Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.83.1

अर्थाश्रयाद्वा कामाद्वा वर्णानां चाप्यनिश्चयात् ।
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ॥ १३.८३.१ ॥

或因依赖财富,或因欲望,或因种姓之未定,或因无知,种姓混杂便由此而生。

13.83.2

तेषामेतेन विधिना जातानां वर्णसङ्करे ।
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥ १३.८३.२ ॥

那些因此种混杂而生者,其法为何,其业为何?请告诉我,祖父啊。

13.83.3

चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् ।
असृजत्स हि यज्ञार्थे पूर्वमेव प्रजापतिः ॥ १३.८३.३ ॥

为了祭祀,生主最初便创造了四种姓的职责与四种姓本身。

13.83.4

भार्याश्चतस्नो विप्रस्य द्वयोरात्मा प्रजायते ।
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥ १३.८३.४ ॥

婆罗门有四位妻子;其中两位生出与自身同类的儿子,依次,其余两位所生则低于其身份,随母亲的种姓而定。

13.83.5

परं शवाद्ब्राह्मणस्यैव पुत्रः ।
शूद्रापुत्रं पारशवं तमाहुः।
शुश्रूषकः स्वस्य कुलस्य स स्या-
त्स्वचारित्रं नित्यमथो न जह्यात् ॥ १३.८३.५ ॥

婆罗门与首陀罗女所生之子,称为帕拉夏婆。应当侍奉自家的宗族,且永不舍弃自己的品行。

13.83.6

सर्वानुपायानथ सम्प्रधार्य ।
समुद्धरेत्स्वस्य कुलस्य तन्त्रम्।
ज्येष्ठो यवीयानपि यो द्विजस्य ।
शुश्रूषया दानपरायणः स्यात् ॥ १३.८३.६ ॥

在仔细考虑了所有办法之后,他应当振兴自家宗族的世系。无论长幼,凡专心侍奉再生族并行布施者,便应当这样做。

13.83.7

तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते ।
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः ॥ १३.८३.७ ॥

与刹帝利女子结合,有三位妻子;其中两位生下他自己的子嗣。第三位生下下等种姓的首陀罗和乌格罗,《律典》如此说。

13.83.8

द्वे चापि भार्ये वैश्यस्य द्वयोरात्माऽस्व जायते ।
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥ १३.८३.८ ॥

吠舍有两位妻子;其中两位生下他自己的子嗣。首陀罗妻子所生者,只是首陀罗。

13.83.9

अतोऽविशिष्टस्त्वधमो गुरुदारप्रधर्षकः ।
ब्राह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ १३.८३.९ ॥

因此,玷污师母的那个无等级、最下贱之人,会生出在四种姓中被谴责的婆罗门种姓之子。

13.83.10

अयाज्यं क्षत्रियो व्रात्यंक सूतं स्तोत्रक्रियापरम् ।
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ १३.८३.१० ॥

刹帝利生出不可祭祀的破落者(vrātya)及专事赞颂的御者(sūta);吠舍生出吠提呵迦与被摈弃的毛德伽利耶。

13.83.11

शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् ।
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः।
एते मतिमतांश्रेष्ठ वर्णसङ्करजाः प्रभो ॥ १३.८३.११ ॥

首陀罗在婆罗门女子中生出极其凶暴的旃陀罗、行刑者及居住在城外之人;他们是玷污家族者。智者中最优秀的,主啊,他们是种姓混杂所生。

13.83.12

बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ १३.८३.१२ ॥

吠舍生出以言语为生的歌者(bandin)即摩嘎陀(māgadha);首陀罗与刹帝利女子越轨结合,生出以杀鱼为业的尼沙陀(niṣāda)。

13.83.13

शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः ।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥ १३.८३.१३ ॥

首陀罗男子与吠舍女子所生的阿约伽婆,以乡村职业为生;婆罗门不接受他的布施。木匠(刹)靠自己的手艺谋生。

13.83.14

एतेऽपि सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु ।
मातृजात्या प्रसूयन्ते ह्यवरा हीनयोनिषु ॥ १३.८३.१४ ॥

这些人也在自己的胎中生出相似的种姓;依母亲的种姓,低劣者从低劣的胎中生出。

13.83.15

यथा चतुर्षु वर्णेषु द्वयोरात्माऽस्य जायते ।
आनन्तर्यात्प्रजायन्ते यथा बाह्या प्रधानतः ॥ १३.८३.१५ ॥

正如在四种姓中,此人的本性由两者而生,子嗣也依次产生;其中主要产生外来的种姓。

13.83.16

ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १३.८३.१६ ॥

他们也在自己的胎中生出相同的种姓,并在彼此的妻子中生出可鄙的子嗣。

13.83.17

यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते ।
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रजायते ॥ १३.८३.१७ ॥

正如首陀罗即使在婆罗门女子中也生出外来的子嗣,同样地,外来者从更外来者而生于四种姓之中。

13.83.18

प्रतिलोमं तु वर्धन्ते बाह्योद्बाह्यतरात्पुनः ।
हीनाद्धीनाः प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥ १३.८३.१८ ॥

但在逆序(逆婚)中,他们又从外来者和更外来者中增生;从低劣者生出低劣者;种姓共计十五种。

13.83.19

अगम्यागमनाच्चैव जायते वर्णसङ्करः ।
बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च।
प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥ १३.८३.१९ ॥

与不可亲近者交合,便生出种姓混杂。外人的后裔生于侍女(sairandhrī)之中,也生于摩揭陀人之中;精通装饰与侍奉,不是奴隶却过着奴隶的生活。

13.83.20

क्षत्रा ह्यायोगवं सूते वागुराबन्धजीवनम् ।
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥ १३.८३.२० ॥

刹帝利女子生出以设置罗网为生的阿约伽伐(Āyogava);吠提诃迦男子生出迈雷耶迦(Maireyaka),其后生出摩度迦(Mādhuka)。

13.83.21

निषादो मद्गुरं सूते दासं नावोपजीविनम् ।
मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम् ॥ १३.८३.२१ ॥

尼沙陀(Niṣāda)生出以船为生的仆役摩德古罗(Madgura);旃陀罗(Caṇḍāla)生出摩利多波(Mṛtapa),人称狗烹者(Śvapāka)。

13.83.22

चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥ १३.८३.२२ ॥

摩揭陀女子生出恰图罗(Caturā);残忍且以欺诈为生的男子生出使肉味美者,以及卖蜜者,人称苏冈陀(Saugandha)。

13.83.23

वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम् ।
निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥ १३.८३.२३ ॥

吠提诃迦男子与最有罪的女子生出以欺诈为生的残忍者;尼沙陀生出乘驴车出行的摩德拉那跋(Madranābha)。

13.83.24

चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् ।
भृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥ १३.८३.२४ ॥

旃陀罗生出普尔卡萨(Pulkasa),他食驴、马、象之肉,以租来的布遮身,用破碗进食。

13.83.25

आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः ।
क्षुद्रो वैदेहकादन्धो बहिर्ग्रामप्रतिश्रयः ॥ १३.८३.२५ ॥

在 Āyogavī 女子之中生出三种低等种姓之人:由 Vaidehaka 所生的卑贱者(Kṣudra),以及居于村外的安陀罗(Andhra)。

13.83.26

कारावरो निषाद्यां तु चर्मकारः प्रसूयते ।
चाण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ १३.८३.२६ ॥

尼沙陀女子生出 Kārāvara 与皮匠;旃陀罗所生的是苍白的娑婆迦(Sauvāka),以皮革买卖为生。

13.83.27

आहिण्कों निषादेन वैदेह्यां सम्प्रसूयते ।
चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान् ॥ १३.८३.२७ ॥

尼沙陀男子与 Vaidehī 女子所生者为 Āhiṇḍika;旃陀罗男子所生者为娑婆迦(Sauvāka),其生活如同旃陀罗。

13.83.28

निषादी चापि चण्डालात्पुत्रमन्तेवसायिनम् ।
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥ १३.८३.२८ ॥

尼沙陀女子与旃陀罗所生之子,居于边界,游荡于火葬场,连外人也将他驱逐。

13.83.29

इत्येते सङ्करे जाताः पितृमातृव्यतिक्रमात् ।
प्रच्छन्नान्वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १३.८३.२९ ॥

如此,这些人因父母越界而生于杂婚之中;无论隐匿还是显露,都应当由其自身行为来辨识。

13.83.30

चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते ।
वर्णानां धर्महीनेषु सङ्ख्या नास्तीह कस्यचित् ॥ १३.८३.३० ॥

法(dharma)唯属四种姓,他者则无;在无法之种姓中,于此无人被计算。

13.83.31

यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः ।
बाह्या बाह्यैश्च जायन्ते यथावृत्ति यथाश्रयम् ॥ १३.८३.३१ ॥

若因偶然而被逐出祭祀与善行者,便依其生计与所依,生于外人之中。

13.83.32

चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् ।
कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ १३.८३.३२ ॥

他们应常住于十字路口、火葬场、山岳及其他树木之处,佩戴铁黑色的饰物;这些人以自己的职业谋生,因此为人所知。

13.83.33

युञ्जन्तो वाऽप्यलङ्कारांस्तथोपकरणानि च ।
गोब्राह्मणाय साहय्यं कुर्वाणा वै न संशयः ॥ १३.८३.३३ ॥

即便使用饰物与器具,并助益牛与婆罗门,此中无疑。

13.83.34

आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा ।
स्वशरीरैरपि त्राणं बाह्यानां सिद्धिकारणम्।
भवन्ति मनुजव्याघ्र तत्र मे नास्ति संशयः ॥ १३.८३.३४ ॥

不残忍、慈悲、诚实之言、忍耐,以及即使以己身也护卫外人,这些才是成就的因由。人中之虎啊,对此我无疑惑。

13.83.35

यथोपदेशं परिकीर्तितासु ।
नरः प्रजायेत विचार्य बुद्धिमान्।
निहीनयोनिर्हि सुतोऽवसादये-
त्तितीर्षमाणं हि यथोपलो जले ॥ १३.८३.३५ ॥

依照所示之教导,智者应思量所说之理而后出生;卑贱出身之子,会把欲渡者拖下沉没,如石沉水中。

13.83.36

अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥ १३.८३.३६ ॥

世间女子能使无知者,甚至有学者,若随顺欲与怒之支配,而导入歧途。

13.83.37

स्वभावश्चैव नारीणां नराणामिह दूषणम् ।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥ १३.८३.३७ ॥

此处女人与男人的本性本身便是过失;然而智者不会过度沉溺于女子。

13.83.38

वर्णापेतमविज्ञाय नरं कलुषयोनिजम् ।
आर्यरूपमिवानार्यं कथं विद्यामहे वयम् ॥ १३.८३.३८ ॥

对于堕离种姓、生于污浊胎中、外貌高贵却品性卑贱之人,我们如何能够辨识?

13.83.39

योनिसङ्कलुषे जातं नानाभावसमन्वितम् ।
कर्मभिः सज्जनाचीर्णैर्विज्ञेयाः शुद्धयोनिकाः ॥ १३.८३.३९ ॥

生于污浊胎中、具有种种品性的人,应以善人所行之业来辨识;如此也可辨识血统清净者。

13.83.40

अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १३.८३.४० ॥

卑贱、恶行、残忍与懈怠的心性,在世间显露出生于污浊胎中之人。

13.83.41

पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् ।
न कथञ्च सङ्कीर्णः प्रवृतिं स्वां नियच्छति ॥ १३.८३.४१ ॥

他或承袭父亲的品性,或承袭母亲的,或二者兼有;虽然混杂,他仍以某种方式约束自己的行为。

13.83.42

यथैव सदृसो रूपे मातावित्रोर्हि जायते ।
व्याघ्रबिन्दोस्तथा योनिं पुरुषः स्वां नियच्छति ॥ १३.८३.४२ ॥

正如子女生来形貌类似父母,身上带有虎斑之人,亦依其自身血统而行。

13.83.43

कुले स्रोतसि संच्छन्ने यस्य स्याद्योनिसङ्करः ।
संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु ॥ १३.८३.४३ ॥

若某人的家族中有如隐流般的血统混杂,此人或多或少都会顺从那种品性。

13.83.44

आर्यरूपसमाचारं चरन्तं कृतके पथि ।
सवर्णमन्यवर्णं वा स्वशीलं सास्ति निश्चये ॥ १३.८३.४४ ॥

即便行止与外貌高贵,若走上虚假之路,无论同种姓或异种姓,其本性终会显露。

13.83.45

नानावृत्तेषु भूतेषु नानाक्रमरतेषु च ।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ १३.८३.४५ ॥

在行为各异、各循其道的众生之中,在世间与其出身和行为相称、融洽无间者,不会被疏远。

13.83.46

शरीरमिह सत्वेन न तस्य परिकृष्यते ।
ज्येष्ठमध्यावरं सत्वं तुल्यसत्वं प्रमोदते ॥ १३.८३.४६ ॥

此处不以身体衡量他,而以内在的本性衡量;上、中、下之性,与同等之性者相悦。

13.83.47

ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् ।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत् ॥ १३.८३.४७ ॥

即便是年长而无德者,也不应尊敬;而即便是知法、行善的首陀罗,也应尊敬。

13.83.48

आत्मानमाख्याति हि कर्मभिर्नरः ।
सुशीलचारित्रकुलैः शुभाशुभैः।
प्रनष्टमप्यात्मकुलं तथा नरः ।
पुनः प्रकाशं कुरुते स्वकर्मतः ॥ १३.८३.४८ ॥

人以其行为显露自己,无论善恶之品性、德行与家世。即便已湮没的家族,人也能以自己的行为使之重新光耀。

13.83.49

योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च ।
यत्रात्मानं न जनयेद्बुधस्तां परिवर्जयेत् ॥ १३.८३.४९ ॥

在所有这些胎藏之中,以及混杂与其他的胎藏之中,智者应当避开那种无法生育自身后代的胎藏。