摩诃婆罗多 · 章 13.81
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.81.1
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ॥ १३.८१.१ ॥
古老的智者传述普拉切塔萨(摩奴)的教诲:若亲属从少女处一无所取,那便不是买卖。
13.81.2
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत् ।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥ १३.८१.२ ॥
这是对少女的敬重与慈悲之誓;所有这些都应完全归还给少女。
13.81.3
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥ १३.८१.३ ॥
欲求大福祉者,父亲、兄弟、公公与小叔,都应尊敬并慈爱地照顾女子。
13.81.4
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते ॥ १३.८१.४ ॥
若妻子不让丈夫满意,不使他欢喜,则丈夫因不悦而子嗣不得兴旺。
13.81.5
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः ॥ १३.८१.५ ॥
人主啊,女子应当永远受到尊敬与慈爱。女子受敬重之处,诸神便会欢喜。
13.81.6
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः ॥ १३.८१.६ ॥
若这些女子不受敬重,则一切祭祀皆无果;当女眷哀泣之时,那个家族便不复存在。
13.81.7
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥ १३.८१.७ ॥
君王啊,被女眷诅咒的家宅,仿佛被巫术斩断;失去吉祥的它们既不光彩,也不兴旺。
13.81.8
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृद सत्यजिष्णवः ॥ १३.८१.८ ॥
欲升天的摩奴将妇女托付给男子。她们柔弱,只着少许遮羞布;她们是朋友,以真实取胜。
13.81.9
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः ।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥ १३.८१.९ ॥
妇女善妒、好名、暴烈,虽为朋友却无智慧;然而她们值得尊重。人们啊,要尊重她们。
13.81.10
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः ।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः ॥ १३.८१.१० ॥
的确,法依赖于女子,爱欲之乐也唯独属于她;愿侍奉与礼敬也都依于她——这便是为你们而设。
13.81.11
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम् ॥ १३.८१.११ ॥
生育子嗣,保护已生的子女,为使世间生活喜乐——看吧,这一切都依赖于女子。
13.81.12
सम्मान्यमानाश्चैता हि सर्वकार्याष्यवाप्स्यथ ।
विदेहराजदुहिता चात्र श्लोकमगायत ॥ १३.८१.१२ ॥
尊重这些女子,你们将在一切事务中成功。在此,毗提诃王之女曾吟唱一首颂。
13.81.13
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नोप्रवासकम् ।
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥ १३.८१.१३ ॥
女子没有祭祀,没有施罗圣礼,也没有独居的誓戒;侍奉自己的丈夫便是她的达摩,凭此她们赢得天界。
13.81.14
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ १३.८१.१४ ॥
童年时父亲保护她,青年时丈夫保护她,老年时儿子保护她;女子不配享有独立。
13.81.15
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।
लालिताऽनुगृहीता च श्रीः स्त्री भवति भारतः ॥ १३.८१.१५ ॥
这些女子确是吉祥天(Śrī)的化身;想要兴旺的人应当尊敬她们。受到珍爱与恩宠的女子便成为吉祥本身,婆罗多子孙啊。