Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.95.1

यौ च स्यातां चरणेनोपपन्नौ ।
यौ विद्यया सदृशौ जन्मना च।
ताभ्यां दानं कतरस्मै विशिष्ट-
मयाचमानाय च याचते च ॥ १३.९५.१ ॥

在两位德行兼备、学识与出身相同的人中,布施给不乞求的人与给乞求的人,哪一个更为殊胜?

13.95.2

श्रेयो वै याचतः पार्थ दानमाहुरयाचते ।
अर्हत्तमो वै धृतिमान्कृपणादकृतात्मनः ॥ १३.९५.२ ॥

阿周那啊,人们说布施给乞求者是好的;但不乞求的人最为应受布施、最为坚定,不同于贪吝而心无节制之人。

13.95.3

क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः ।
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥ १३.९५.३ ॥

刹帝利坚守护卫之职;婆罗门坚守不求非分之利。坚定、博学、知足的婆罗门使诸神欢喜。

13.95.4

याच्यमाहुरनीशस्य अतिहारं च भारत ।
उद्वेजयन्ति याचन्ति यदा भूतानि दस्युवत् ॥ १३.९५.४ ॥

婆罗多的后裔啊,人们说,向无力者索取、又索取过多,便是乞求;众生乞求时,便如盗贼一般扰动他人。

13.95.5

म्रियते याचमानो वै तमनु म्रियतेऽददत् ।
ददत्संजीवयत्येनमात्मानं च युधिष्ठिर ॥ १३.९५.५ ॥

乞求者实际上已死,不给予者随之而死;而施予者使他和自己都重获生机,阿育那——不,是,般度之子阿耶湿吉啊——即坚战啊。

13.95.6

आनृशंस्यं परो धर्मो याचते यत्प्रदीयते ।
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत् ॥ १३.९५.६ ॥

慈悲是至高的法:乞求时所给予的,以及那些虽不乞求却在受苦的人,应当以一切方法去邀请(救助)他们。

13.95.7

यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः ।
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥ १३.९५.७ ॥

若这样的优秀再生者居住在国中,你应当用心辨认他们,如同被灰烬覆盖的火。

13.95.8

तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि ।
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः ॥ १३.९५.८ ॥

他们因苦行而光辉,若不受尊敬,即便大地也能焚毁,俱卢之后;但这样的人正值得敬重。

13.95.9

पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ।
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तपः ॥ १३.९५.९ ॥

具备知识、智慧、苦行与瑜伽的人确实值得尊敬;敌人的焚烧者啊,应向这些婆罗门致敬。

13.95.10

ददद्बहुविधान्देयानुपच्छन्दयते च तान् ॥ १३.९५.१० ॥

施予种种应当施予的东西,也向他们恭请。

13.95.11

यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम् ।
विद्यावेदव्रतवति तद्दानफलमुच्यते ॥ १३.९५.११ ॥

早晚妥善献祭的火供所得之果,被说为施予具备学识、吠陀与戒行者所得之果。

13.95.12

विद्यावेदव्रतस्नाता न व्यापाश्रयजीविनः ।
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥ १३.९५.१२ ॥

沐浴于学识、吠陀与戒行之中,不靠世俗依附为生,修习与苦行隐而不显,坚守誓戒的婆罗门。

13.95.13

कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः ।
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान् ॥ १३.९५.१३ ॥

俱卢之子啊,以准备妥善的悦目居所、侍从与器物,以及其他所欲之物,邀请最优秀的再生者。

13.95.14

अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर ।
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥ १३.९५.१४ ॥

坚战啊,愿他们接受你怀着信心所献的供养,以为这是应尽之责——那些知法且洞察细微的人。

13.95.15

अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् ।
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ १३.९५.१५ ॥

你的婆罗门们用过餐后,带着余食回到了各自的家中吗?他们的妻子正如农夫期盼雨云一般期盼着他们。

13.95.16

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः ।
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत ॥ १३.९५.१६ ॥

孩子啊,在晨祭时,恪守戒律的梵行学生婆罗门,进食之时,正是在使三火欢喜。

13.95.17

माध्यंदिनं ते सवनं ददतस्तात वर्तताम् ।
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥ १३.९५.१७ ॥

孩子啊,愿你在施舍中持续你的午间祭祀;愿因你布施牛、金与衣物,因陀罗对你欢喜。

13.95.18

तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर ।
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥ १३.९५.१८ ॥

坚战啊,你的第三祭是毗湿伐提婆之祭,即你奉献给诸神、祖先与婆罗门的供养。

13.95.19

अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः ।
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते ॥ १३.९५.१९ ॥

对一切众生不害,处处分享,克制自身,舍弃,坚定与真实——这些便是你的终礼浴(阿婆会陀)。

13.95.20

एथ ते चिततो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम् ॥ १३.९५.२० ॥

你这场精心筹备的祭祀,以信仰净化,并附有达克希那布施,在一切祭祀中最为殊胜。亲爱的孩子,愿它永远持续下去。