长。
13.72.18
ऋणमुन्मुच्य देवानामृषीणां च तथैव च ।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥ १३.७२.१८ ॥
在还清对诸神、对仙人、同样对祖先、然后对婆罗门和客人的债务之后——第五种债也(必须偿还)。
13.72.19
पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा ।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते ॥ १३.७२.१९ ॥
依次由经过充分净化的行为而获得解脱者——如此,家居者在履行职责时,不会离失于法。