Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.73.1

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम ।
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः ॥ १३.७३.१ ॥

婆罗多族中最優秀者啊,我願聽聞女性的本性。女人確實是過失的根源,她們被認為心性輕浮。

13.73.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया ॥ १३.७३.२ ॥

此處也講述這則古老的故事:那羅陀與一位名為般遮遮那(Pañcacūḍā)的淫蕩女子之間的對話。

13.73.3

लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ १३.७३.३ ॥

往昔,那羅陀天仙遊歷諸界,見到了梵天所生、無可指摘的天女般遮遮那。

13.73.4

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्चाप्सरसं मुनिः ।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे ॥ १३.७३.४ ॥

那仙人見她全身秀美,便問這位天女:「美腰的女子啊,我心中有一疑問,請告訴我。」

13.73.5

एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम् ।
विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥ १३.७३.५ ॥

她被如此詢問後,回答婆羅門那羅陀說:「若在我的能力範圍之內,我便告訴您,如果您認為我能夠做到。」

13.73.6

न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ १३.७३.६ ॥

那羅陀說:「吉祥的女子啊,凡超出你能力範圍的事,我絕不會讓你去做。美面的女子啊,我想從你這裡聽聞女性的本性。」

13.73.7

एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥ १३.७३.७ ॥

天仙之首听了这位神仙圣人的话,回答道:“我作为一个贞洁的女子,不能指责女人。”

13.73.8

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः ।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे ॥ १३.७३.८ ॥

神仙圣人啊,您知道女人是怎样的,她们的本性如何;您不该派我去做这样的事。

13.73.9

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे ।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ १३.७३.९ ॥

神仙圣人对她说:“纤腰的女子啊,你要说实话;说谎才有过错,真实之中没有过错。”

13.73.10

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी ।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ॥ १३.७३.१० ॥

她听了这番话,便微笑着下定决心,开始说出女子那些恒久的、真实的过失。

13.73.11

कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ १३.७३.११ ॥

即使是出身高贵、容貌美丽、有夫君或庇护的女子,也不能守住规矩;纳罗陀啊,这就是女子的过失。

13.73.12

न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै ।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ १३.७३.१२ ॥

的确,没有什么比女子更邪恶的了;女子是各种过失的根源,这你也是知道的。

13.73.13

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ॥ १३.७३.१३ ॥

即使有知名、富有、相称且顺从的丈夫,女人一旦接近另一个男人,也无法去考验他们。

13.73.14

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥ १३.७३.१४ ॥

主啊,这是女人的邪恶行为,我们也是如此。抛弃羞耻,我们甚至侍奉最邪恶的男人。

13.73.15

स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १३.७३.१५ ॥

那个想要女人、接近她并稍微服侍她的男人,女人正是想要他。

13.73.16

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १३.७३.१६ ॥

由于男人的冷漠、恐惧以及家人的缘故,越过礼法界限的女人仍留在丈夫身边。

13.73.17

नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः ।
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ १३.७३.१७ ॥

对她们来说没有不可接近的男人,年龄也没有定准;无论丑陋还是英俊,她们只因他是“男人”便加以享用。

13.73.18

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन ।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १३.७३.१८ ॥

女人留在丈夫身边,既不是出于恐惧,也不是出于怜悯,无论如何也不是为了财富,也不是因为亲族和家族的关系。

13.73.19

यौवने वर्तमानानां मृष्टाभरणवाससाम् ।
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ १३.७३.१९ ॥

即使是良家妇女,也羡慕那些正值青春、佩戴光亮饰物和华美衣裳、任性而为的女子。

13.73.20

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ॥ १३.७३.२० ॥

即使是那些常被尊重、被视为心爱之人而受到守护的女子,也会依附于驼背、盲人、愚钝者和侏儒。

13.73.21

पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ १३.७३.२१ ॥

天仙圣人啊,即使在跛子和其他被鄙视的男人之中,大仙啊,在这世上也没有哪个男子是女子不能接近的。

13.73.22

यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ १३.७३.२२ ॥

婆罗门啊,若男子无论如何都找不到出路,他们便彼此交往;的确,女子并不会留在丈夫身边。

13.73.23

दुष्टाचाराः पापरता असत्या मायया वृताः ।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम् ॥ १३.७३.२३ ॥

她们行为邪恶,乐于作恶,不诚实,被欺骗所笼罩,心思大多难以捉摸;大体上应当这样理解。

13.73.24

अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ १३.७३.२४ ॥

只因缺少男子,因惧怕家人,又因畏惧被杀与被缚,她们才自己保持戒备。

13.73.25

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः ॥ १३.७३.२५ ॥

女人天性善变,难以侍奉,本性也难以捉摸;对于有智慧的男子而言,她们在此便如其心境所呈现的那样。

13.73.26

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १३.७३.२६ ॥

火不会被柴薪满足,大海不会被河流满足,死亡不会被一切众生满足;同样,明眸的女子也不会被男人满足。

13.73.27

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ १३.७३.२७ ॥

天界仙人啊,这也是所有女子的另一个秘密:只要看见另一个男子,女子的阴部便会湿润。

13.73.28

कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥ १३.७३.२८ ॥

即使是给予她们欲望、慰藉她们心灵、保护她们的自己丈夫,恶劣的女子也不能容忍。

13.73.29

न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान् ।
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम् ॥ १३.७३.२९ ॥

丰厚的欲乐、饰物与财富的积聚,她们并不如看重从欢爱中得到的恩宠那样看重。

13.73.30

अन्तकः शमनो मृत्युः पातालं बडबामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ १३.७३.३० ॥

终结者、调伏者、死亡、地底世界、母马口之火、剃刀之刃、毒、蛇、火——这些在一边,而女子在另一边。

13.73.31

यतश्च भूतानि महान्ति पञ्च ।
यतश्च लोका विहिता विधात्रा।
यतः पुमांसः प्रमदाश्च निर्मिता-
स्ततश्च दोषाः प्रमदासु नारद ॥ १३.७३.३१ ॥

五大元素由何而来,造物主由何安排诸世界,男子与女子由何而造,女子的过失便源于此,哦,那罗陀。