Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.92.1

मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः ।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥ १३.९२.१ ॥

闻其言曰“我感到迷惑”,今日反复思量的坚战,看到这大地已失去那些光辉的王中狮子。

13.92.2

प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत ।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥ १३.९२.२ ॥

虽已得到数百个王国、征服大地,婆罗多啊,杀害千万人之后,我深感痛苦,祖父啊。

13.92.3

का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥ १३.९२.३ ॥

那些失去丈夫、儿子、舅父和兄弟的贤良女子,如今的境况将会怎样呢?

13.92.4

वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च ।
अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः ॥ १३.९२.४ ॥

我们杀害了那些俱卢、亲族和朋友,将头朝下坠入地狱,这毫无疑问。

13.92.5

शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते ॥ १३.९२.५ ॥

婆罗多啊,我想以严酷的苦行约束身体;人主啊,我想如实了解这里所教导的一切。

13.92.6

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥ १३.९२.६ ॥

大心的毗湿摩听了坚战的这番话,以智慧仔细考察了他,然后对坚战说道。

13.92.7

रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत ।
या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते ॥ १३.९२.७ ॥

婆罗多啊,听着,我将告诉你一个奇妙的秘密:死后所达到的归宿,人民之主啊。

13.92.8

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥ १३.९२.८ ॥

苦行可得天堂,苦行可得名声。啊,大能者,长寿与享乐也可凭苦行获得。

13.92.9

ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च ।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥ १३.९२.९ ॥

知识、智慧、健康、美貌、财富,以及同样的福运,都可凭苦行获得,婆罗多族中的雄牛啊。

13.92.10

धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ १३.९२.१० ॥

凭苦行获得财富,缄默赐予智慧;凭布施获得享乐,凭梵行获得长寿。

13.92.11

अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।
फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत् ॥ १३.९२.११ ॥

不杀生的果报是美貌;受戒的果报是生于高贵之家。食果根得王位,食树叶得天堂。

13.92.12

पयोभक्षो दिवं याति दानेन द्रविणाधिकः ।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥ १३.९२.१२ ॥

只饮牛奶者升天;布施者财富更多。侍奉师长得学问,日常祭祀祖先得子嗣。

13.92.13

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।
स्त्रियस्त्रिषवण्सनानाद्वायुं पीत्वा क्रतुं लभेत् ॥ १३.९२.१३ ॥

据说富有牛群者,以素食之戒、以食草而升天;妇人以每日三时沐浴、饮风,便可获得祭祀之果。

13.92.14

नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः ।
मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने ॥ १३.९२.१४ ॥

每日沐浴、在两个黄昏时诵经的再生者,得享长寿;大王,成就真言者以绝食而达天界之巅。

13.92.15

स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलवासोभिर्वासांस्याभाणानि च ॥ १३.९२.१५ ॥

席地而卧者,有屋舍与床榻;以树皮与粗布为衣,亦有衣物与器皿。

13.92.16

शय्यासनानि यानानि योगयुक्ते तपोधने ।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥ १३.९२.१६ ॥

瑜伽精进的苦行者,拥有床榻、坐具与车乘;入火者必定在梵天界受到尊崇。

13.92.17

रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥ १३.९२.१७ ॥

舍弃诸味,此世便得福祉;舍弃肉食,众生必得长寿。

13.92.18

उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ १३.९२.१८ ॥

居于水中者成为人主;人中之最,诚实言者与诸神同乐。

13.92.19

कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया ।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥ १३.९२.१९ ॥

布施带来名声,不杀生带来健康;侍奉再生者则得王位,并获得丰厚的再生之身。

13.92.20

पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥ १३.९२.२० ॥

以施水之功得永恒的名声;而以施食之功,人们便能在欲望的享受中得到满足。

13.92.21

सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।
देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति ॥ १३.९२.२१ ॥

能安慰一切众生者,可脱离一切忧苦;侍奉诸神则得王位与天人之相。

13.92.22

दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत् ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ १३.९२.२२ ॥

施予灯光,人便目明而有智;施予可爱可观之物,便得记忆与强记之慧。

13.92.23

गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला ।
केशश्मश्रू धारंयतामग्र्या भवति सन्ततिः ॥ १३.९२.२३ ॥

施予香料与花鬘得大名声;对于保留须发者,则得最优秀的子嗣。

13.92.24

उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ १३.९२.२४ ॥

国王啊!行斋戒、受戒与灌顶,持守十二年者,即使超过英雄之所,也格外殊胜。

13.92.25

दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च ।
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ १३.९२.२५ ॥

施予男女仆人、饰物、田地与房屋,以及奉献给婆罗门的女儿,人中之牛啊,(人)便能获得(功德)。

13.92.26

क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥ १३.९२.२६ ॥

以祭祀与斋戒,婆罗多啊,人便升入天界,并获得吉祥的智慧;施予果实与花朵的人(也获得这些)。

13.92.27

सुवर्णशृङ्गैस्तु विराजितानां ।
गवां सहस्रस्य नरः प्रदानात्।
प्राप्नोति पुण्यं दिवि देवलोक-
मित्येवमाहुर्दिवि वेदसङ्घाः ॥ १३.९२.२७ ॥

施予一千头以金角装饰的牛,人在天界获得功德与天神之界;天界的吠陀集会如此说。

13.92.28

प्रयच्छते यः कपिलां सवत्सां ।
कांस्योपदोहां कनकाग्रशृङ्गीम्।
तैस्तैर्गुणैः कामदुघाऽस्य भूत्वा ।
नरं प्रदातारमुपैति सा गौः ॥ १३.९२.२८ ॥

施予带着小牛、配有铜制挤奶器、角尖镶金的赤褐色母牛者:此牛因种种功德为他化作如意牛,并来到施予她的人身边。

13.92.29

यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं प्राप्य स गोप्रदानात्।
पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र ॥ १३.९२.२९ ॥

母牛身上有多少根毛,他因施舍母牛便获得多少福果;他在来世度脱其子、孙以及直至第七代的全族。

13.92.30

सदक्षिणां काञ्चनचारुशृङ्गीं ।
कांस्योपदोहां द्रविणोत्तरीयाम्।
धेनुं तिलानां ददतो द्विजाय ।
लोका वसूनां सुलभा भवन्ति ॥ १३.९२.३० ॥

若有人将附带达叙那的、角为金色且美丽、有铜制挤奶器、以财富为上衣的母牛,连同芝麻布施给婆罗门,便容易获得婆苏神的诸界。

13.92.31

स्वकर्मभिर्मानवं संनिरुद्धं ।
तीव्रान्धकारे नरके पतन्तम्।
मंहार्णवे नौरिव वायुयुक्ता ।
दानं गवां तारयते परत्र ॥ १३.९२.३१ ॥

如同被风吹动的船只载人渡过大海,那被自身业力束缚、坠入幽暗地狱的人,牛的布施在来世将他渡过。

13.92.32

यो ब्रह्मदेयां तु ददाति कन्यां ।
भूमिप्रदानं च करोति विप्रे।
ददाति चान्नं विधिवच्च यश्च ।
स लोकमाप्नोति पुरंदरस्य ॥ १३.९२.३२ ॥

若有人将少女作为梵施献给婆罗门,行布施土地,并依法供养婆罗门饮食,他便获得因陀罗的世界。

13.92.33

नैवेशिकं सर्वगुणोपपन्नं ।
ददाति वै यस्तु नरो द्विजाय।
स्वाध्यायचारित्र्यगुणान्विताय ।
तस्यापि लोकाः कुरुषूत्तरेषु ॥ १३.९२.३३ ॥

若有人将具备一切美德、合宜的物品,施予具备诵习与品行之德的再生者,他也将得到北方俱卢的诸界。

13.92.34

धुर्यप्रदानेन गवां तथा वै ।
लोकानवाप्नोति नरो वसूनाम्।
स्वर्गाय चाहुस्तु हिरण्यदानं ।
ततो विशिष्टं कनकप्रदानम् ॥ १३.९२.३४ ॥

布施负重之牛与母牛,人便获得婆苏神的诸界。人们说,为求天界应施舍黄金;而施舍纯金比那更为殊胜。

13.92.35

छत्रप्रदानेन गृहं वरिष्ठं ।
यानं तथोपानहसम्प्रदाने।
वस्रप्रदानेन फलं सुरूपं ।
गन्धप्रदानात्सुरभिर्नरः स्यात् ॥ १३.९२.३५ ॥

施舍伞盖得到上好的住宅;施舍鞋履得到车乘;施舍衣物得到美好容貌之果;施舍香料,人便芬芳。

13.92.36

पुष्पोपगं वाऽथ फलोपगं वा ।
यः पादपं स्पर्शयते द्विजाय।
सश्रीकमृद्धं बहुरत्नपूर्णं ।
लभत्ययत्नोपगतं गृहं वै ॥ १३.९२.३६ ॥

若使婆罗门触碰开花或结果之树,此人不费力便得到一座兴旺丰饶、充满众多珍宝的住宅。

13.92.37

भक्ष्यान्नपानीयरसप्रदाता ।
सर्वान्समाप्नोति रसान्प्रकामम्।
प्रतिश्रयाच्छानसम्प्रदाता ।
प्राप्नोति तान्येव न संशयोऽत्र ॥ १३.९२.३७ ॥

施舍饮食、谷物、饮水与滋味者,随心所欲获得一切滋味;施舍住处与床榻者,也得到这些,此中无疑。

13.92.38

स्रग्धूपगन्धाननुलेपनानि ।
स्नानानि माल्यानि च मानवो यः।
दद्याद्द्विजेभ्यः स भवेदरोग-
स्तथाऽभिरूपश्च नरेन्द्रलोके ॥ १३.९२.३८ ॥

凡人施舍婆罗门花环、熏香、香料、膏油、沐浴用品与鲜花,便无病,并在王者之界中容貌俊美。

13.92.39

बीजैरशून्यं शयनैरुपेतं ।
दद्याद्गृहं यः पुरुषो द्विजाय।
पुण्याभिरामं बहुरत्नपूर्णं ।
लभत्यधिष्ठानवरं स राजन् ॥ १३.९२.३९ ॥

大王啊,施舍给婆罗门一座装满谷种、备有床榻、因功德而可喜、充满众多珍宝的住宅者,得到最好的居所。

13.92.40

सुगन्धचित्रास्तरणोपधानं ।
दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां पक्षवतीं मनोज्ञां ।
भार्यामयत्नोपगतां लभेत्सः ॥ १३.९२.४० ॥

若有人将饰有芳香彩色褥垫与枕头的床榻施予婆罗门,他不费力便能得到容貌美好、有家族扶持、令人喜爱的妻子。

13.92.41

पितामहस्यानवरो वीरशायी भवेन्नरः ।
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥ १३.९२.४१ ॥

若有人不逊于祖父,便可安卧于英雄之床;此外再无更高之事,至尊诸仙如此说。

13.92.42

तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥ १३.९२.४२ ॥

闻其所言,心中欢喜的俱卢之欢(般遮罗之子)不愿居于林居之所,渴望英雄之道。

13.92.43

ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ ।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ १३.९२.४३ ॥

于是人中雄牛、主上坚战对般遮罗诸子说:'愿祖父的那番话合乎你们的心意。'

13.92.44

ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ १३.९२.४४ ॥

于是,诸般遮罗子与名声显赫的德罗波蒂都依从坚战之言,说:'很好,就这样吧。'