摩诃婆罗多 · 章 13.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.94.1
यानीमानि बहिर्वेद्यां दानानि परिचक्षते ।
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥ १३.९४.१ ॥
在祭坛之外所说的这些布施中,您认为哪一种布施更为殊胜,俱卢之牛?
13.94.2
कौतूहलं हि परमं तत्र मे विद्यते प्रभो ।
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥ १३.९४.२ ॥
主啊,我对此非常好奇。请告诉我那种布施既已给出,便跟随施主的布施。
13.94.3
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः ।
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ १३.९४.३ ॥
使一切众生无畏,在患难中施以恩惠,并把所求之物给予口渴而请求的人。
13.94.4
भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते ।
दत्तं दातारमन्वेति तद्दानं भरतर्षभ ॥ १३.९४.४ ॥
供养子女与妻子的布施,被称为最殊胜。那已经给出的布施跟随施主,婆罗多之牛啊。
13.94.5
हिरण्यदानं गोदानं पृथिवीदानमेव च ।
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात् ॥ १३.९४.५ ॥
金布施、牛布施,以及地布施,这些确实是清净的,它们甚至能使人超越恶业。
13.94.6
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा ।
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥ १३.९४.६ ॥
人中之虎啊,应当常以这些布施给予善人;布施确实能使人脱离罪恶,此无疑问。
13.94.7
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ १३.९४.७ ॥
世上所最珍爱之物,家中所珍视之物,都应施与有德之人;欲求不朽果报者当如此行。
13.94.8
प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा ।
प्रियो भवति भूतानामिह चैव परत्र च ॥ १३.९४.८ ॥
给予喜乐、施行喜乐之人,常得可喜之物;他在今世与来世,都为众生所爱。
13.94.9
याचमानमभीमानादनासक्तमकिञ्चनम् ।
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥ १३.९४.९ ॥
युधिष्ठिर啊!凡对无傲慢、无执著、一无所有而求乞之人,不依其力尊敬者,便是残忍之人。
13.94.10
अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ १३.९४.१० ॥
即便敌人前来,卑微而寻求庇护,若于其困厄之时施以恩惠,此人实为人中之最。
13.94.11
कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते ।
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः ॥ १३.९४.११ ॥
若有人瘦弱、博学,生计耗尽而陷于困苦,却不为之解除饥饿,此人不配称为与人相等。
13.94.12
क्रियानियमितान्साधुन्पुत्रदारैश्च कर्शितान् ।
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत् ॥ १३.९४.१२ ॥
俱盾之子啊!那些以礼仪自律的善人,以及因妻儿而消瘦的人,不会乞求;应以一切方法邀请他们。
13.94.13
आशिषं ये न देवेषु न च मर्त्येषु कुर्वते ।
अर्हन्तो नित्यसत्वस्था यथालब्धोपजीविनः ॥ १३.९४.१३ ॥
不向诸神或凡人施予祝福者,他们是值得尊敬的人,常住于善性之中,依所得而生活。
13.94.14
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत ।
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च ॥ १३.९४.१४ ॥
婆罗多,你要提防那些如毒蛇般的人。适当地询问之后,以享受之物供养他们,并保护他们。
13.94.15
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः ।
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः ॥ १३.९४.१५ ॥
库鲁的后裔啊,你要常以备妥的居所、仆役与器物邀请他们,这些居所为一切众生带来安乐。
13.94.16
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर ।
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥ १३.९४.१६ ॥
優迪施提爾啊,若他們以為這是本分,接受了以信心淨化的布施,那他們便是奉法、行福業之人。
13.94.17
विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः ।
गूढस्वाध्यायतपसो ब्राह्म्णाः संशितव्रताः ॥ १३.९४.१७ ॥
以学问沐浴、以誓戒沐浴,依靠法而生活,秘密诵习与苦行,誓愿坚定的婆罗门。
13.94.18
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च ।
यत्करिष्यसि कल्याणं तत्ते लोके युधाम्पते ॥ १३.९४.१८ ॥
对那些清净、自制、专一于自己妻子的婆罗门,你所行的善举,战士之主啊,将在此世归于你。
13.94.19
यथाऽग्निहोत्रं सुहुतं सायम्प्रातर्द्विजातिना ।
तथा भवति दत्तं वै विद्वद्भ्यो यत्कृतात्मना ॥ १३.९४.१९ ॥
如同再生者早晚恰当供奉的火祭,必有果报,自制之人施予智者的布施亦必有果报。
13.94.20
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥ १३.९४.२० ॥
孩子,这是你广大的祭祀,以信心净化,并伴随达克希纳;愿它对施者而言超越一切祭祀而延续。
13.94.21
निवापो दानसदृशः सदृशेषु युधिष्ठिर ।
निवेदयन्पूजयन्वै तेष्वानृण्यं निगच्छति ॥ १३.९४.२१ ॥
优ṣṭhira啊,献给配得上者的尼瓦帕如同布施;向他们奉献并恭敬,人便真正脱离对他们的债务。
13.94.22
य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि ।
त एव नः पूज्यतमा ये चापि प्रियवादिनः ॥ १३.९४.२२ ॥
那些不如此愤怒、即使对一根草也不起贪心、又说话和悦的人,才是我们最应尊敬的人。
13.94.23
ये नो न बहुमन्यन्ते न प्रवर्तन्ति याचने ।
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम् ॥ १३.९४.२३ ॥
那些不太敬重我们、也不从事乞求的人,应当像儿子一样加以保护;向他们致敬,也向他们施以无畏。
13.94.24
ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये ।
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति तेष्वपि ॥ १३.९४.२४ ॥
那些专注于柔和法的祭司、家庭司祭与师长,即使是混合着刹帝利本性的火焰般威力,也会在他们身上平息。
13.94.25
ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर ।
ब्राह्मणान्मास्म पर्यासीर्वासोभिरशनेन च ॥ १३.९४.२५ ॥
尤提斯提拉啊,不要因为想着“我是强大的主宰,我是国王”而轻慢婆罗门,无论是衣物还是食物。
13.94.26
यच्छोभार्थं बलार्तं वा वित्तमस्ति तवानघ ।
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ १३.९४.२६ ॥
无罪的人啊,你所拥有的财富,无论是为了荣耀还是为了力量,你都应当用它来尊敬婆罗门,并履行自己的本分。
13.94.27
नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम् ।
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥ १३.९४.२७ ॥
对婆罗门,应按照他们的真实身份和行为向他们致敬;让他们因你而快乐,如同儿子一般,满心欢喜,各随其意。
13.94.28
को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम् ।
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ १३.९४.२८ ॥
库鲁族中最优秀的人啊,除了你,还有谁配得上断绝那些恩惠无尽、只求少许便知足的朋友的生计呢?
13.94.29
यथाऽपत्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः ॥ १३.९४.२९ ॥
正如依靠子嗣是世间妇女的永恒法则,那始终是她们唯一的依靠,别无他途;我们亦然,二生者便是我们的归宿。
13.94.30
यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः ।
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ १३.९४.३० ॥
亲爱的孩子,若婆罗门未受我们尊敬而离我们而去,他们看到刹帝利身上常存的那种残酷之行,——
13.94.31
अवेदानामकीर्तीनामलोकानामयज्विनाम् ।
कोनु स्याज्जीवितेनार्थस्तद्धिनो ब्राह्मणाश्रयम् ॥ १३.९४.३१ ॥
对于无吠陀、无名声、无世界、不祭祀之人,生命有何意义?对我们而言,生命依赖于婆罗门。
13.94.32
अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम् ।
राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह।
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥ १३.९४.३२ ॥
在此我将为你讲述永恒的法。国王啊,古时刹帝利侍奉婆罗门,吠舍侍奉刹帝利,首陀罗侍奉吠舍,天启圣典如是说。
13.94.33
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ।
संस्पर्शपरिचर्यसल्तु वैश्येन क्षत्रियेण च ॥ १३.९४.३३ ॥
首陀罗应当远远地侍奉婆罗门,如同侍奉燃烧的火焰;而吠舍与刹帝利则可近身侍奉,甚至以接触的方式。
13.94.34
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ।
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥ १३.९४.३४ ॥
侍奉那些性情温和、品行真实、守护真理之法的再生者;但当他们愤怒时,应如接近毒蛇一般接近他们。
13.94.35
अपरेषां परेषां च परेभ्यश्चापि ये परे ।
क्षत्रियाणां प्रतपतां तेजसा च बलेन च।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥ १३.९४.३५ ॥
那些以威力与力量光耀的刹帝利,以及其他人,乃至比他们更高的人,其光芒与苦行,唯有在婆罗门面前才得平息。
13.94.36
न मे पिता प्रियतरो न त्वं तात तथा प्रियः ।
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥ १३.९४.३६ ॥
孩子啊,我的父亲对我而言也不如此珍贵,你也不如此珍贵。国王啊,我父亲的父亲、我的自我,乃至我的生命,也都不如此珍贵。
13.94.37
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन ।
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ १३.९४.३७ ॥
大地上没有比你更亲爱的人,而且,婆罗多族的雄牛啊,婆罗门比你更让我珍视。
13.94.38
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन ।
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः ॥ १३.९४.३८ ॥
哦,般度之子,我所说的是真实的。愿凭这份真实,我前往善天王所在的那些世界。
13.94.39
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् ।
तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥ १३.९४.३९ ॥
愿我能看见被婆罗门尊崇的善人们的清净世界。亲爱的孩子,我必须前往那里,白天,也是长久的。
13.94.40
सोहमेतादृशान्लोकान्दृष्ट्वा भरतसत्तम ।
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ १३.९४.४० ॥
婆罗多族中最优秀的人啊,见到这样的世界,国王啊,我对于我为婆罗门所做之事,并不懊悔。