摩诃婆罗多 · 章 13.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.79.1
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ १३.७९.१ ॥
祖父啊,请告诉我,一切法、生育与家庭,以及对祖先、诸神和客人的义务,其根本是什么。
13.79.2
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ १३.७९.२ ॥
在一切法中,此法被认为最难辨明。地上之主啊,少女应当许配给何种男子?
13.79.3
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च ।
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत्।
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर ॥ १३.७९.३ ॥
在充分了解其品行、行为、学识、出身与职业之后,应以水为礼,将少女许配给有德之人。尊敬的坚战啊,这是婆罗门与善人永恒的法。
13.79.4
आवाह्यमावहेदेवं यो दद्यादनुकूलतः ।
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ १३.७९.४ ॥
如此邀请应当被邀请之人,并在彼此同意之下将少女许配,这是贤者与刹帝利永恒的法。
13.79.5
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः ।
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः ॥ १३.७९.५ ॥
舍弃自己的意愿,顺从少女的心愿,应当将她许配给她所愿意的人。坚战啊,通晓吠陀的人称此为乾闼婆之法。
13.79.6
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान् ।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ १३.७९.६ ॥
以财物多方购买,并利诱亲族,国王啊,智者称此为阿修罗之法。
13.79.7
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् ।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते ॥ १३.७९.७ ॥
杀死哭泣之人,砍下他们的头颅,从家中强行劫走哭泣的女子,孩子,这被称为罗刹婚。
13.79.8
सुसां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः ॥ १३.७९.८ ॥
在夜里秘密接近熟睡、醉酒或疏忽之女子的人,罪孽最重;在诸婚姻中,这被宣称为最低劣的毕舍遮婚。
13.79.9
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन ॥ १३.७९.९ ॥
五种之中,俄 游提希罗啊,三种合乎法,两种违法。毕舍遮与阿修罗之婚绝不可行。
13.79.10
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ १३.७९.१० ॥
梵婚、刹帝利婚与乾闼婆婚,人中雄牛啊,皆合乎法;可以分别行之,或混合行之,此无疑问。
13.79.11
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि ॥ १३.७९.११ ॥
婆罗门可有三妻,刹帝利可有二妻;吠舍应在本种姓之内娶妻,因为只有其中所生的子嗣才有益。
13.79.12
द्विजस्य ब्राह्म्णी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु ।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ १३.७९.१२ ॥
对再生者而言,最好的妻子是婆罗门女;对刹帝利而言是刹帝利女。有人说,为了享乐也可娶首陀罗女,但另有人不认同。
13.79.13
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते ॥ १३.७९.१३ ॥
善人不赞许与首陀罗女子所生的子嗣。若婆罗门与首陀罗女子生子,则规定他须行赎罪之礼。
13.79.14
नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः ।
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया ॥ १३.७९.१४ ॥
求子之人不娶年幼的女子,因为生命无常;行祭礼者则出于洁净的考虑,最终才娶她。
13.79.15
अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम् ।
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि ॥ १३.७९.१५ ॥
可娶出自他族、不曾与他人私通等过失的女子;至于那些本不应贪求的女子,有人在危难之时也会想要她。
13.79.16
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ १३.७९.१६ ॥
三十岁的男子应娶十岁的裸女(尚未成熟的少女)为妻;或二十一岁的男子应娶七岁的女孩。
13.79.17
यस्यास्तु न भवेद्भाता पिता वा भरतर्षभ ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥ १३.७९.१७ ॥
婆罗多族的雄牛啊!凡无兄无父者,永不可娶为妻,因为她属于女儿继承(putrikā)之法。
13.79.18
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥ १३.७९.१८ ॥
已达月经之年、且贞洁的少女应等待三年;到第四年时,她自己应当去寻求丈夫。
13.79.19
प्रजा न हीयते तस्या रतिश्च भरतर्षभ ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ १३.७९.१९ ॥
婆罗多族的雄牛啊,这样女子的子嗣不会丧失,她的欢乐也不会失去。若行事相反,则会受到生主的责备。
13.79.20
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत् ॥ १३.७९.२० ॥
应娶一位既非母系sapiṇḍa、又非父系同一gotra的女子;这便是摩奴所宣说的法。
13.79.21
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ १३.७९.२१ ॥
若聘礼已由他人给了,另一人说“我将给”;又有人以武力发言,有人则炫耀财富。
13.79.22
पाणिग्रहीत्ता चान्यः स्यात्कस्य भार्या पितामह ।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ १३.७९.२२ ॥
若牵手者是另一人,祖父啊,她是谁的妻子?我们想要知道,愿您成为我们的眼睛。
13.79.23
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते ।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥ १३.७९.२३ ॥
凡人类为建立秩序而行之事,皆以誓言束缚,如同咒语;而妄语则是罪。
13.79.24
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ १३.७९.२४ ॥
妻子、丈夫、祭司、师长、弟子与教授者——若说谎,便应受罚;而他人则说不然。
13.79.25
नह्यकामेन संवादं मनुरेवं प्रशंसति ।
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम् ॥ १३.७९.२५ ॥
摩奴不如此赞许与不愿者的交谈。虚假带来恶名,且不合法,乃是遮蔽法。
13.79.26
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते ।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ १३.७९.२६ ॥
在一件事中并无绝对的过失;那么由谁来确定它呢?婆罗多啊,依法而给予的,与以财物买来的。
13.79.27
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत् ।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥ १३.७९.२७ ॥
经亲属允许后,应使用咒语与火祭;如此咒语才会灵验,但对于未被给予者,绝不如此。
13.79.28
यस्त्वत्र मन्इत्रसमयो भार्यापत्योर्मिथः कृतः ।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ १३.७९.२८ ॥
然而此处,夫妻之间相互所立、合乎摩奴的约定被称为更为重要者,亲族所立者亦然。
13.79.29
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥ १३.७९.२९ ॥
丈夫依法之命,认所由天神所予的妻子为自己的妻子;他弃绝神与人之言中的虚妄。
13.79.30
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥ १३.७९.३० ॥
若少女的聘礼已经收下,而一位年长、具备法、欲与财富的求婚者前来,此处应当说谎还是不应当?
13.79.31
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत् ।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ १३.७९.३१ ॥
若两边皆有过失,应行其善。我们认为,在一切法之中,这是最值得深思的法。
13.79.32
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ १३.७९.३२ ॥
对于我们这些渴望求知真理的人,愿您做我们的眼睛。请将这一切全部讲来,因为我听了仍不满足。
13.79.33
नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नानृतम् ।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्।
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ॥ १३.७९.३३ ॥
既然知道聘礼是一种确定的约束,那便没有虚假。只图聘礼的善人,从不会把少女嫁出。但亲属会为具备其他美德的新郎索要聘礼。
13.79.34
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ।
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः।
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः ॥ १३.७९.३४ ॥
若有人心甘情愿地说「请盛装带她走」,并如此将她一并交付,那便不是聘礼,也不是买卖。即使接受了,它仍是一份赠礼;这便是永恒之法。
13.79.35
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत ॥ १३.७९.३५ ॥
「我将把少女许配给你」——此前并未说过这样的话。说的人、不说的人,以及一定会说的人,都处于同样的境地。
13.79.36
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम् ।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥ १३.७९.३६ ॥
因此,在执手之前,他们彼此相求。我们听说,往昔摩噜多神曾为少女赐予了新郎。
13.79.37
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ १३.७९.३७ ॥
不可将少女嫁给不受欢迎之人,此乃仙人所说。其根源在于欲望,我认为子嗣由欲望而生。
13.79.38
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः ।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ १३.७९.३८ ॥
考虑到诸多弊端,应知共同生活源于牵手。请听:那使婚姻圆满的聘礼,从来不曾存在。
13.79.39
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम् ।
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान् ॥ १३.७९.३९ ॥
为毗其怛罗耶,我娶来两位少女,征服了所有安伽与摩揭陀人,以及迦尸与憍萨罗。
13.79.40
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत् ।
कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता।
अब्रवीदितरां कन्यामावहेति स कौरवः ॥ १३.७९.४० ॥
其中一人已行牵手之礼,另一人的聘礼已收到。我父说,未被娶的少女应当就地送回。那位俱卢便说:再带另一位少女来。
13.79.41
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः ।
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत् ॥ १३.७९.४१ ॥
他怀疑父亲的话,于是又向他人一一询问。的确,他的求法之心比我父亲的求法之心更为强烈。
13.79.42
ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः ।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनःपुनः ॥ १३.७९.४२ ॥
于是,大王,我想要了解惯例,便说了这些话:我想一次又一次地如实了解这一惯例。
13.79.43
ततो मयैवमुक्ते तु वाक्ये धर्मभृतावरः ।
पिता मम महाराज बीह्लीको वाक्यमब्रवीत् ॥ १३.७९.४३ ॥
大王啊,我如此说罢,持法者中最低下的我的父亲巴赫利迦说了这些话。
13.79.44
यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा ।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः ॥ १३.७९.४४ ॥
若婚约的效力依于聘礼而非执手,则应等待炒米供养之间隔;已受聘礼者便被视为如此,传统如是说。
13.79.45
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ १३.७९.४५ ॥
精通法者并不以单纯的言辞为证据;唯有以聘礼而非执手为定约者,才如此认为。
13.79.46
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः ।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः ॥ १३.७९.४६ ॥
关于布施的那句广为人知的话,对这些人并不能再提供令人信服的证明。把聘礼视为买卖的人,并非通晓法的人。
13.79.47
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ।
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन ॥ १३.७९.४७ ॥
这类女子不应嫁给这些人,也不应娶这样的女子为妻。妻子绝不可买,也绝不可以任何方式卖。
13.79.48
ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च ।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ १३.७९.४८ ॥
那些像买女奴一样买人、也像卖女奴一样卖人的人,贪婪而心怀恶念者,其归宿便是如此。
13.79.49
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ १३.७९.४९ ॥
关于此事,人们询问萨提亚瓦特;当女子的聘礼已经收到,付聘者也已满意。
13.79.50
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः ।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः ॥ १३.७९.५० ॥
关于法,我们有一个疑问:执手者可能是另一人吗?大智者啊,请为我们断决,因为你为智者所推重。
13.79.51
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ॥ १३.७९.५१ ॥
对于我们这些想要知道真理的人,愿您做我们的眼睛。对所有这样说话的人,萨提亚瓦特说了这番话。
13.79.52
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः ॥ १३.७९.५२ ॥
若她所愿,便应嫁给那里;此事无需再加考虑。有人在生前就如此行事;死后则毫无疑问。
13.79.53
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः ।
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा ॥ १३.७९.५३ ॥
女子可以嫁给小叔,或者再次修行苦行;唯独跟随他,她便归属于执手者之名下。
13.79.54
लिखन्त्येव तु केषांचिदपरेषां शनैरपि ।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥ १३.७९.५४ ॥
有人确实书写,也有人慢慢书写;在此如此议论的人,便知此定论。
13.79.55
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते ।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥ १३.७९.५५ ॥
在执手之前,若有间隔之处,确有一切吉祥的咒语;但妄语是罪过。
13.79.56
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ १३.७९.५६ ॥
执手咒语的完成在第七步;以水相赠之人,便成为执手之妻。
13.79.57
इति देयं वदन्त्यत्र त एतं निश्चयं विदुः ।
अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम्।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ १३.७९.५७ ॥
在此说应当给予的人,知道这一定论。最优秀的再生者应当在火前依法绕行之后,迎娶由兄长所赠、和顺而听从的少女为妻。