Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.78

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.78.1

तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् ।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप ॥ १३.७८.१ ॥

大光明的提婆夏尔玛见到前来的弟子,便说了这些话。人主啊,请听。

13.78.2

किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने ।
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च ॥ १३.७८.२ ॥

弟子啊,你在那大森林里见到了什么样的一对?那些明智之人了解你、你的自我,以及你的意愿。

13.78.3

ब्रह्मर्षे मिथुनं किन्तत्के च षट्पुरुषा विभो ।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि ॥ १३.७८.३ ॥

婆罗门仙人啊,尊者,那一对是什么?你问我的那六个真正了解我的人又是谁?

13.78.4

यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत् ।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥ १३.७८.४ ॥

婆罗门,你应当知道那一对就是昼与夜。它如轮子般旋转,它知道你的恶行。

13.78.5

ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् ।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ १३.७८.५ ॥

婆罗门,你应当知道那些欢快地玩骰子的人就是季节。他们知道你的恶行。

13.78.6

न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् ।
नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ १३.७८.६ ॥

不应以为“没人认识我”就放心。二生者啊,心怀罪恶的人在暗中做恶事。

13.78.7

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा ।
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ १३.७८.७ ॥

若人在暗处常作恶事,四季也看见他,昼夜也看见他。

13.78.8

तथैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम् ॥ १३.७८.८ ॥

同样,那些不如实讲述我所作之事的人,也会如同作恶之人。

13.78.9

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् ।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रउतवान्भवान् ॥ १३.७८.९ ॥

看见你喜笑颜开,他们提醒你——你没有禀告老师的所作之事——并如你所闻那样说道。

13.78.10

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः ।
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः ॥ १३.७८.१० ॥

昼夜与四季常常知晓人身上的恶行或善行,也知晓作恶者之所为。

13.78.11

तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् ।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ १३.७८.११ ॥

因此,婆罗门啊,他们知道你没有说出我因淫乱与恐惧所作之事,所以这样对你说。

13.78.12

तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ १३.७८.१२ ॥

正因如此,你没有说出你所作之事、我所作之事,那些世界也会如同作恶之人。

13.78.13

तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज ।
न च त्वं कृतवान्किंचिदागः प्रीतोस्मि तेन ते ॥ १३.७८.१३ ॥

同样,无法守护行为败坏的女子,婆罗门啊。你也没有犯任何过错,因此我对你很满意。

13.78.14

मनोदोषविहीनानां न दोषः स्यात्तथा तव ।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा ॥ १३.७८.१४ ॥

对于心中没有过失的人,便没有过错;你也是如此。妻子被拥抱是一种方式,女儿出于爱而被拥抱则是另一种方式。

13.78.15

यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः ।
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते ॥ १३.७८.१५ ॥

苦行者与好色之人看女子的形貌各不相同。世人多半是因心未受训练而被欺骗。

13.78.16

लालेत्युद्विजते लोको वक्त्रासव इति स्पहा ।
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम् ॥ १३.७८.१६ ॥

称她为「亲爱的」会使世人惊惶;谈论「口中的甘露」会激起渴望。对于心不适于羁绊的人而言,这就是咒语、自我与神。

13.78.17

न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम् ।
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः ॥ १३.७८.१७ ॥

被欲望、情爱与贪婪蒙蔽而行事的人,得不到那大果报。你没有污垢,清净无染;你并未因所爱之物的迷狂而被玷污。

13.78.18

यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम ।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ १३.७८.१८ ॥

婆罗门中最殊胜者啊,若我见你行为败坏,我必会因愤怒而诅咒你。此事我并无犹豫。

13.78.19

सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः ।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे ॥ १३.७८.१९ ॥

女子依恋男子,男子的那份所求也十分丰厚;否则,我的诅咒本会落在守护你的你身上,这是我的想法。

13.78.20

रक्षिता च त्वया पुत्र मम चापि निवेदिता ।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि ॥ १३.७८.२० ॥

孩子,你既守护了我,也告知了我。亲爱的孩子,我对你很满意。你将安然升入天界。

13.78.21

इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः ।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ १३.७८.२१ ॥

说完这话,大仙人提婆沙尔曼十分欢喜,与妻子和弟子一同升入天界,心中喜悦。

13.78.22

इदमाख्यातवांश्चापि ममाख्यानं महामुनिः ।
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥ १३.७८.२२ ॥

这段故事也曾由大仙人摩尔甘德耶告诉过我,大王,那是在恒河岸边,在另一次谈话之中。

13.78.23

तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च ।
उभयं दृश्यते तासु सततं साध्वसाधु च ॥ १३.७८.२३ ॥

因此我告诉你,普利塔之子:女子应当始终受到守护,因为她们身上始终既可见善,也可见恶。

13.78.24

स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः ।
धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ १३.७८.२४ ॥

贤德而极有福分、被尊为世间之母的女子,大王,托持着这片连同森林与园林的大地。

13.78.25

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः ।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ १३.७८.२५ ॥

也有不贞洁、行为恶劣、毁灭家族、心怀罪念的女子;大王啊,她们可以通过与身体一同生来的恶相来辨认。

13.78.26

एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः ।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ १३.७८.२६ ॥

如此,这些女子确实可以由大德之人加以保护;否则,王中之虎啊,女子是无法守护的。

13.78.27

एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः ॥ १३.७८.२७ ॥

这些女子,人中之虎啊,性情尖锐,勇力锐猛;在交合之中,她们没有一个称得上是“相会”之所爱的人。

13.78.28

एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ ।
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन ॥ १३.७८.२८ ॥

这些女子狡诈、令人烦恼且忘恩负义,婆罗多中的雄牛啊;她们也不会只钟情于一个男人,般度之子啊。

13.78.29

नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर ।
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह।
अनृताविह पर्वादिदोषवर्जं नराधिप ॥ १३.७८.२९ ॥

男子不应对她们表示爱意,也不应嫉妒;人主啊,应当怀着哀愁、依循法而享用,并在不当的时期避开如节日之类的过失,人中之主啊。

13.78.30

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन ।
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते ॥ १३.७८.३० ॥

否则,行事相反的人将会毁灭,考鲁婆之喜啊;王中之虎啊,自制的人到处都与万物相连。

13.78.31

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः ।
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ १३.७८.३१ ॥

国王啊,唯有那一位曾为女性提供了伟大的庇护;在这三界之中,没有他人能够保护女性。