摩诃婆罗多 · 章 13.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.9.1
पितामह महाप्राज्ञ सर्वसास्त्रविशारद ।
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत् ॥ १३.९.१ ॥
大祖父啊,大智者,精通一切典籍,命运与人为之力,何者更为殊胜?
13.9.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥ १३.९.२ ॥
युधिष्ठिर啊,关于此事,人们也讲述这段古老的故事,即婆悉吒与梵天的对话。
13.9.3
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत ।
पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥ १३.९.३ ॥
往昔,尊贵的婆悉吒问大祖父:天命之业与人为之业,何者更为殊胜。
13.9.4
ततः पद्मोद्भवो राजन्देवदेवः पितामहः ।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥ १३.९.४ ॥
王啊,于是,从莲花中生出的神中之神大祖父,说出了蕴含义理、以道理装饰的甜美之言。
13.9.5
बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः ।
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते ॥ १३.९.५ ॥
由种子生出嫩芽,由嫩芽生出叶子,由叶子生出茎秆,由茎秆长出主干。
13.9.6
स्कन्धात्प्रवर्तते पुष्पं पुष्पात्संवर्धते फलम् ।
फलान्निर्वर्तते बीजं बीजात्स्यात्सम्भवः पुनः ॥ १३.९.६ ॥
从主干生出花,从花长成果,从果生出种子,从种子又生出新的开端。
13.9.7
नाबीजं जायते किञ्चिन्न बीजेने विना फलम् ।
बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम् ॥ १३.९.७ ॥
没有种子,便无物生成;没有种子,也就没有果实。种子只从种子而生;没有种子,便不见果实。
13.9.8
यादृशं वपते बीजं क्षेत्रमासाद्य वापकः ।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम् ॥ १३.९.८ ॥
播种者在田里播下什么样的种子,便得到什么样的果实——无论那是善行还是恶行。
13.9.9
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥ १३.९.९ ॥
如同田中播下而无种子,便成空无收获,离开人为努力,天命也无从成就。
13.9.10
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् ।
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते ॥ १३.९.१० ॥
人为的努力被称为田地,天命被称为种子。田地与种子相合,庄稼才得以繁茂。
13.9.11
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ १३.९.११ ॥
行为的结果,行为者自身亲自承受。这在世间明显可见——无论是已做的事,还是未做的事。
13.9.12
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥ १३.९.१२ ॥
善行带来快乐,恶行带来痛苦。已做之事处处结果;未做之事则从未被人承受。
13.9.13
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षितः ।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ १३.९.१३ ॥
行动者处处获得尊荣,命运垂顾于他。不行动者堕落,如同在伤口上倾洒碱水。
13.9.14
तपसा रूपसौभाग्यं रत्नानि विविधानि च ।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥ १३.९.१४ ॥
凭苦行可得容貌、福运与种种珍宝。一切皆由行动而得,未行动者不能凭天命得之。
13.9.15
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता ।
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते ॥ १३.९.१५ ॥
同样,天界、享受以及智者所求的坚定目标,都在此世通过人的努力和所作之业而获得。
13.9.16
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः ।
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥ १३.९.१६ ॥
星辰、三十三天神、龙、夜叉、月、日与风,这些都借人的努力,由人身而成为天神。
13.9.17
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् ।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥ १३.९.१७ ॥
财富、朋友圈、与高贵家世相连的权势,乃至吉祥福运本身,对未曾行动者而言都难以享受。
13.9.18
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु ।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ १३.९.१८ ॥
婆罗门凭清净得福运,刹帝利凭勇武,吠舍凭人的努力,首陀罗凭侍奉而得吉祥。
13.9.19
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् ।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ १३.९.१९ ॥
财富不亲近不施舍者、阉人、无所作为者、不善行动者、不勇敢者,也不亲近无苦行者。
13.9.20
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः ।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ १३.९.२० ॥
创造三界、阿修罗与一切天神的那位世尊毗湿奴,正在海中修苦行。
13.9.21
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् ।
लोको दैवं समालक्ष्य उदासीनो भवेद्यदि ॥ १३.९.२१ ॥
若自己的行为没有果报,一切都将无果;若人们只看天命而变得冷漠……
13.9.22
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥ १३.९.२२ ॥
不做人力之事而只顺从天命者,徒然劳累,如同嫁得阉夫的女子。
13.9.23
न तथा मानुषे लोके फलमस्ति शुभाशुभे ।
यथा त्रिदशलोके हि फलमल्पेन जायते ॥ १३.९.२३ ॥
人间世界中善恶之果,不像三十三天界那样,在那里稍加努力即可结果。
13.9.24
कृतः पुरुषकारस्तु दैवमेवानुवर्तते ।
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥ १३.९.२४ ॥
然而,人力已尽之时,天命也会随之而行;若不尽人力,天命便无法给予任何人任何东西。
13.9.25
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि ।
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः ॥ १३.९.२५ ॥
正如诸天神的位置也显得无常,离开业力,天命如何能够存续?欲使其确立者,又将如何确立?
13.9.26
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् ।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥ १३.९.२६ ॥
在此世间,诸天神并不干预任何人的事务;出于对自身失败的恐惧,他们使人陷入强烈的执着。
13.9.27
ऋषीणां देवतानां च सदा भवति विग्रहः ।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ १३.९.२७ ॥
仙人与诸天神之间常有纷争。以谁的言语,会有非天命?天命正是由此而生。
13.9.28
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते ।
एवं त्रिदशलोकेऽपि प्राप्यते परमं सुखम् ॥ १३.९.२८ ॥
天命所由发动者,其生起如何?如此,即便在三十三天的世界中,也能获得至上的快乐。
13.9.29
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ १३.९.२९ ॥
自我自身即是自己的朋友,自我自身即是自己的敌人。自我自身即是自己的见证者,无论所作或未作。
13.9.30
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुकर्मणा ।
सुकृतं दुष्कृतं कर्म अकृतार्थं प्रपद्यते ॥ १३.९.३० ॥
凡所作或所败坏之事,皆由重大业行而成就。善业与恶业,即使目的未达,也会获得其果。
13.9.31
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते ।
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति ॥ १३.९.३१ ॥
诸神的庇护是功德;一切都由功德而得。遇到无功德之人,天命又能做什么呢?
13.9.32
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ ।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥ १३.९.३२ ॥
往昔,耶耶提从天上坠落,倒在地上;但由于行善积德的外孙们,他又被重新送回天上。
13.9.33
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥ १३.९.३३ ॥
往昔,婆罗门称王仙补卢罗婆斯以“艾罗”之名闻名;那位地上之主得升天界。
13.9.34
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः ।
महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ १३.९.३४ ॥
以马祭等祭祀受尊崇的憍萨罗王萨乌达萨,因大仙的诅咒而变成了食人者。
13.9.35
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ ।
न गच्छतः स्वर्गलोकं वेददृष्टेन कर्मणा ॥ १३.९.३५ ॥
阿湿婆陀摩与罗摩,二人皆为仙人之子、善射之士,却不能凭吠陀所见之业升入天界。
13.9.36
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः ।
मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ १३.९.३६ ॥
婆苏举行百次祭祀,如同第二个因陀罗;然而因一句虚妄之言,他坠入了地底的深渊罗萨多罗。
13.9.37
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः ।
विष्णोः पुरुषकारेण पातालसदनः कृपः ॥ १३.९.३७ ॥
毗卢遮那之子钵利被诸天以法索所缚;凭毗湿奴的人力,他居于地下的幽界,令人怜悯。
13.9.38
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः ।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ १३.९.३८ ॥
坐在因陀罗车座上的阇那迷阇耶杀害了婆罗门妇女,为何天命没有阻止他?
13.9.39
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च ।
वैशंपायनविप्रर्षिः किं दैवेन न वारितः ॥ १३.९.३९ ॥
无知杀害婆罗门,又沾染杀婴之罪的婆罗门仙人毗舍摩衍那,为何天命没有阻止他?
13.9.40
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे ।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥ १३.९.४० ॥
大祭中,他对婆罗门谎称施舍牛,故往昔王仙那罗陀变为了蜥蜴之身。
13.9.41
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः ।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ १३.९.४१ ॥
王仙敦敦摩罗也在祭祀会中衰老;他舍弃了喜悦之施,在山城中沉睡。
13.9.42
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः ।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ १३.९.४२ ॥
般度之国被持国的强大诸子夺去;而它又被收回,并非凭天命,而是凭借臂力。
13.9.43
तपोनियमसंयुक्ता मुनयः संशितव्रताः ।
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ १३.९.४३ ॥
修苦行与戒律、持守坚定誓愿的仙人,为何凭借天命之力而非行为发出诅咒?
13.9.44
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् ।
लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ १३.९.४४ ॥
人在世间得到极难得之物,却作恶,陷于贪婪与迷惑,天命不能护佑这样的人。
13.9.45
यथाऽऽग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान्भवेत् ।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥ १३.९.४५ ॥
如风所煽之火,虽极微小却能变大;同样,与行为相合的天命也能良好地增长。
13.9.46
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति ।
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥ १३.९.४६ ॥
灯因油尽而昏暗,同样,天命因行为耗尽而黯淡。
13.9.47
विपुलमपि धनौघं प्राप्य भोगान्त्रियो वा ।
पुरुष इह न शक्तः कर्महीनो हि भोक्तुम्।
सुविहितमपि चार्थं दैवते रक्ष्यमाणं ।
पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः ॥ १३.९.४७ ॥
人在此世,即便得到巨大的财富或女色之欢,若无行为也无力享用。唯有妥善积聚、为天命所护的财富,才由时刻勤勉的贤达之人在此获得。
13.9.48
व्ययगुमपि साधुं कर्मणा संश्रयन्ते ।
भवती मनुजलोकाद्दैवलोको विशिष्टः।
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि ।
पितृवनभवनाभं दृश्यते चामराणाम् ॥ १३.९.४८ ॥
即使是拥有大量财富的善人也依靠行动;天界比人间更为殊胜。因极度繁荣,人间的房屋看起来如祖先的林中居所,诸不死者的住所亦然。
13.9.49
न च फलति विकर्मा जीवलोके न दैवं ।
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्।
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं ।
नयति पुरुषकारः सञ्चितस्तत्रतत्र ॥ १३.९.४९ ॥
在生命的世界里,恶行不结果,天命也不能去除邪路;天命并无主宰之力。如同重担,所作的殊胜之业随天命而行;积累的人力则将其引向这里或那里。
13.9.50
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम ।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥ १३.९.५० ॥
诸仙之最,我已将这一切告诉你,始终如实地看清了人力的果报。
13.9.51
अभ्युत्थानेन दैवस्य समारब्धेन केनचित् ।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ १३.९.५१ ॥
凭借某人在天命面前发起的努力,并依照规范所行的业,人应当获得通往天界的道路。