Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.87.2

कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो ।
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥ १३.८७.२ ॥

主啊,我非常想知道关于贾玛达格尼之子以及持法者中最优秀的罗摩的事;您应当为我解说。

13.87.3

ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम् ।
कथमेष समुत्पन्नो रामः सत्यपराक्रमः।
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत ॥ १३.८७.३ ॥

这位真正勇武的罗摩,怎会出自那些充满婆罗门之力的人中,如遮那婆等?这一婆罗门仙人之族,又怎会具有刹帝利之法?

13.87.4

तदस्य सम्भवं राजन्निखिलेनानुकीर्तय ।
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत् ॥ १३.८७.४ ॥

因此,国王啊,请完整叙述他的出身。出自刹帝利族的憍尸迦(毗首密多罗),怎样成为了婆罗门?

13.87.5

अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः ।
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि ॥ १३.८७.५ ॥

啊!人中之虎啊,大德的罗摩与毗首密多罗二人的威力,实在是极为伟大。

13.87.6

कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् ।
एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि ॥ १३.८७.६ ॥

为何越过他们的儿子,却在他们的孙子中发生此事?这便是我的疑问,大智者啊;您应当阐明其中的真理。

13.87.7

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
च्यवनस्य च संवादं कुशिकस्य च भारत ॥ १३.८७.७ ॥

此处人们也讲述这段古老的传说——遮那婆与憍尸迦的对话,婆罗多的后裔啊。

13.87.8

एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा ।
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः ॥ १३.८७.८ ॥

往昔,婆利古后裔、大智慧的诸仙之最者遮耶那,看到了将来会出现在自己家族中的这一过失。

13.87.9

निश्चित्य मनसा सर्वं गुणदोषबलाबलम् ।
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥ १३.८७.९ ॥

他心中断定了一切优点与缺点、强与弱之后,以苦行为财富的遮耶那想要焚毁整个拘shika族。

13.87.10

च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् ।
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥ १३.८७.१० ॥

遮耶那走到他面前,对拘shika说:"无瑕者啊,我生起了与你同住的愿望。"

13.87.11

भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते ।
प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ १३.८७.११ ॥

尊者啊,这共同的法在此为智者所奉行;在嫁出女儿之时,智者总是这样说。

13.87.12

यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन ।
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥ १३.८७.१२ ॥

啊,以苦行为财富者,至于那已经过去的法门,我将去做那件事;请您允许。

13.87.13

अथासनमुपादाय च्यवनस्य महामुनेः ।
कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ १३.८७.१३ ॥

于是拘shika为大仙遮耶那取来坐具,与妻子一同前往仙人所在之处。

13.87.14

प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् ।
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ १३.८७.१४ ॥

国王手持水器,为他献上洗足之水,并让人为这位大德举行了一切仪式。

13.87.15

ततः स राजा च्यवनं मधुपर्कं यथाविधि ।
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः ॥ १३.८७.१५ ॥

然后,国王依礼让车雅那接受了蜜合供物;这位心境安定、大德且持守誓戒的人,便接受了。

13.87.16

सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् ।
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥ १३.८७.१६ ॥

国王如此礼敬那位婆罗门之后,再次说道:“尊者,我们二人都听从您的吩咐;请告诉我们,我们应该做什么?”

13.87.17

यदि राज्यं यदि धनं यदि गाः संशितव्रत ।
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥ १३.८७.१७ ॥

“持守誓戒的尊者,若您需要王国,或财富,或牛群,或祭祀与布施——请您说出,我都会全部奉上。”

13.87.18

इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया ॥ १३.८७.१८ ॥

“这座房屋、这个王国和这法座都是您的。您是国王,请统治大地。我是您的仆人,与妻子一同听从您。”

13.87.19

एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।
कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ १३.८७.१९ ॥

这些话说完之后,婆利古后裔车雅那满怀无上喜悦,便对俱尸迦说了这番话。

13.87.20

न राज्यं कामये राजन्न धनं न च योषितः ।
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् ॥ १३.८७.२० ॥

国王啊,我不求王国,不求财富,不求女人,不求牛,不求土地,也不求祭祀。请听此言。

13.87.21

नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते ।
परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ १३.८७.२१ ॥

若你们二人愿意,我将立下某种誓愿。我将毫无疑虑地服侍你们二人。

13.87.22

एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः ।
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥ १३.८७.२२ ॥

他如此说完,那对夫妇欢喜,回答那位仙人说:“就这样吧。”婆罗多啊。

13.87.23

अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् ।
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् ॥ १३.८७.२३ ॥

于是欢喜的拘尸迦将那位尊贵的客人引入内室,并向他展示家中值得一观之处。

13.87.24

इयं शय्या भगवतो यथाकाममिहोष्यताम् ।
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥ १३.८७.२४ ॥

尊者,这是您的床榻;请随意在此安歇。苦行的富有者啊,我们将努力使您欢喜。

13.87.25

अथ सूर्योतिचक्राम तेषां संवदतां तथा ।
अथर्षिश्चोदयामास पानमन्नं तथैव च ॥ १३.८७.२५ ॥

他们这样交谈时,太阳已经西移。于是仙人也照样索取饮食。

13.87.26

तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा ।
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥ १३.८७.२६ ॥

于是国王俱舍迦恭敬地问他:“您想要什么食物?我该为您准备什么?”

13.87.27

ततः स परया प्रीत्या प्रत्युवाच नराधिपम् ।
औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥ १३.८७.२७ ॥

于是他极为欢喜地回答人主说:“婆罗多啊,请给我适宜的食物。”

13.87.28

तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः ।
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप ॥ १३.८७.२८ ॥

国王敬重他的话,说:“就这样吧。”于是把现有的食物交给了他,人民之主啊。

13.87.29

ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित् ।
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ १३.८७.२९ ॥

用餐之后,知法的尊者对那对夫妇说:“主啊,我想睡觉;睡意困扰着我。”

13.87.30

ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः ।
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत् ॥ १३.८७.३० ॥

随后,尊者,诸仙中最优秀者,到达卧室躺下;国王则与妻子站在一旁。

13.87.31

न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः ।
संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि ॥ १३.८७.३१ ॥

“我已经熟睡,不要叫醒我,”婆哩古说,“请为我按摩双脚,你们两人夜里都要醒着。”

13.87.32

अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित् ।
न प्राबोधयतां तौ च दंपती रजनीक्षये ॥ १३.८७.३२ ॥

具法的古西迦毫无疑虑地说:"就这样吧。"夫妻二人在夜尽时没有唤醒他。

13.87.33

यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा ।
बभूवतुर्महाराज प्रयतावथ दम्पती ॥ १३.८७.३३ ॥

按照大仙的吩咐,二人此时全心侍奉。大王啊,这对夫妇克制自持,虔诚恭敬。

13.87.34

ततः स भगवान्विप्रः समादिश्य नराधिपम् ।
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥ १३.८७.३४ ॥

于是那位尊贵的婆罗门嘱咐了国王,便侧身而卧,连睡了二十一日。

13.87.35

स तु राजा निराहारः सभार्यः कुरुनन्दन ।
पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥ १३.८७.३५ ॥

库鲁的欢喜者啊,那位国王与妻子一起绝食,欢喜地侍奉他,一心祭拜车耶那。

13.87.36

भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ १३.८७.३६ ॥

婆利古族的苦行者自己起身,什么也没说,这位大苦行者便走出了屋子。

13.87.37

तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ ।
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत् ॥ १३.८७.३७ ॥

那夫妻二人饥饿疲惫,跟在他身后,可是这位最好的圣人连看都没有看他们一眼。

13.87.38

तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः ।
अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ ॥ १३.८७.३८ ॥

王中之王啊!当他们二人注视之时,担负婆利古族的那位仙人隐没了,于是国王倒在了地上。

13.87.39

ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः ।
पुनरन्वेषणे यत्नमकरोत्स महीपतिः ॥ १३.८७.३९ ॥

随后,过了片刻,他苏醒过来,与王后一起,再次努力寻找那位大仙人。