摩诃婆罗多 · 章 13.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.89.1
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥ १३.८९.१ ॥
于是夜尽时,那位心胸宽广的国王醒来,行完晨间之礼,与王后一同向那片森林走去。
13.89.2
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् ।
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥ १३.८९.२ ॥
此时国王看见一座全由黄金建成的宫殿,有千根宝石柱,宛如乾闼婆城。那时,俱尸迦在那里看见了神圣的意图。
13.89.3
पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः ।
चित्रशालाश्च विविधास्तोरणानि च भारत।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥ १३.८९.३ ॥
山峦与银色的峰顶,盛开莲花的池塘,各式彩绘的厅堂与门楼,婆罗多啊,以及铺满青草、镶嵌黄金的大地。
13.89.4
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान् ।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ १३.८९.४ ॥
盛开的芒果树,上好的 ketaka 与 uddālaka 树,带有茉莉花的无忧树,以及盛开的 atimuktaka 藤蔓。
13.89.5
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह ॥ १३.८९.५ ॥
他到处看见瞻波树、提拉卡树、华美的菠萝蜜树与婉朱罗树,还有盛开的迦尼迦罗树。
13.89.6
श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः ।
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः ॥ १३.८९.६ ॥
这位君主还看见深色的婆罗那花树和八足藤,它们在各处被布置得井然有序。
13.89.7
रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान् ॥ १३.८९.७ ॥
美丽的,持有莲花与青莲,装饰着四季之花,还有如天车般的殿宇,高耸如山。
13.89.8
शीतलानि च तोयानि क्वचिदुष्णानि भारत ।
आसनानि विचित्राणि शयनप्रवराणि च ॥ १३.८९.८ ॥
婆罗多啊,有些地方有凉水,有些地方有温水;还有奇异的座椅和上好的卧榻。
13.89.9
पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान् ।
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम् ॥ १३.८९.९ ॥
宝石与黄金制成的卧榻,铺着最珍贵的织物;到处准备着无尽的食物与饮品。
13.89.10
वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान् ।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् ॥ १३.८९.१० ॥
能言的鹦鹉与八哥,蜂王鸟,杜鹃,百羽鸟,以及 koyaṣṭi 与 kakkubha 鸟。
13.89.11
मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान् ।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ १३.८९.११ ॥
孔雀、公鸡、达提乌哈水鸟、命命鸟、石鸡、猴子、天鹅、鹤,以及名为遮克罗伐迦的鸟。
13.89.12
समन्ततः प्रणदतो ददर्श सुमनोहरान् ।
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥ १३.८९.१२ ॥
四面八方传来回响,他看见极为动人的景象;国王啊,有些地方有阿普萨拉斯的群体,也有乾闼婆的群体。
13.89.13
कान्ताभिरपरांस्तत्र परिष्वक्रान्ददर्श ह ।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥ १३.८९.१३ ॥
他在那里看见其他人被可爱的女子拥抱;之后他没有再看见他们,国王又看见了他们。
13.89.14
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् ।
हंसानसुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥ १३.८९.१४ ॥
国王在那里听到了极其动听的歌声,同样也听到了诵读之声,还有极其悦耳的天鹅鸣叫。
13.89.15
तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा ।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ १३.८९.१५ ॥
国王看见这极其奇妙的景象,便在心中想:'这是梦,是心神迷乱吗?还是真的是实在的?'
13.89.16
अहो सह शरीरेण प्राप्तोस्मि परमां गतिम् ।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम् ॥ १३.८९.१६ ॥
啊!我带着这身躯已达到了至高的归宿,或是神圣的北俱卢,或是阿摩罗跋提。
13.89.17
किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् ।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥ १३.८९.१७ ॥
'我所见的这是何等大的奇迹?'他这样想。正这样思索时,他看见了圣者中的最优者。
13.89.18
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले ।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥ १३.८९.१८ ॥
在那辆满是宝石柱子的金色天车里,一张极为珍贵的天界床榻上,躺着婆利固之子。
13.89.19
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत् ॥ १३.८९.१९ ॥
国王欣喜地与王后一同走近他;但车瓦那再次消失,连那床榻也不见了。
13.89.20
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥ १३.८९.२० ॥
随后,在森林的另一处,他又看见了他:他坐在吉祥草座上,那位大誓戒者正在持诵咒语。
13.89.21
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥ १३.८९.२१ ॥
就这样,婆罗门凭借瑜伽之力迷惑了国王。
13.89.22
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः ।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥ १३.८९.२२ ॥
霎时间,那片森林、天女群、乾闼婆与树木,全都消失了。
13.89.23
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ १३.८९.२३ ॥
国王啊,恒河岸边再次寂静无声,又变得如从前一样,长满了吉祥草与蚁冢。
13.89.24
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥ १३.८९.२४ ॥
那时,国王俱舍迦与王后见到那伟大奇妙的事迹,极为惊讶。
13.89.25
ततः प्रोवाच कुशिको भार्या हर्षसमन्वितः ।
पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ॥ १३.८९.२५ ॥
于是憍尸迦充满喜悦地对妻子说:善良的女子啊,看那些奇妙而极难得到的景象。若非因婆里古之首的恩典,若非苦行之力,还能是什么呢?
13.89.26
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ॥ १३.८९.२६ ॥
凭苦行所能得到的,凭愿望是无法得到的。实在说,即使是三界的王权,苦行也更为殊胜。
13.89.27
तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः ।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ॥ १३.८९.२७ ॥
凭着严酷的苦行,这位以苦行为财富的人游戏自在。啊,大德梵仙遮和那的威力何其广大!
13.89.28
इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि ।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा ॥ १३.८९.२८ ॥
凭其意愿,凭苦行之力,他甚至能够创造其他世界;唯有婆罗门可以凭借善良的言语、智慧与行为而出生。
13.89.29
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते ।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ॥ १३.८९.२९ ॥
此处除了遮和那,还有谁敢做这样的事呢?世间婆罗门之身难得,而王位对人们来说却容易获得。
13.89.30
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ॥ १३.८९.३० ॥
凭借婆罗门的威力,他像驾着自己车轭的马一样被套在车上,如此思忖着,便为遮和那所知。
13.89.31
सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति ।
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम् ॥ १३.८९.३१ ॥
他见到后说:「请国王快来。」听了这话,他便与妻子一同前往那位大仙人处。
13.89.32
शिरसा वन्दनीयं तमवन्दत च पार्थिवः ।
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः ॥ १३.८९.३२ ॥
国王低首向这位值得尊敬的人致礼。随后这位仙人施以祝福,对那位人主说:「坐下。」这位智慧、人中雄牛的人一边安慰他,一边说道。
13.89.33
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ १३.८९.३३ ॥
于是,恢复常态的婆伽婆以温和的话语对国王说,仿佛使他欢喜,国王啊,婆罗多啊。
13.89.34
राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया ।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै ॥ १३.८९.३४ ॥
国王啊,你自己在此已经完全征服了五根与五境,以意为第六,因此你确实已脱离困境。
13.89.35
सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर ।
न हि ते वृजितं किञ्चित्सुसूक्ष्ममपि दृश्यते ॥ १३.८९.३५ ॥
孩子啊,你使我十分满意,你是言辞最好的人;你身上连最细微的过失也看不到。
13.89.36
अनुजानीहि मां राजन्गमिष्यामि यथागतम् ।
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥ १३.८९.३६ ॥
国王啊,请允许我离去;我会像来时一样离开。诸王之王啊,我对你很满意;请也接受一个恩赐吧。
13.89.37
अग्निमध्ये गतेनेव भगवन्सन्निधौ मया ।
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु ॥ १३.८९.३७ ॥
尊者,婆利古族中的猛虎,在您面前我的行为仿佛走入火中;未被焚毁,已是大幸。
13.89.38
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन ।
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ ॥ १३.८९.३८ ॥
婆利古之子啊,这正是我所得的最大恩惠:您因我的行为而欢喜,无罪者啊,我的家族也得以保全。
13.89.39
एथ मेऽन्द्रग्रहो विप्र जीविते च प्रयोजनम् ।
एतद्राज्यफलं चैव तपसश्च फलं मम ॥ १३.८९.३९ ॥
婆罗门啊,这是我一生的目的;这正是我王权的果实,也是我苦行的果实。
13.89.40
यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन ।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ १३.८९.४० ॥
婆罗门啊,婆利古之子,若您对我怀有慈爱,我心中有一个疑惑;请您为我解说。