Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.86.1

नहुषस्तु ततः श्रुत्वा च्यवनं तं तथाऽऽगतम् ।
त्वरितः प्रययौ तत्रि सहामात्यपुरोहितः ॥ १३.८६.१ ॥

那罗陀之子那呼沙听说车瓦那如此到来,便与大臣和祭司一同急速前往那里。

13.86.2

शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः ।
आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ १३.८६.२ ॥

国王依法洁净之后,合掌恭敬,向大德车瓦那通报了自己。

13.86.3

अर्चयामास तं चापि तस्य राज्ञः पुरोहितः ।
सत्यव्रतं महात्मानं देवकल्पं विशाम्पते ॥ १३.८६.३ ॥

国王的祭司也礼敬了他——那位信守誓言、大德、如天神一般的人,啊,人民之主。

13.86.4

करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम ।
सर्वं कर्ताऽस्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥ १३.८६.४ ॥

啊,再生者中最杰出的人,我该为您做什么您喜欢的事?请告诉我。啊,尊者,即使极其困难,我也会全力去做。

13.86.5

श्रमेणि महता युक्ताः कैवर्ता मत्स्यजीविनः ।
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥ १३.८६.५ ॥

那些承受巨大劳苦、以捕鱼为生的渔夫——请把我的赎金给他们,连同鱼的售价一起。

13.86.6

सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित ।
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः ॥ १३.८६.६ ॥

啊,祭司,请把一千作为价钱给予尼沙陀人,为了赎回这位尊者,正如布利古之子所说。

13.86.7

आत्ममूल्यं च वक्तव्यं न तल्लोकः प्रशंसति ।
तस्मादहं प्रवक्ष्यामि न चात्मस्तुतिम्मवृतः ॥ १३.८६.७ ॥

自己不应自言其价,世人也不称赞。因此我将说出,但不自我夸耀。

13.86.8

सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप ।
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ १३.८६.८ ॥

大王,我不值一千;你认为如何?请给出相称的价格,凭你自己的判断决定。

13.86.9

सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम् ।
स्यादिदं भगवन्मूल्यं किं वाऽन्यन्मन्यते भवान् ॥ १३.८६.९ ॥

婆罗门啊,请把千的百倍给予尼沙陀人;尊者,这是否就是价格,还是您另有所想?

13.86.10

नाहं शतसहस्रेण निमेयः पार्थिवर्षभ ।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥ १३.८६.१० ॥

王中之牛啊,我不可以十万买到;请给出相称的价格,与大臣们一同考虑。

13.86.11

कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित ।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम् ॥ १३.८६.११ ॥

祭司啊,请把一千万给予尼沙陀人;若这仍不是我们的价值,就再多给一些。

13.86.12

राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते ।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ १३.८६.१२ ॥

大王,大光明者啊,我不值一千万,也不值更多;请给出相称的价格,与婆罗门们一同考虑。

13.86.13

अर्दं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम् ।
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ॥ १३.८६.१३ ॥

让一半王国或整个王国交给尼沙达人。我认为这就是相当的代价。哦,再生者,或者你另有想法吗?

13.86.14

अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव ।
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ १३.८६.१४ ॥

国王啊,半个王国或整个王国都不配作为我的代价。请与仙人们一同商议相当的代价。

13.86.15

महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः ।
स चिन्तयामास तदा सहामात्यपुरोहितः ॥ १३.८६.१५ ॥

那罗沙听到大仙的话,因悲伤而憔悴,便与大臣和祭司一同思考。

13.86.16

तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः ।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥ १३.८६.१६ ॥

然而那里有一位靠根和果实为生的林居者,他站在那罗沙附近,出生于牛,成为了一位仙人。

13.86.17

स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः ।
तोषयिष्याम्यहं क्षिप्तं यथा तुष्टो भविष्यति ॥ १३.८६.१७ ॥

那位再生者中的最优者对国王说道:“我将迅速使你满意,让你感到欣慰。”

13.86.18

नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा ।
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया ॥ १३.८६.१८ ॥

我不会说假话,即使是玩笑也不会;那又怎会有别的呢?我告诉你的,应当毫不犹豫地去做。

13.86.19

व्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः ।
परित्रायस्व मामस्मद्विषयं च कुलं च मे ॥ १३.८६.१९ ॥

尊者啊,请说出与大仙婆利古相称的价格。请救我、救我的国土与我的家族吧。

13.86.20

हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् ।
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्। ॥ १३.८६.२० ॥

愤怒的尊者尚能彻底毁灭三界,何况我这无苦行、只依仗臂力之人。

13.86.21

अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः ।
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ १३.८६.२१ ॥

我与大臣和祭司一同沉入深不可测的水中,大仙啊,请做我的筏子,并确定价格。

13.86.22

नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् ।
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ १३.८६.२२ ॥

聆听了那诃沙的话后,这位生于牛的威猛者,使所有大臣和国王欢喜,开口说道。

13.86.23

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ॥ १३.८६.२३ ॥

婆罗门与牛本属同一族类,却被分为两部分:咒语住于一处,祭品则住于另一处。

13.86.24

अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः ।
गावश्च पुरुषव्याग्र गौर्मूल्यं परिकल्प्यताम् ॥ १३.८६.२४ ॥

大王啊,再生者在诸种姓中最为尊贵,无价可估,牛亦如此。人中之虎啊,就以一头牛作为价格吧。

13.86.25

नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप ।
हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ १३.८६.२५ ॥

国王啊,那时那呼沙听了大仙人的话,与大臣和家庭祭司一同充满了极大的喜悦。

13.86.26

अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् ।
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥ १३.८६.२६ ॥

国王走近婆利古之子、誓愿坚定的车耀,仿佛以言语令其欢悦,说了这番话。

13.86.27

उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोसि भार्गव ।
एतन्मूल्यमहं मन्ये तव धर्मभृतांवर ॥ १३.८६.२७ ॥

起来,起来,婆罗门仙人啊!婆利古之子,你已为一头母牛所购。我认为这就是你的价格,持法者中最优秀的人啊!

13.86.28

उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोस्मि तेऽनघ ।
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥ १३.८६.२८ ॥

我起来了,诸王之主啊。无瑕者啊,我确实已被你所购。在此我看不到与牛相等的财富,不朽者啊!

13.86.29

कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव ।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ १३.८६.२९ ॥

赞颂、聆听、布施与观看母牛也被称赞,国王啊。英雄啊,这被说成吉祥,能消除一切罪恶。

13.86.30

गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ।
अन्नमेव सदा गावो देवानां परमं हविः ॥ १३.८६.३० ॥

母牛总是吉祥(拉克什米)之根;母牛之中不存在罪过。母牛总是食物,是诸神至上的供奉之物。

13.86.31

स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥ १३.८६.३१ ॥

娑訶與婆沙(svāhā、vaṣaṭ)常住于牛中。牛是祭祀的引导者,也正是祭祀的口。

13.86.32

अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च ।
अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ १३.८६.३२ ॥

牛滴落并承载不朽的神圣甘露。它们是甘露的居所,为一切世界所礼敬。

13.86.33

तेजसा वपुषा चैव गावो वह्निसमा भुवि ।
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ १३.८६.३३ ॥

牛以其光辉与形貌,在大地上如同火焰。牛确是极大的光明,能赐予众生安乐。

13.86.34

निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् ।
विराजयति तं देशं पापं चास्यापकर्षति ॥ १३.८६.३४ ॥

牛群若在某处安然栖息、无畏地呼吸,便能照亮那片土地,并驱除其中的罪孽。

13.86.35

गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः ।
गावः कामदुहोदेव्यो नान्यत्किञ्चित्परं स्मृतम् ॥ १३.८६.३५ ॥

牛是通往天界的梯子,即使在天上也受到供奉。牛乃如意神牛,是神圣的女神;除此之外,别无更高之物被传述。

13.86.36

इत्येतद्गोषु मे प्रोक्तं महात्म्यं भरतर्षभ ।
गुणैकदेशवचनं शक्यं पारायणं न तु ॥ १३.८६.३६ ॥

婆罗多族之雄啊,我如此向你宣说了牛的威德。这只是牛之德性的一部分;完整诵说是不可能的。

13.86.37

दर्शनं कथनं चैव सहास्माभिः कृतं मुने ।
सतां साप्तपदं मैत्रं प्रसादं न कुरु प्रभो ॥ १३.८६.३७ ॥

贤者啊,我们已经见到您并与您交谈。在善人之间,友谊以七步缔结;尊主啊,请施恩于我们。

13.86.38

हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः ।
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥ १३.८६.३८ ॥

正如火焰吞尽一切供品,你也一样,法之灵魂啊,威严而光耀,是人中之火。

13.86.39

प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् ।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥ १३.८६.३९ ॥

博学者啊,我们俯首向您恳求。为了您对我们的恩惠,请收下这头牛。

13.86.40

अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् ।
या गतिर्विदिता त्वद्य नरके शरणं भवान् ॥ १३.८६.४० ॥

在极度危难中能够庇护他人的有力者所知的那条道路,如今在这地狱中,您就是我们的依靠。

13.86.41

कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च ।
नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ १३.८६.४१ ॥

可怜人的目光、圣人的目光和毒蛇的目光,能将人连根烧尽,如熊熊烈火烧干草。

13.86.42

प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः ।
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥ १३.८६.४२ ॥

渔人们,罪孽已除,我接受你们的这头牛。快与从网中捞起的鱼一同升天去吧。

13.86.43

ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः ।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ १३.८६.४३ ॥

于是,凭借那位心灵纯净的大仙的威力和他的这番话,尼沙陀人与鱼一同升上了天界。

13.86.44

ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् ।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥ १३.८६.४४ ॥

于是,国王那护沙看见渔夫和鱼升往天界,感到惊异,婆罗多族之牛啊,

13.86.45

ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः ।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥ १३.८६.४५ ॥

于是,那二人,即伽维惹与婆ryu之最优者遮耶那,以两项相称的恩典向国王致意,

13.86.46

ततो राजा महावीर्यो नहुषः पृथिवीपतिः ।
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥ १३.८६.४६ ॥

于是,大力的大地之主那护沙欢喜地说:「至上」,婆罗多族中最优秀者啊。

13.86.47

ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः ।
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ १३.८६.४७ ॥

于是,那位如因陀罗般的国王坚定地站在法上;他说「就这样吧」,欢喜地以礼敬回报那两位仙人。

13.86.48

समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् ।
गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ १३.८६.४८ ॥

完成誓愿后,遮耶那便回到自己的修行处;大光明的伽维惹也回到自己的修行之地。

13.86.49

निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप ।
नहुषोपि वरं लब्ध्वा प्रविवेश स्वकं पुरम् ॥ १३.८६.४९ ॥

人主啊,尼沙陀人与那些鱼升入天界,那诃沙也获得恩惠后,回到了自己的城中。

13.86.50

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर ॥ १३.८६.५० ॥

孩子啊,你所问我的,已经告诉你了:见面时或共同生活中的爱意是怎样的,般度之子啊。

13.86.51

महाभाग्यं गवां चैव तता धर्मविनिश्चयम् ।
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ १३.८६.५१ ॥

牛的大福德与法的确定之理已经讲述。英雄啊,还要再说什么呢?你心中想要说什么?