摩诃婆罗多 · 章 13.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.80.1
कन्यायां प्राप्तशुल्कायां पतिश्चेन्नास्ति कश्चन ।
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ १३.८०.१ ॥
若少女的聘礼已经收下,而又没有丈夫,那时该如何处置?祖父啊,请告诉我。
13.80.2
या पुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत् ।
अथवा सा हरेच्छुल्कं क्रीता शुल्कप्रदस्य सा ॥ १३.८०.२ ॥
若少女是为一位富有的儿子所守护,那么她便属于他。或者,她是为付聘礼者而买来的,她便属于他。
13.80.3
तस्यार्थेऽपत्यमीहेव येन न्यायेन शक्नुयात् ।
न तस्मान्मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन ॥ १३.८०.३ ॥
为了他,人应当以一切合法的方式去求取子嗣;因此,任何人都不应借助咒语去做任何事。
13.80.4
स्वयंवृतेन साज्ञप्ता पित्रा वै प्रत्यपद्यत ।
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥ १३.८०.४ ॥
她遵从父亲的命令,接受了自己所选的人。知法者赞许此事,其他人则不然。
13.80.5
एतत्तु नापरे चक्रुरपरे जातु साधवः ।
साधूनां पुनराचारो गरीयान्धर्मलक्षणः ॥ १३.८०.५ ॥
此事其他人不曾做过,其他善人也从未做过。然而,作为法之标志的善人之行,分量更重。
13.80.6
अस्मिन्नेव प्रकारे तुसुक्रतुर्वाक्यमब्रवीत् ।
नप्ता विदेहराजस्य जनकस्य महात्मनः ॥ १३.८०.६ ॥
以同样的方式,苏克拉图说道,他是毗提诃大德之王遮那迦的孙子。
13.80.7
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ।
अनुप्रश्नः संशयो वा सतामेवमुपालभेत् ॥ १३.८०.७ ॥
在不善之人所行之道上,如何能加以称述?善人之间或会生出追问与疑惑,他们也会如此加以责备。
13.80.8
असदेव हि धर्मस्य प्रदानं धर्म आसुरः ।
नानुशुश्रुम जात्वेनामिमां पूर्वेषु कर्मसु ॥ १३.८०.८ ॥
实则不善正是法之所施,那是阿修罗之法。我们从未在先前的诸般仪轨中听闻此事。
13.80.9
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव तु ।
रतिः साधारणो धर्म इति चाह स पार्थिवः ॥ १३.८०.९ ॥
夫妻之间的关系,在男女之间确实是平等的。欢乐是共同之法,那位君王曾如此说。
13.80.10
अथ केन प्रमाणेन पुंसामादीयते धनम् ।
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ १३.८०.१० ॥
那么依据何种权威,男人的财富被夺取?那位父亲的女儿,正如儿子一样,理应成为继承者。
13.80.11
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ १३.८०.११ ॥
如同自我,儿子亦然;女儿与儿子相等。她既以自我而存在,别人怎能夺取财富?
13.80.12
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः ।
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ॥ १३.८०.१२ ॥
母亲的嫁妆无论是什么,都确实是未嫁少女的份额。那无子之父的遗产,应当唯由外孙继承。
13.80.13
ददाति हि स पिण्डान्वै पितुर्मातामहस्य च ।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ॥ १३.८०.१३ ॥
他确实向父亲和外祖父供奉祭饼;依法,儿子与外孙之间没有区别。
13.80.14
अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते ।
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते ॥ १३.८०.१४ ॥
否则,儿子会与同族女子求子嗣;然而,女儿甚至胜过他人所生之子。
13.80.15
दौहित्रकेण धर्मेण तत्र पश्यामि कारणम् ।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते ॥ १३.८०.१५ ॥
依女儿之子的规则,我看到其原因:被卖掉的儿子确实属于其父。
13.80.16
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः ।
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ॥ १३.८०.१६ ॥
嫉妒、极不正义、夺取他人财物、狡诈,生于阿修罗之族,行为乖僻,背离法度。
13.80.17
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ १३.८०.१७ ॥
关于此事,古代知者、法的通晓者述说阎摩所唱的偈颂,它们记载于法论与法之桥梁之中。
13.80.18
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति ।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ १३.८०.१८ ॥
那人若卖掉自己的儿子以求财富,或为谋生而收受聘礼将女儿嫁出。
13.80.19
सप्तावरे महाघोरे निरये कालसाह्वये ।
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते ॥ १३.८०.१९ ॥
在七个最下层、极其可怕、名为迦罗娑诃婆的地狱中,那愚昧之人在那里承受汗水、尿液和粪便。
13.80.20
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।
अल्पो वा बहु वा राजन्विक्रयस्तावदेव सः ॥ १३.८०.२० ॥
有人说在仙人式婚礼中,一对牛是聘礼,但那实在是虚假的。大王啊,无论多少,那都是买卖,仅此而已。
13.80.21
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः ।
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ॥ १३.८०.२१ ॥
虽然有些人这样做,这并非永恒的法;在其他人中也可以看到由贪欲而生的习俗。
13.80.22
वश्यां कुमारीं बलतो ये तां समुपभुञ्जते ।
एते पापस्य कर्तारस्तमस्यन्धे च शेरते ॥ १३.८०.२२ ॥
那些强迫已顺从的少女的人,是作恶之人;他们躺卧在盲目的黑暗之中。
13.80.23
अन्योप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।
अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन ॥ १३.८०.२३ ॥
别人也不可以卖人,更何况是百姓呢?凡是以非法为根源所得的财富,都无法成就任何法。