Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 13.90

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

13.90.1

वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि ।
तं प्रब्रूदि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥ १३.९०.१ ॥

私に恩寵を求めよ。心にある疑いを語れ、人の中の最上の者よ。あなたのために、すべてを成就させよう。

13.90.2

यदि प्रीतोसि भगवंस्ततो मे वद भार्गव ।
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥ १३.९०.२ ॥

もしあなたが満足されているなら、尊き方、バールガヴァよ、どうか教えてください。私の家にあなたが留まられた理由を聞きたいのです。

13.90.3

शयनं चैकपार्श्वेन दिवसानेकविंशतिम् ।
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः ॥ १३.९०.३ ॥

二十一日間、あなたは片側を下にして横たわっていました。何も言わずに外へ出て行かれました、聖者の中の最上の方よ。

13.90.4

अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् ।
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥ १३.९०.४ ॥

あなたは突然姿を消し、再び現れ、そして婆羅門よ、再び二十一日間横たわっていました。

13.90.5

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम ।
समुपानीय विविधं यद्दग्धं जातवेदसा ॥ १३.९०.५ ॥

油を塗ってから去ったこと、そして私の家での食事。さまざまな料理が運ばれてきたが、火によって焼かれてしまった。

13.90.6

निर्याणां च रथेनाशु सहसा यत्कृतं त्वया ।
धनानां च विसर्गश्च वनस्यापि च दर्शनम् ॥ १३.९०.६ ॥

あなたが戦車で速やかに、突然に出発されたこと、財を施されたこと、そして森を見られたこと——これらすべてをあなたは行われました。

13.90.7

प्रासादानां बहूनां च काञ्चनानां महामुने ।
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम् ॥ १३.९०.७ ॥

大聖者よ、金で造られた多くの宮殿と、宝石と珊瑚を脚とする寝台の光景。

13.90.8

पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ।
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह ॥ १३.९०.८ ॥

それが再び消えた理由を聞きたい。考えるうちに私は大いに当惑している、バールグの最良の人よ。

13.90.9

न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥ १३.९०.९ ॥

ここで私はこれ全体の確かな結論を理解できない。苦行の富める者よ、その真実を余すことなく聞きたい。

13.90.10

शृणु सर्वमशेषेणि यदिदं येन हेतुना ।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥ १३.९०.१० ॥

王よ、これが起きた理由をすべて余すことなく聞け。このように問われては、語らずにいることはできない。

13.90.11

पितामहस्य वदतः पुरा देवसमागमे ।
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु। ॥ १३.९०.११ ॥

王よ、昔、神々の集会で祖父が語ったのを私は聞いた。それを彼が私に語ったとおり、お前に語る。聞け。

13.90.12

ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः ।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ १३.९०.१२ ॥

バラモンと武士の対立によって、家系の混淆が起こるだろう。王よ、お前には光輝と勇気を備えた孫が生まれるであろう。

13.90.13

ततः स्वकुलरक्षार्थमहं त्वां समुपागतः ।
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥ १३.९०.१३ ॥

そのとき、自分の一族を守るため、私はクシカ族を滅ぼし、あなたの家系を焼き尽くそうと望んであなたのもとに来た。

13.90.14

ततोऽहमागम्य पुरे त्वामवोचं महीपते ।
नियमं कञ्चिदारप्सये शुश्रूषा क्रियतामिति ॥ १३.९०.१४ ॥

そこで私は都に来てあなたに言った。「おお大地の主よ、私はある誓願を始めようとしている。私に奉仕せよ。」と。

13.90.15

न च ते दुष्कृतं किञ्चिदहमासादयं गृहे ।
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा ॥ १३.९०.१५ ॥

あなたの家に、あなたの悪い行いは一つも見つからなかった。だからあなたは生きているのだ、王仙よ。さもなければ、あなたは今のようではなかっただろう。

13.90.16

एवं बुद्धिं समास्थाय दिवसानेकविंशतिम् ।
सुप्तोस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥ १३.९०.१६ ॥

このように決心して、私は二十一日間眠ろう。もし誰かが私を起こしたなら——そのように、王よ。

13.90.17

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः ।
अहं तदैव ते प्रीतो मनसा राजसत्तम ॥ १३.९०.१७ ॥

あなたが妻と共に、深く眠っている私を起こさなかったとき、そのとき私は心の中であなたに満足した、王の中の最上の者よ。

13.90.18

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते ।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥ १३.९०.१८ ॥

もし私が起きて立ち去ったなら、あなたは私に尋ねるべきだ、「どこへお行きになるのか」と。そう尋ねたなら、私はあなたを呪うであろう、主よ。

13.90.19

अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे ।
योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ॥ १३.९०.१९ ॥

私は隠れていて、再びあなたの家にいた。ヨーガに住して、二十一日間深い眠りに横たわっていた。

13.90.20

क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप ।
एतां बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया ॥ १३.९०.२० ॥

人の王よ、あなたたち二人が飢えや疲れから私に腹を立てるだろうと考え、この意図を抱いて、飢えに衰えた私はあなた方二人を試したのです。

13.90.21

न च तेऽभूत्सुसूक्ष्मोपि मन्युर्मनसि पार्थिव ।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥ १३.९०.२१ ॥

王よ、人の中の最上の者よ、あなたの心には極めて微細な怒りさえも起こらなかった。それゆえ、妻とともにあなたに私は満足している。

13.90.22

भोजनं च समानाय्य यत्तदादीपितं मया ।
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे ॥ १३.९०.२२ ॥

私が集めて調えた食事について、もしあなた方が嫉妬から怒るなら、それも私は耐え忍んだ。

13.90.23

ततोऽहं रथमारुह्य त्वामवोचं नराधिप ।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ १३.९०.२३ ॥

そこで私は戦車に乗り、人の王よ、あなたに言った。『妻とともに私を運んでくれ』と。あなたもまさにその通りにした。

13.90.24

अविशङ्को नरपते प्रीतोऽहं चापि तेन ह ।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोप्यधर्षयत् ॥ १३.९०.२४ ॥

人の王よ、疑いなく私はそれでも満足した。財を捨てた時でさえ、怒りはあなたを打ち負かさなかった。

13.90.25

ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव ।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥ १३.९०.२५ ॥

そこで、あなたに喜んで、王よ、これは再びあなたのために行われた。人の主よ、知れ。妻とともにあなたはこの森を再び与えられたのだ。

13.90.26

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् ।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं सुदर्शनम् ॥ १३.९०.२६ ॥

あなたを喜ばせるために、王よ、私はこの天界の光景をお見せしたのだ。これは、あなたがこの森で見た神聖で美しい光景である。

13.90.27

स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव ।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ १३.९०.२७ ॥

王よ、君主よ、妻とともに肉体をもって、あなたは天界の境地をしばし体験したのだ、王の中の最上の者よ。

13.90.28

निदर्शनार्थं तपसो धर्मस्य च नराधिप ।
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मया ॥ १३.९०.२८ ॥

これは苦行と法の模範として行われたのだ、人の主よ。王よ、そこであなたには欲望がなかった。そのこともまた私は知っている。

13.90.29

ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते ।
अवमत्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ १३.९०.२९ ॥

大地の主よ、あなたは実に婆羅門の境地と苦行を望んでいる、君主よ。王の王位も神々の主の地位も軽んじて。

13.90.30

एवमेतद्यथातत्वं ब्राह्मण्यं तात दुर्लभम् ।
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ १३.९०.३० ॥

まさにその通りだ。婆羅門の境地は、わが子よ、得がたいのだ。婆羅門であれば聖仙の位が生じ、聖仙であれば苦行が生じる。

13.90.31

भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ॥ १३.९०.३१ ॥

汝の願いは叶うだろう。クシカからカウシカという再生の婆羅門が生まれるだろう。

13.90.32

तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ।
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ॥ १३.९०.३२ ॥

第三の世代に至れば、汝の家系は婆羅門性を得るだろう。王の中の最上の者よ、まさにバルグの威光によって。

13.90.33

पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः ।
जमदग्नौ महाभाग तपसा भावितात्मनि ॥ १३.९०.३३ ॥

汝の孫は苦行者の婆羅門となり、火のように輝くだろう。大いなる幸運の者よ、苦行によって魂を清めたジャマダグニのもとに生まれて。

13.90.34

यः स देवमनुष्याणआं भयमुत्पादयिष्यति ।
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते ॥ १३.९०.३४ ॥

彼は神々と人間に恐怖を引き起こすだろう。これは三界にとっての真実であり、汝にそう告げるのである。

13.90.35

वरं गृहाण राजर्षे यस्ते मनसि वर्तते ।
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ १३.९०.३५ ॥

王仙よ、汝の心にある恩寵を受け取れ。私は巡礼に出ねばならぬ。時は過ぎ去りつつあるのだ。

13.90.36

एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने ।
भवत्वेतद्यथार्थत्वं भवेत्पौत्रो ममानघ ॥ १३.९०.३६ ॥

今日、私の恩寵はこれです。あなたが私に満足されたこと。大仙よ、そうなりますように、これが真となりますように。無垢なる方よ、私の孫もそうなりますように。

13.90.37

ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ।
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ॥ १३.९०.३७ ॥

尊き方よ、わが家系にバラモンの身分があれ。これが私の恩恵です。尊き方よ、私はもう一度詳しく聞きたいのです。

13.90.38

कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ।
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः ॥ १३.९०.३८ ॥

バルグの息子よ、わが家系にどうしてバラモンの身分が至るのか。誰が私の縁者となり、誰が私に敬われる者となるのか。