Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.75.1

एवमेतन्महाबाहो नात्र मिथ्याऽस्ति किञ्चन ।
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥ १३.७५.१ ॥

正是如此,大臂者啊;你关于女人所说的话,没有一句是虚假的,俱卢后裔,人主啊。

13.75.2

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥ १३.७५.२ ॥

在此我将为你讲述一个古老的传说,讲述往昔伟大的毗富罗如何施行护佑。

13.75.3

प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ ।
यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप ॥ १३.७५.३ ॥

婆罗多之雄牛啊,梵天如何创造女子,以及为了什么目的,这些我也要向你讲明,孩子,人主啊。

13.75.4

न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै ।
अग्निर्हिः प्रमदा दीप्तो मायाश्च मयजा विभो।
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥ १३.७५.४ ॥

孩子,没有比女人更邪恶的东西。女人是熊熊烈火,威力者啊,是由摩耶所生的幻术;刀刃、毒药、毒蛇与死亡——女人便是这一切的集合。

13.75.5

प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम् ।
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ १३.७५.५ ॥

大臂者啊,我们听说这些众生是行法的;他们自行趋向神性,于是诸神心生恐惧。

13.75.6

अथाभ्यागच्छन्देवास्ते पितामहमरिंदम ।
निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः ॥ १३.७५.६ ॥

于是,制伏敌人者啊,诸神来到祖父面前;陈述了自己的心意之后,他们低着头默然而坐。

13.75.7

तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः ।
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥ १३.७५.७ ॥

那位祖父、主宰者知晓诸神的内心,便创造了名为克利底的女子,以迷惑世人。

13.75.8

पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् ।
असाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः ॥ १३.७५.८ ॥

贡蒂之子啊,在先前的创造中,这里有贤良的女子;而由生主的创造,产生了不贞的克利底。

13.75.9

ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरान्सदा ॥ १३.७५.९ ॥

那些贪恋欲望的女子,总是折磨男人。

13.75.10

क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः ।
असज्जन्त प्रजाः सर्वाः कामक्रोधवशङ्गताः ॥ १३.७५.१० ॥

诸神之主又造出了作为欲望助手的愤怒;于是一切众生都落入欲望与愤怒的支配,陷于执著。

13.75.11

द्विजानां च गुरूणां च महागुरुनृपादिनाम् ।
क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा ॥ १३.७५.११ ॥

唉!即便是再生者、师长、大师、国王等人,因一时与女子结合的欲念而生的苦痛,何其绵延不绝!

13.75.12

अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम् ।
तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा ॥ १३.७५.१२ ॥

心常离染、因梵行而自性清净、专注于苦行、自制、供养与禅定的人,其清净是最高的。

13.75.13

न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ।
निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ १३.७५.१३ ॥

女子并无特定的仪式,这是法所确立的。女子无法控制感官,不通经典,且常说谎,《吠陀》如是说。

13.75.14

शय्यासनमलङ्कारमन्नपानमनार्यताम् ।
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥ १३.७५.१४ ॥

床榻坐具、装饰、饮食、粗鄙、恶语与欲望,这些是生主赐予女子的。

13.75.15

न तासां रक्षणं शक्यं कर्तुं पुंसां कथञ्चन ।
अपि विस्वकृता तात कुतस्तु पुरुषैरिह ॥ १३.७५.१५ ॥

男人无论如何也无法保护她们。亲爱的孩子,连宇宙的创造者都做不到,何况此间的男人?

13.75.16

वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ।
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ १३.७५.१६ ॥

无论以言语、杀戮、囚禁,还是种种苦刑,都无法守护这些女子,因为她们总是不受约束。

13.75.17

इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् ।
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः ॥ १३.७५.१७ ॥

人中之虎啊,这件事我先前曾听闻:昔日毗補罗如何守护了师父的妻子。

13.75.18

ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः ।
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥ १३.७५.१८ ॥

有一位名叫提婆舍摩的大德仙人,名声远播。他的妻子名叫鲁其,她的容貌在世间无人可比。

13.75.19

तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः ।
विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः ॥ १३.७५.१९ ॥

王中之王啊,她的容貌使诸天神、乾闼婆与檀那婆都为之迷惑,尤其是杀死弗栗多的帝释天(破城者)。

13.75.20

नारीणां चरितज्ञश्च देवशर्मा महामतिः ।
यथाशक्ति यथोस्साहं भार्यां तामभ्यरक्षत ॥ १३.७५.२० ॥

通晓女子品性的大智者提婆沙尔曼,依照自己的能力与热忱守护着那位妻子。

13.75.21

पुरंदरं च जानंश्च परस्त्रीकामचारिणम् ।
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ १३.७५.२१ ॥

他知道破城者因陀罗好色于他人之妻,因此竭力守护自己的妻子。

13.75.22

स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा ।
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥ १३.७५.२२ ॥

孩子,那位仙人一次想要举行祭祀,便思量该如何守护妻子。

13.75.23

रक्षाविधानं मनसा स सञ्चिन्त्य महातपाः ।
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ १३.७५.२३ ॥

这位大苦行者在心中仔细思量了守护之法,便唤来他心爱的弟子、婆利古后裔毗布罗,对他说道。

13.75.24

यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः ।
यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ १३.७५.२४ ॥

我将去举行祭祀;而这位罗奇时常渴慕诸神之主,你要依据自己的力量守护她。

13.75.25

अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् ।
स हि रूपाणि कुरुते विविधानि भृगूत्तम ॥ १३.७५.२५ ॥

你必须时刻警惕补罗陀罗(因陀罗)。他会变化出种种形貌,婆利古中的至尊者啊。

13.75.26

इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः ।
सदैवोग्रतपा राजन्नग्र्यर्कसदृशद्युतिः ॥ १३.७५.२६ ॥

被他如此询问的毗补罗,是一位制伏诸根的苦行者,常行严酷苦行,大王啊,他的光辉如同至尊的太阳。

13.75.27

धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत ।
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥ १३.७५.२७ ॥

精通法义、言语诚实的他回答说:“就这样吧。”随后,大王啊,他又向正要离去的老师问了这件事。

13.75.28

कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने ।
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ १३.७५.२८ ॥

哲人啊,帝释(因陀罗)来临时会现出什么形相?他的身体与光辉如何?请您为我解说。

13.75.29

ततः स भगवांस्तस्मै विपुलाय महात्मने ।
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥ १३.७५.२९ ॥

于是那位尊者向那位大德毗补罗,如实地解说了帝释的幻化,婆罗多啊。

13.75.30

बहुमायः स विप्रर्षे बलहा पाकशासनः ।
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥ १३.७५.३० ॥

婆罗门哲人啊,杀死波罗(Bala)、统治帕迦(Pāka)的因陀罗,充满种种幻化。他一次又一次地变现出种种形相。

13.75.31

किरीटी वज्रधृग्धन्वी मुकुटी बद्धकुण्डलः ।
भवत्यथ मुहूर्तेनि चण्डालसमदर्शनः ॥ १३.७५.३१ ॥

戴冠、执金刚杵、持弓、戴冠冕并佩耳环,他顷刻间便显得如旃陀罗一般。

13.75.32

शिखी जटी चीरवासाः पुनर्भवति पुत्रक ।
बृहच्छरीरश्च पनश्चीरवासाः पुनः कृशः ॥ १३.७५.३२ ॥

孩子,他又变为有顶髻、头发结成辫、身着树皮衣;又变为身形高大,又穿树皮衣而瘦弱。

13.75.33

गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः ।
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ १३.७५.३३ ॥

他又变为白、黑、深黑之色;丑与美、少与老,也都如此变化。

13.75.34

प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च ।
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥ १३.७५.३४ ॥

他又变为智者或愚人、哑者、矮者或高者;亦变为婆罗门、刹帝利、吠舍或首陀罗。

13.75.35

प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः ।
शुकवायसरूपी च हंसकोकिलरूपवान् ॥ १३.७५.३५ ॥

他又变为逆序与顺序之人;随后百祭之神(因陀罗)化为鹦鹉与乌鸦之形,又化为天鹅与杜鹃之形。

13.75.36

सिंहव्याघ्रगजानां च रूपं धारयते पुनः ।
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ॥ १३.७५.३६ ॥

他又化为狮、虎、象之形;亦化为天神或阿修罗之身,也化为诸王之身。

13.75.37

अकृशो मायुभग्राङ्गः शकुनिर्विकृतस्तथा ।
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ॥ १३.७५.३७ ॥

他不会消瘦,四肢也不会因幻术而断折;他变为鸟,变为丑陋的形体,变为四足兽,变为种种形态,然后又变得如孩童般愚昧。

13.75.38

मक्षिकामशकादीनां वपुर्धारयतेऽपि च ।
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् ॥ १३.७५.३८ ॥

他还能化为苍蝇、蚊子等形体。啊,毗富罗,任何人都无法捉住他。

13.75.39

अपि विश्वकृता तात येन सृष्टमिदं जगत् ।
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ॥ १३.७५.३९ ॥

孩子啊,即使是创造此世界的造物主,隐匿的因陀罗也只能以智慧之眼看见。

13.75.40

वायुभूतश्च स पुनर्देवराजो भवत्युतः ।
एवंरूपाणि सततं कुरुते पाकशासनः।
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥ १३.७५.४० ॥

他化为风,随后又成为诸神之王;帕卡的惩罚者因陀罗就这样经常变化形态。因此,啊,毗富罗,请用心尽力保护这位细腰女子。

13.75.41

यथा रुचिं नवलिहेद्देवेन्द्रो भृगुसत्तम ।
क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान् ॥ १३.७५.४१ ॥

啊,婆利固族中最优秀者,正如诸神之主随心所欲地重新舔舐在祭祀中已经供奉的祭品,他也像心术不正的狗一样如此行事。

13.75.42

एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा ।
देवशर्मा महाभागस्ततो भरतसत्तम ॥ १३.७५.४२ ॥

说完这话,那位主持祭祀的仙人便离去了。啊,婆罗多族中最优秀者,然后那位大福的提婆夏尔曼(也离去了)。

13.75.43

विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान् ।
रक्षां च परमां चक्रे देवराजान्महाबलात् ॥ १३.७५.४३ ॥

毗普罗闻听师尊之言,陷入忧虑,并为抵御诸神之王、大力的因陀罗做好了最高的守护。

13.75.44

किन्नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे ।
मायावी हि सुरेन्द्रोसौ दुर्धर्षश्चापि वीर्यवान् ॥ १३.७५.४४ ॥

守护师母,我能做什么呢?那位诸神之主善于幻化,难以抵挡,且威力强大。

13.75.45

नीपिधायाश्रमं शक्यो रक्षितुं पाकशासनः ।
उटजं वा तथा ह्यस्य नानाविधसरूपता ॥ १३.७५.४५ ॥

即便遮蔽了修行处,击败帕卡的因陀罗也难以阻挡;或者他的草屋也会变化出种种形态。

13.75.46

वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् ।
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येहमद्य वै ॥ १३.७५.४६ ॥

或者帝释天以风的形态侵犯师母。因此,我今日将进入她体内,作为她的光辉而住留。

13.75.47

अथवा पौरुषेणेयं न शक्या रक्षितुं मया ।
बहुरूपो हि भगवाञ्छ्रूयते पाकशासनः ॥ १३.७५.४७ ॥

否则,凭人力我无法守护她,因为据说那位尊贵的帕卡之惩者因陀罗能现多种形相。

13.75.48

सोहं योगबलादेनां रक्षिष्ये पाकशासनात् ।
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्ये हि रक्षितुम् ॥ १३.७५.४८ ॥

因此,我将以瑜伽之力,保护她免受帕卡之惩者因陀罗的侵害;我将肢体入其肢体,以守护她。

13.75.49

यद्युच्छिष्टामिमां पत्नीमद्य पश्यति मे गुरुः ।
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥ १३.७५.४९ ॥

若今日我的师尊见到此妻处于污秽之状,他拥有神圣的智慧与大苦行,必定因愤怒而诅咒我,毫无疑问。

13.75.50

न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा नृभिः ।
मायावी हि सुरेन्द्रोसावहो प्राप्तोस्मि संशयम् ॥ १३.७५.५० ॥

此女不能如其他女子那样被世人守护;那人便是施展幻术的天王。唉,我陷入了两难。

13.75.51

अवश्यं करणीयं हि गुरोरिह हि शासनम् ।
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ १३.७५.५१ ॥

此处必须遵从师尊的命令。若我如此行事,我所做的将是一桩奇事。

13.75.52

योगेनाथ प्रविश्येदं गुरुपत्न्याः कलेवरम् ।
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ॥ १३.७५.५२ ॥

于是,凭借瑜伽之力,我将进入师母的这具身体,不为所染,如莲叶上的水珠那般随风而动。

13.75.53

एवमेव शरीरे ऽस्या निवत्स्यामि समाहितः ।
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ १३.७५.५३ ॥

同样,我将以专注之心居于她的身体之中;对于已摆脱激情之相的人,我便不会有过失。

13.75.54

यथाहि शून्यां पथिकः सभामध्यावसेत्यथि ।
तथाऽद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्।
एवमेव शरीरे ऽस्य निवत्स्यामि समाहितः ॥ १३.७५.५४ ॥

犹如行人暂居空荡的议会厅,今日我便以师母之身为居所;同样,我将以专注之心居于她的身体之中。

13.75.55

इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः ।
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ १३.७५.५५ ॥

如此思量了法、一切吠陀及其支分,并见到师尊与自身的广大苦行之后——

13.75.56

इति निश्चित्य मनसा रक्षां प्रति स भार्गवः ।
अन्वतिष्ठत्परं यत्नं यथा तच्छृणु पार्थिव ॥ १३.७५.५६ ॥

他心中如此决定要守护她,那位婆利古后裔便付出了最大的努力。大王,听我说他是如何做的。

13.75.57

गुरुपत्नीं समासीनो विपुलः स महातपाः ।
उपासीनामनिन्द्याङ्गी कथार्थैः समलोभयत् ॥ १३.७५.५७ ॥

大苦行者毗普拉坐在师母身边,用故事和富有意义的言语,使这位身体无可挑剔、就坐身旁的女子感到欢悦。

13.75.58

नेत्राभ्यां नेत्रयोरस्या रश्मिं संयोज्य रश्मिभिः ।
विवेश विपुलः कायमाकाशं पवनो यथा ॥ १३.७५.५८ ॥

他以自己的眼睛与她双眼的光线相连,毗普拉便进入她的身体,如风进入虚空。

13.75.59

लक्षणं लक्षणेनैव वदनं वदनेन च ।
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥ १३.७५.५९ ॥

肢体与同一肢体相连,面对面,那位仙人如影子般藏于其中,静止不动地站立着。

13.75.60

ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् ।
उवास रक्षणे युक्तो न च सा तमबुध्यत ॥ १३.७५.६० ॥

随后,毗普拉支撑着师母的身体,专心守护,留在那里;她却没有察觉他。

13.75.61

यं कालं नागतो राजन्गुरुस्तस्य महात्मनः ।
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ १३.७५.६१ ॥

大王啊,在那位大德之人的师尊完成祭祀、尚未回到自家的那段时间里,他一直守护着它。