摩诃婆罗多 · 章 13.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.97.1
इदं देयमिदं देयमितीयं श्रुतिचोदनात् ।
बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम् ॥ १३.९७.१ ॥
“此物应当布施,此物应当布施”——依据天启经典的教导如此。国王有许多可以布施的东西;那么最殊胜的布施是什么呢?
13.97.2
अति दानानि सर्वाणि पृथिवीदानमुच्यते ।
अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान् ॥ १३.९७.२ ॥
在一切布施之上,宣说的是布施土地;因为大地不动、不坏,是此世中挤出最高愿望的乳牛。
13.97.3
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा ।
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ १३.९७.३ ॥
在一切众生中,施地者如同那乳牛,能给予衣服、珍宝、牲畜、稻米与大麦;他将长久繁荣。
13.97.4
यावद्भूमेरायुरिह तावद्भूमिद एधते ।
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥ १३.९७.४ ॥
只要大地的寿命存在,施地者便长久繁荣。般度之子啊,此世中没有比布施土地更殊胜的了。
13.97.5
अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम् ।
भूमिमेव ददुः सर्वे भूमिं ते भुञ्जते जनाः ॥ १३.९७.५ ॥
我们听说,所有人即便布施一点点土地;而布施整片土地的人,才能享有这大地。
13.97.6
स्वकर्मैवोपजीवन्ति नरा इह परत्र च ।
भूमिः पतिं महादेवी दातारं कुरुते प्रियम् ॥ १३.९७.६ ॥
人们在此世与来世,只依靠自己的业而生活。大地,大天女,使其布施者成为她所爱的夫君。
13.97.7
य एतां दक्षिणां दद्यादक्षयां राजसत्तम ।
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ॥ १३.९७.७ ॥
诸王之最!布施此不尽之施(土地)者,再得人身,便成为大地之主。
13.97.8
यथा दानं तथा भोग इति धर्मेषु निश्चयः ।
सङ्ग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमांम् ॥ १३.९७.८ ॥
施与如何,享受便如何——这是法中的定论。或于战阵舍弃此身,或布施此大地。
13.97.9
इत्येतत्क्षत्रबन्धूनां वदन्ति परमाशिषः ।
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥ १३.९७.९ ॥
刹帝利的亲族如此说出这至高的祝福;我们听闻,已经布施的大地能净化施主。
13.97.10
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम् ।
सैव पापं प्लावयति सैव पापात्प्रमोचयेत् ॥ १३.९७.१० ॥
即使行为有罪、杀害婆罗门或说谎之人——这大地正能洗去他的罪过,使他脱离罪业。
13.97.11
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।
पृथिवीं नान्यदिच्छन्ति पावनं जगती यतः ॥ १३.९७.११ ॥
即便是有罪的国王所施,善人也会接受;他们所求的,只有这片大地,因为这世间大地能够清净。
13.97.12
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।
दानं वाऽप्यथवाऽदानं नामास्याः प्रथमप्रियम् ॥ १३.९७.१२ ॥
这是女神的秘密而永恒的名字:「爱施」(Priyadattā)。无论是否布施,她最先受爱的名字便是此名。
13.97.13
य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः ।
पृथिव्यामेतदिष्टं स राजा राज्यमितो व्रजेत् ॥ १३.९७.१३ ॥
若地上之主将此地施与智者,便在大地上成为受爱戴的君王,从此得享王国。
13.97.14
पुनश्चासौ जनिं प्राप्य राजवत्स्यान्न संशयः ।
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ १३.९७.१४ ॥
他再次获得生命,便如国王一般,这毫无疑问。因此,地上之主得到大地后,应当将其施与婆罗门。
13.97.15
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन ।
न च वस्त्रेणि वा गूहेदन्तर्धानेन वा चरेत् ॥ १३.९७.१५ ॥
非地上之主者,不可以任何方式占据土地;不可以布匹遮盖它,也不可隐身游行。
13.97.16
ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः ।
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ॥ १३.९७.१६ ॥
其他想要土地的人也应如此行事,毫无疑问。夺取善人之地者,并不能得到土地。
13.97.17
भूमिं दत्त्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम् ।
प्रेत्य चेह च धर्मात्मा सम्प्राप्नोति महद्यशः ॥ १३.९७.१७ ॥
将土地施与善人,便得到最上等的土地;死后及此世,行法之人亦获大名。
13.97.18
एकाहारकरीं दत्त्वा षष्ठिसाहस्रमूर्ध्वगः ।
तावत्या हरणे पृथ्व्या नरकं द्विगुणोत्तरम् ॥ १३.९७.१८ ॥
施与一头可供一餐食用之牛的人,将上升六万年;然而夺取同样多的土地,地狱则加倍更甚。
13.97.19
यस्य विप्रास्तु शंसन्ति साधोर्भूमिं सदैव हि ।
न तस्य शत्रवो राजन्प्रशंसन्ति वसुन्धराम् ॥ १३.९७.१९ ॥
婆罗门总是称赞善人以土地布施之人,王啊,连他的敌人也称赞大地。
13.97.20
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः ।
अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥ १३.९७.२० ॥
人因生计所迫而犯下任何罪过,即使只布施牛皮大小的土地,他也得以清净。
13.97.21
येऽपि सङ्गीर्णाकर्माणो राजानो रौद्रकर्मिणः ।
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥ १३.९७.२१ ॥
即使对于行为混杂、做事残暴的国王,也应宣说土地布施是至高的清净之法。
13.97.22
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः ।
यो यजेताश्वमेधेन दद्याद्वा साधवे महीम् ॥ १३.९७.२२ ॥
古人始终认为这之间差别甚微:行马祠的人,或将大地布施给善人的人。
13.97.23
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः ।
अशंक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ १३.९७.२३ ॥
即使智者在行善之后仍有疑虑,唯此一事,即土地布施,乃是至上;此中无疑。
13.97.24
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत् ॥ १३.९७.२४ ॥
金、银、衣物、宝石、珍珠与财宝,智慧极高的人在布施大地时,连同这一切一并布施。
13.97.25
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता ।
गुरुदैवतपूजा च एता वर्तन्ति भूमिदम् ॥ १३.९७.२५ ॥
苦行、祭祀、圣学、良好品行、无贪、诚实守信,以及敬奉师长与诸神——这些都存在于施予土地者之中。
13.97.26
भर्तुनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ १३.९७.२६ ॥
那些为主人的至善而献身、在战场上舍命而亡、已升入梵天世界成为悉地者,也不能超越施予土地者。
13.97.27
यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा ।
अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ १३.९७.२७ ॥
犹如母亲总以乳汁养育自己的孩子,大地也以一切滋味恩养施予者。
13.97.28
मृत्युर्वैकिंकरो दण्डस्तापो वह्नेः सुदारुणः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ १३.९७.२८ ॥
死神、阎摩的执杖、火的酷烈灼热,以及伐楼那可怖的索套,都不会靠近施予土地者。
13.97.29
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः ।
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥ १३.९७.२९ ॥
心志平静之人施予大地,便能使居于祖先界的先祖与居于天界的诸神获得满足。
13.97.30
कृशाय म्रियमाणाय वृत्तिग्लानाय सीदते ।
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ १३.९७.३० ॥
人若将能维持生计的土地施予那瘦弱、将死、因失去生计而困顿、正在沉沦的人,便成为真正的施主。
13.97.31
यथा धावति गौर्वत्सं स्रवन्ती वत्सला पयः ।
एवमेव महाभाग भूमिर्भरति भूमिदम् ॥ १३.९७.३१ ॥
如同母牛奔向小牛,因慈爱而流出乳汁,同样,大福之人啊,大地也养育施地之人。
13.97.32
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि ।
सोदकं वाऽपि शरणं तथा भवति कामदः ॥ १३.९७.३२ ॥
施予以犁耕作、带有种子和果实,或甚至带有水的土地,它便成为庇护之所,并能满足愿望。
13.97.33
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् ।
नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥ १३.९७.३३ ॥
人若将土地施予品行端正、奉持圣火、持守清净戒律的婆罗门,便不会前往阎摩的住所。
13.97.34
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते ।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते ॥ १३.९७.३४ ॥
如同月亮每日渐盈,施地之福也随每一季收成而增长。
13.97.35
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः ।
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ १३.९७.३५ ॥
此处古代智者诵说大地所唱的诗句;闻之后,嘉摩达格尼之子便将大地施予迦叶波。
13.97.36
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ ।
अस्मिँल्लोके परे चैव तद्दत्तं जायते पुनः ॥ १३.९७.३६ ॥
“取我,予我,施予我,你将得到我”——此世与彼世,那施舍都会再次结出果实。
13.97.37
य इमां व्याहृतिं वेद ब्राह्मणो वेदसम्मिताम् ।
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ १३.९७.३७ ॥
知晓此与吠陀等同的语音(vyāhṛti)的婆罗门,在行施食祭(śrāddha)、祭品被奉献时,便得证梵性。
13.97.38
कृत्यानामभिशप्तानामरिष्टशमनं महत् ।
प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश ॥ १३.९७.३८ ॥
对于受巫术与诅咒所害者,这是消除灾厄的大赎罪;布施大地者可使两边十代人得以清净。
13.97.39
पुनाति य इदं वेद वेदवादं तथैव च ।
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥ १३.९७.३९ ॥
知此及吠陀教义者得以清净。大地本身即一切众生之本性,被认为是永恒的。
13.97.40
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् ।
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च तां ॥ १३.९७.४० ॥
为国王灌顶之后,应使他听诵此传承,使其闻后布施大地,而不以不当之道接受它。
13.97.41
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयः ।
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ १३.९७.४१ ॥
无疑,此事全部关乎婆罗门与国王两方的利益。精通法(dharma)的国王,首先便是兴盛的标志。
13.97.42
अथ येषामधर्मज्ञो राजा भवति नास्तिकः ।
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च ॥ १३.९७.४२ ॥
若其国王不知法(dharma)而为无信之人,则其民既不能安然醒来,也不能安然入睡。
13.97.43
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः ।
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥ १३.९७.४३ ॥
因其恶行,人民常常惶恐不安;许多安康与保障不会进入他的国家。
13.97.44
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः ।
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ १३.९७.४४ ॥
然而,若其国王智慧而有德,人民便安然醒来,安然入睡。
13.97.45
तस्य राज्ञः शुभे राज्ये कर्मभिर्निर्वृता नराः ।
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ १३.९७.४५ ॥
在那位君王吉祥的国度里,人们因各自的行为而满足;借着安康与雨水,他们凭自己的作为而兴盛。
13.97.46
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् ।
स दाता स च विक्रान्तो यो ददाति वसुन्धरां ॥ १३.९७.४६ ॥
能布施大地者,便是高贵之人,是真正的男子,是亲族,是行功德者,是施主,也是勇敢者。
13.97.47
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ।
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥ १३.९७.४७ ॥
世上的人以光辉闪耀如太阳,那便是把丰饶的大地施给精通吠陀的婆罗门者。
13.97.48
यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले ।
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ १३.९७.४८ ॥
如同撒在地表的种子会生长,凭借布施土地而得的愿望也会生长。
13.97.49
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलिपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥ १३.९७.४९ ॥
太阳、伐楼那、毗湿奴、梵天、月神、火神,以及持三叉戟的尊神,都欢喜地迎接布施土地的人。
13.97.50
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च ।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥ १३.९७.५० ॥
人生于大地,也终归于大地。这由大地之德构成的四重世界,便是如此。
13.97.51
एषा माता पिता चैव जगतः पृथिवीपते ।
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥ १३.९७.५१ ॥
此大地便是世界的母亲与父亲,大地之主啊。人民之主啊,世上没有任何存在能与之相比。
13.97.52
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ १३.९७.५२ ॥
关于此事,人们也引用一段古老的传说,般度之子啊:那是伽巫神(布利哈斯巴蒂)与因陀罗的对话。
13.97.53
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता ।
मघवा वाग्विदांश्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥ १३.९७.५३ ॥
因陀罗,即摩伽婆,举行了百次祭祀并施以大量供奉之后,向善言者中最优秀的伽巫神请教了此事。
13.97.54
भगवन्केन दानेन स्वर्गतः सुखमेधते ।
यदक्षयमहार्यं च तद्ब्रूहि वदतांवर ॥ १३.९७.५४ ॥
尊者啊,人升天之后,借由哪种布施而在幸福中兴旺?那不灭而至上的又是什么?善言者中最优秀的人啊,请告诉我。
13.97.55
इत्युक्तृः स सुरेन्द्रेण ततो देवपुलोहितः ।
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम् ॥ १३.९७.५५ ॥
天神之王如此询问后,诸神的祭司、大光明的牟诃思波提回答了百祭(因陀罗)。
13.97.56
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् ।
विद्यादानं च कन्यानां दानं पापहरं परम्।
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ १३.९७.५६ ॥
施舍黄金、施舍牛、施舍土地、施舍知识以及施舍少女——这些是最上的、能除罪的布施。杀弗栗多者啊,大智者若行此布施,便脱离一切罪过。
13.97.57
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो ।
विशिष्टमिति मन्येऽहं यता प्राहुर्मनीषिणः ॥ १३.९७.५७ ॥
天神之王啊,主啊,没有比施舍土地更高的布施。我认为它最为殊胜,因为智者们是这样说的。
13.97.58
ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः ।
कुलस्त्रीणां परिभवे मृतास्ते भूमिपैः समाः ॥ १३.९७.५८ ॥
为婆罗门、为牛、在国土毁灭之时、为主人,或在家族妇女受辱之时而死的人,与诸王相等。
13.97.59
ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः ।
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥ १३.९७.५९ ॥
凡在战斗中被杀、渴望战场而升天的英雄,都不能超越施舍土地之人,天神中最殊胜者啊。
13.97.60
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्राह्मलोकगता युक्ता नातिक्रामन्ति भूमिदम् ॥ १३.९७.६० ॥
为主君的至善而奋发、舍弃生命战死、往生梵天界的人,也不能超越施舍土地之人。
13.97.61
पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः ।
एकादश ददद्भूमिं परित्रातीह मानवः ॥ १३.९७.६१ ॥
前面的五人和其他六人已到达大地。在此布施土地的人能救度十一代(祖先)。
13.97.62
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर ।
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ १३.९७.६२ ॥
啊,补罗陀罗,布施满布珍宝之大地者,脱离一切污垢,在天界受到尊崇。
13.97.63
महीं स्फीतां ददद्राजन्सर्वकामगुणान्विताम् ।
राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ १३.९७.६३ ॥
啊,国王,布施具备一切所愿功德的繁盛大地者,成为王中之王;那是最上的布施。
13.97.64
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति ।
सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ १३.९७.६४ ॥
布施充满一切所愿的迦叶波女(大地)者,一切众生都认为:‘他把它施给我’,啊,婆娑。
13.97.65
सर्वकामदुघां धेनुं सर्वकामगुणान्विताम् ।
ददाति यः सहस्राक्ष स्वर्गं याति स मानवः ॥ १३.९७.६५ ॥
啊,千眼者,布施一切所愿之牛、具备一切所愿功德者,此人便升往天界。
13.97.66
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा ।
सरितस्तपर्यन्तीह सुरेन्द्र वसुधाप्रदम् ॥ १३.९७.६६ ॥
啊,诸神之王,流淌蜂蜜与酥油、携带牛奶与凝乳的河流,在此使布施大地者得到满足。
13.97.67
भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात् ।
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥ १३.९७.६७ ॥
国王因布施土地而脱离一切罪过;实际上,没有任何其他布施能超过布施土地。
13.97.68
ददाति यः समुन्द्रान्तां पृथिवीं शस्त्रनिर्जिताम् ।
तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ १३.९७.६८ ॥
凡布施以武力征服、直至海边的大地者,人们在此世会称颂他,只要这大地之牛承载着大地。
13.97.69
पुण्यामृद्धिरसां भूमिं यो ददाति पुरंदर ।
न तस्य लोकाः क्षीयन्ते भूमिदानगुणान्विताः ॥ १३.९७.६९ ॥
因陀罗啊,凡布施神圣、富饶而丰润之大地者,其具足布施土地功德的诸界永不衰败。
13.97.70
सर्वदा पार्थिवेनेह सततं भूतिमिच्छता ।
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सुनां ॥ १३.९७.७० ॥
因陀罗啊,在此世常求富饶的国王,以及求乐之人,应当依规则总是把土地布施给合适的受施者。
13.97.71
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये ।
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ १३.९७.७१ ॥
人即使犯了罪,布施土地给婆罗门后,便能摆脱那罪过,如同蛇脱去旧皮一般。
13.97.72
सागरान्सरितः शैलान्काननानि च सर्वशः ।
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ १३.९७.७२ ॥
因陀罗啊,凡布施整个大地,包括海洋、河流、山岳与森林者,便是将这一切一并布施了。
13.97.73
तटाकान्युदपानानि स्रोतांसि च सरांसि च ।
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ १३.९७.७३ ॥
池塘、水井、溪流与湖泊,以及各种油脂和汁液——施予大地者,便是施予了这一切。
13.97.74
ओषधीर्वीर्यसम्पन्नानगान्पुष्पफलान्वितान् ।
काननोपलशैलांश्च ददाति वसुधां ददत् ॥ १३.९७.७४ ॥
具有药力的草药、满载花果的树木、森林、岩石与山峦——施予大地者,便是施予了这一切。
13.97.75
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः ।
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ १३.९७.७५ ॥
即使举行了火祭(Agniṣṭoma)等祭祀并给予丰厚的祭司酬金,人也得不到布施土地所得的果报。
13.97.76
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् ।
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥ १३.९७.७६ ॥
施予者福泽十代;而夺取并抛弃先前所施之地者,则毁灭十代,并堕入地狱。
13.97.77
न ददाति प्रतिश्रुत्य दत्त्वाऽपि च हरेत्तु यः ।
स बद्धो वारुणैः पाशैस्तप्यते मृत्युसासनात् ॥ १३.९७.७७ ॥
许诺却不施予,或施予之后又收回者,将被伐楼那的绳索缚住,并依死神之命受苦。
13.97.78
आहिताग्निं सदायज्ञं कृशवृत्तिं प्रियातिथिम् ।
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ १३.९७.७८ ॥
供养那位守持圣火、常行祭祀、过着简朴生活、喜爱宾客的优秀再生者的人,不会走近阎摩。
13.97.79
ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात्पुरंदर ।
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥ १३.९७.७९ ॥
补兰陀罗啊,国王应对婆罗门无所亏欠,并应拯救其他种姓中憔悴孱弱之人。
13.97.80
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप ।
ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन ॥ १३.९७.८० ॥
诸神之主啊,诸神中最优秀者,任何人都不可夺取被生计困窘的婆罗门所触摸之地。
13.97.81
यथाश्रु पतितं तेषां दीनानामथ सीदताम् ।
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥ १३.९७.८१ ॥
正如那些困苦受难之人落下的泪水,婆罗门的田地被夺取时,三代之族便会灭亡。
13.97.82
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः ।
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ १३.९७.८२ ॥
凡将被逐出国土的国王重新扶立者,千眼啊,其居所在天界之上受人尊崇。
13.97.83
सुनिर्मितां सुविक्रीतां सुभृतां स्थापयेन्नृप ।
इक्षुभिः सन्ततां भूमिं यवगोधूमसालिनीम् ॥ १३.९७.८३ ॥
国王啊,应当安置那经过良好营建、良好购得、良好维护、遍布甘蔗、盛产大麦与小麦的土地。
13.97.84
गोश्ववाहनपूर्णां वा यो ददाति वसुन्धराम् ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते ॥ १३.९७.८४ ॥
若有人施舍充满牛、马与车辆的大地,便能脱离一切罪恶,在天界受人尊崇。
13.97.85
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् ।
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत ॥ १३.९७.८५ ॥
施与充满宝藏、装饰着一切珍宝的大地者,得到不朽的世界;这便是他的大地祭(bhūmi-satra)。
13.97.86
विधूय कलुषं सर्वं विरजाः सम्मतः सताम् ।
लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ॥ १३.९७.८६ ॥
抖落一切污垢、纯净无瑕、受善人尊敬者;施与大地者,在世间受善人尊崇。
13.97.87
यथाऽप्सु पतितः शक्र तैलबिन्दुर्विसर्पति ।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते ॥ १३.९७.८७ ॥
帝释啊,如油滴落入水中便会扩散,施与土地之功德在每一季庄稼中增长。
13.97.88
ये रणाग्रे महीपालाः शूराः समितिशोभनाः ।
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ १३.९७.८८ ॥
帝释啊,那些在战阵前沿英勇、在战斗中闪耀、面对敌人而被杀的君王,前往梵天之界。
13.97.89
नृत्तगीतपरा नार्यो दिव्यमाल्यविभूषिताः ।
उपतिष्ठन्ति देवेन्द्र यथा भूमिप्रदं दिवि ॥ १३.९७.८९ ॥
诸神之主啊,专注于舞蹈与歌唱、以天界花环装饰的女子,在天上侍奉施与大地者。
13.97.90
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः ।
यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ १३.९७.९० ॥
若在此依法将大地恰当地施与婆罗门(再生者),便在天界受诸天与乾达婆供养,安乐欢喜。
13.97.91
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः ।
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम् ॥ १३.९७.९१ ॥
天神之主啊!在梵天界,佩戴天界花环的百位天女侍奉施舍土地之人。
13.97.92
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम् ।
शङ्खं भद्रासनं छत्रं वराश्वा वरवाहनम् ॥ १३.९७.९२ ॥
施舍土地之人身边常有功德相随:法螺、吉祥座、伞盖、良马及上好的车乘。
13.97.93
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ।
आज्ञा सदाऽप्रतिहता जयशब्दा वसूनि च ॥ १३.९७.९३ ॥
因施舍土地,便有鲜花、金堆、永不受阻的号令、胜利的欢呼以及财富。
13.97.94
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ।
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाद्वलाः ॥ १३.९७.९४ ॥
施舍土地的功德之果是天界,啊,毁城者!那里有金花草药、吉祥草、黄金与青草。
13.97.95
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ १३.९७.९५ ॥
施舍之人可得产生甘露之土地。
13.97.96
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ।
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥ १३.९७.९६ ॥
没有与施舍土地相等的布施,没有与母亲相等的师长,没有与真实相等的法,也没有与布施相等的宝藏。
13.97.97
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् ।
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥ १३.९७.९७ ॥
因陀罗听了安吉罗娑的这番话,便把这充满财宝与珍宝的大地施予了安吉罗娑。
13.97.98
य इदं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् ।
न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ १३.९७.९८ ॥
在祭祀祖先的圣礼(śrāddha)上,若让人诵读这首赞颂施予大地之功德的诗句,其应得之份便不属于罗刹,也不属于阿修罗。
13.97.99
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः ।
तस्माच्छ्राद्धेष्विदं विद्वान्भुञ्जतः श्रावयेद्द्विजान् ॥ १३.९७.९९ ॥
施予祖先之物便成为不坏之物,此无疑义。因此,智者应在祭祀祖先的圣礼中,向正在用餐的再生族人诵读此文。
13.97.100
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ ।
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ १३.९७.१०० ॥
无罪者啊,婆罗多中的猛虎,我已这样告诉你:这是一切布施中最殊胜的。你还想听什么?