摩诃婆罗多 · 章 13.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.98.1
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः ।
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥ १३.९८.१ ॥
在此世间,欲行布施的国王应当施予何种布施?应当给予德行更胜的婆罗门什么?婆罗多之最啊!
13.98.2
केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च ।
शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥ १३.९८.२ ॥
何物能让他们立刻欢喜?他们欢喜之后会赐予什么?大臂者啊,请告诉我,那由功德所生的大果报是什么。
13.98.3
दत्तं किं फलवद्राजन्निह लोकें परत्र च ।
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ १३.९८.३ ॥
国王啊,在此世与来世所施的布施如何结出果实?我想从您那里详细听闻,请告诉我。食物、大地、天界与虚空——一切都建立在食物之中。
13.98.4
इममर्थं पुरा पृष्टो नारदो देवदर्शनः ।
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु ॥ १३.९८.४ ॥
此问题曾向诸神的见者那罗陀提出。我讲述他所说的话,请你聆听。
13.98.5
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा ।
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ १३.९८.५ ॥
诸天与众仙只赞颂食物。世界的秩序与祭祀,一切都建立在食物之中。
13.98.6
अन्नेन सदृशं दानं न भूतं न भविष्यति ।
तस्मादन्नं विशेषेणि दातुमिच्छन्ति मानवाः ॥ १३.९८.६ ॥
与食物相等的布施,过去未曾有,未来也不会有。因此世人尤其愿意施舍食物。
13.98.7
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः ।
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥ १३.९८.७ ॥
食物在世间赋予力量,生命之气安立于食物之中。全宇宙、这个世界皆由食物所维系,主啊。
13.98.8
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तापसास्तथा ।
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥ १३.९८.८ ॥
在此世间,居家者、乞食僧与苦行者,皆由食物而生。生命之气确实由食物而生;此乃显而易见,毫无疑问。
13.98.9
कटुम्बिने सीदते च ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ १३.९८.९ ॥
应当施食于有家室者、受苦的高尚婆罗门,以及乞食者;欲求自身福祉者应行此布施。
13.98.10
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने ।
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ १३.९८.१० ॥
若将食物施予有德的婆罗门或乞求者,便为自己积聚了来世最上的宝藏。
13.98.11
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् ।
अर्ययेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ १३.९८.११ ॥
欲求自身福祉的居家者,应当礼敬来到家中的客人:那在路上疲惫的旅人、年迈而值得尊敬者。
13.98.12
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ १३.९८.१२ ॥
若能舍弃升起的愤怒,品行端正、远离嫉妒,并施予食物,大王,他便获得天上与此世所有的快乐。
13.98.13
नावमन्येदभिगतं न प्रणुद्यात्कदाचन ।
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति ॥ १३.९८.१३ ॥
不可轻慢到来的客人,也不可驱逐他。即使施舍给贱民之家或狗,食物布施也不会消失。
13.98.14
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥ १३.९८.१४ ॥
若有人在路上,对一位身处苦难、从未相识的人慷慨施舍食物,他便获得大功德(法)。
13.98.15
पितॄन्देवानृपीन्विप्रानतिथींश्च जनाधिप ।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ १३.९८.१५ ॥
人主啊!以食物使祖先、诸天、仙人、婆罗门和客人欢喜的人,将获得巨大的功德果报。
13.98.16
कृत्वाऽतिपातकं कर्म यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ १३.९८.१६ ॥
即使曾作重大罪业,若将食物施给乞求者,尤其是婆罗门,他便不会被罪业迷惑。
13.98.17
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् ।
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते ॥ १३.९८.१७ ॥
施予婆罗门之布施为不尽之福;施予首陀罗之食物则有大果报。实则,施食无论给首陀罗还是婆罗门,都尤为殊胜。
13.98.18
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ।
भिक्षितो ब्राह्मणेनान्नं दद्यादेवाविचारतः ॥ १३.९८.१८ ॥
不应询问其族姓、所习之支派、所修的经典或籍贯。婆罗门乞食时,应不加思量地施予食物。
13.98.19
अन्नदस्यान्नदा वृक्षाः सर्वकामफलप्रदाः ।
भवन्ति चेह चामुत्र नृपते नात्र संशयः ॥ १३.९८.१९ ॥
对施食者而言,有能施食之树,能赐予一切愿望之果。大王啊,无论在此世还是来世,此事毫无疑问。
13.98.20
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः ।
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति ॥ १३.९८.२० ॥
正如农夫期盼好雨,祖先们也期望:“我们的儿子或孙子也会施食。”
13.98.21
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते ।
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ १३.९८.२१ ॥
婆罗门是伟大的存在,他乞求说:“给我。”无论无欲还是有欲,施与者都获得功德。
13.98.22
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् ।
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा ॥ १३.९८.२२ ॥
婆罗门是一切众生的客人,是先食之人。婆罗门乞食,常至人家门前。
13.98.23
सत्कताश्च निवर्तन्ते तदतीव प्रवर्धते ।
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत ॥ १३.९८.२३ ॥
即便受到尊敬后他们离去,那功德也大大增长。婆罗多啊,死后他将投生于极为吉祥的家族。
13.98.24
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् ।
स्विष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ १३.९८.२४ ॥
人在世间施食,同样得到至高之处。施与精美烹调的上好食物者,受到尊敬,居于天界。
13.98.25
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठिम् ।
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ १३.९८.२५ ॥
食物是人的生命,一切都建立于食物之上。施食者便拥有牲畜、子嗣、财富与享受。
13.98.26
प्राणवांश्चापि भवति रूपवांश्च तथा नृप ।
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ १३.९८.२६ ॥
大王,施食者会充满生命力,也会容貌端正。世上称他为施命者,也称他为一切之施予者。
13.98.27
अन्नं हि दत्त्वाऽतिथये ब्राह्मणाय यथाविधि ।
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ॥ १३.९८.२७ ॥
依法施食于客人与婆罗门者,施主便得安乐,甚至受诸天礼敬。
13.98.28
ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर ।
उप्यते तत्रि यद्बीजं तद्धि पुण्यफलं महत् ॥ १३.९८.२८ ॥
般遮罗之子坚战啊,婆罗门是伟大的生命,如同田地。在那里播下的种子,必结大功德之果。
13.98.29
प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत ।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ १३.९८.२९ ॥
施食这种布施是显而易见的,能使受食者与施主都生欢喜。其余一切布施,其果报则隐而不显。
13.98.30
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत ।
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः ॥ १३.९८.३० ॥
婆罗多之子啊,子嗣由食物而生,欢乐也由食物而来。应知法与利皆由食物而来,疾病也因食物而消除。
13.98.31
अन्नं ह्यमृतमित्याह पुरा कल्पे प्रजापतिः। ॥ १३.९८.३१ ॥
往昔劫初,生主曾说:食物即是甘露。
13.98.32
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः ।
बलं बलवतोपीह प्रणश्यत्यन्नहानितः ॥ १३.९८.३२ ॥
食物匮乏,身中五大元素便离散;即便强者之力,也因缺食而在此消亡。
13.98.33
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा ।
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ १३.९८.३३ ॥
人中之尊啊,没有食物,迎亲、婚礼与祭祀都将停止,而梵也就在此消逝。
13.98.34
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् ।
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥ १३.९८.३४ ॥
三界之中,凡是静止或运动的一切,皆来自食物。因此智者应为法而施食。
13.98.35
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥ १३.९८.३५ ॥
君王啊,施食之人的力量、精神、荣耀与名声,在三界中永远增长。
13.98.36
मेघेषूर्ध्वं सन्निधत्ते प्राणानां पवनः पतिः ।
तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ १३.९८.३६ ॥
风神,诸气之主,将它安置在云端之上;而云中之水,婆罗多啊,因陀罗降下为雨。
13.98.37
आदत्ते च रसान्भौनानादित्यः स्वगभस्तिभिः ।
वायुरादित्यतस्तांश्च रसान्देवः प्रवर्षति ॥ १३.९८.३७ ॥
太阳以自己的光线吸取地上的水汽,风从太阳处接受这些水汽,神便将它们降下为雨。
13.98.38
तद्यदा मेघतो वारि पतितं भवति क्षितौ ।
तदा वसुमती देवी स्निग्धा भवति भारत ॥ १३.९८.३८ ॥
云中的水落到地上时,婆罗多啊,女神婆苏摩提(大地)便变得湿润而肥沃。
13.98.39
ततः सस्यानि रोहन्ति येन वर्तयते जगत् ।
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ १३.९८.३९ ॥
于是庄稼生长,世界因此得以维持;再由它们而生出肌肉、脂肪、骨骼与精液。
13.98.40
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते ।
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह ॥ १३.९८.४० ॥
从那精液中,地上之主啊,众生得以产生,因为阿耆尼与苏摩确实创造并滋养那精液。
13.98.41
एवमन्नाद्धि सूर्यश्च पवनः शक्रमेव च ।
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे ॥ १३.९८.४१ ॥
如此,实则从食物而来,太阳、风与因陀罗被视为同一整体;众生由此而生。
13.98.42
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ ।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥ १३.९८.४२ ॥
婆罗多之雄啊,施食之人便赐予众生生命之气与活力;而若有人将食物施予登门的客人或乞求者,也能得到同样的果报。
13.98.43
नारदेनैवमुक्तोऽहमन्नदानं सदा नृप ।
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥ १३.९८.४३ ॥
那罗陀对我这样说过,国王啊:应当常行施食。你也应无嫉妒地施食;因此,无忧地布施吧。
13.98.44
दत्त्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो ।
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ १३.९८.४४ ॥
国王啊,主啊,你也依法将食物施给相应的婆罗门,然后便可获得天界。
13.98.45
अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप ।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ १३.९८.४५ ॥
人主啊,请听那些施食者的世界:天界中那些大德者的宫殿光辉闪耀。
13.98.46
नानासंस्थानि रूपाणि नानास्तम्भान्वितानि च ।
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च ॥ १३.९८.४६ ॥
它们形态各异,装有许多柱子;明亮如月轮,挂着叮当作响的铃网。
13.98.47
तरुणादित्यवर्णानि स्थावराणि चराणि च ।
अनेकशतभौमानि सान्तर्जलचराणि च ॥ १३.९८.४७ ॥
它们呈现初升太阳的颜色,既有静止的也有移动的;有上百层楼,内里还有在水中游动的生灵。
13.98.48
वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ १३.९८.४८ ॥
它们如青金石与太阳般闪耀,由银与金所成;宫殿周围立着结出一切所愿之果的树木。
13.98.49
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥ १३.९८.४९ ॥
各式阶梯井、街道、议事厅、水井、长池,以及成千上万辆套好车驾、发出声响的车辆。
13.98.50
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ।
क्षीरं स्रवन्ति सरितस्तथा चैवान्नपर्वताः ॥ १३.९८.५० ॥
由食物和饮料构成的山峦、衣服与饰物,流淌着牛奶的河流,还有谷物之山。
13.98.51
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोञ्ज्वलाः ।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ १३.९८.५१ ॥
如白云般闪耀的宫殿,以及金光灿烂的卧榻——这些都是施食者所得。因此你要做施食之人。
13.98.52
एते लोकाः पुण्यकृता अन्नदानां महात्मनाम् ।
तस्मादन्नं प्रयत्नेन दातव्यं मानवैर्भुवि ॥ १३.९८.५२ ॥
这些世界属于行善积德、施舍食物的伟大之人。因此,世间之人应当用心施舍食物。