Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १४.१.१ ॥

向那罗延(Nārāyaṇa)及人中最上的那罗(Nara)、女神萨罗室伐底(Sarasvatī)和毗耶娑(Vyāsa)行礼之后,便应诵念《胜利》(Jaya)。

14.1.2

कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः ।
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ १४.१.२ ॥

行过献水之礼后,臂力强大的坚战(Yudhiṣṭhira)将国王持国(Dhṛtarāṣṭra)置于前方,心神慌乱地渡河而过。

14.1.3

उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः ।
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥ १४.१.३ ॥

臂力强大者渡河之后,双目被泪水模糊,倒在恒河岸边,如同被猎人射中的大象。

14.1.4

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः ।
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ १४.१.४ ॥

他正要倒下,被克里希那所激励的怖军(Bhīma)扶住;摧毁敌军的克里希那(Kṛṣṇa)对他说:“不要如此。”

14.1.5

तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः ।
तदृशुः पार्थिवा राजन्धर्मपुत्रं युधिष्ठिरम् ॥ १४.१.५ ॥

大王啊,诸王看见那位法之子坚战(Yudhiṣṭhira)痛苦地倒在地上,一次又一次地喘息。

14.1.6

त दृष्ट्वा दीनमनसं गतसत्वं नरेश्वरम् ।
भूयः शोकसमाविष्टाः पाण्डवाःक समुपाविशन् ॥ १४.१.६ ॥

看见那位心情沮丧、失去力气的人主,般度诸子再次被悲伤笼罩,便坐了下来。

14.1.7

राजा तु धृतराष्ट्रस्तं तथा दीनो महाभुजम् ।
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम् ॥ १४.१.७ ॥

然而大智慧、以智慧为眼的国王持国,对那位悲伤的大臂者说了这些话。

14.1.8

उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् ।
क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया ॥ १४.१.८ ॥

起来吧,库鲁中的猛虎!俯子,不要迟延,去履行你的职责。依照刹帝利之法,这大地已被你征服。

14.1.9

भुङ्क्ष सार्धं भ्रातृभिस्तां सुहृद्भिश्च जनेश्वर ।
शोचितव्यं न पश्यामि त्वया धर्मभृतांवर ॥ १४.१.९ ॥

人主啊,与兄弟和朋友一同享有它吧。义人之中最优秀者,我看不出你有什么值得悲伤的。

14.1.10

शोचितव्यं मया चैव गान्धार्या च महीपते ।
ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम् ॥ १४.१.१० ॥

大地之主啊,应当悲伤的是我与甘陀利,我们的一百个儿子消失了,如同梦中得到的财富。

14.1.11

अश्रुत्वा हितकामस्य विदुरस्य महात्मनः ।
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥ १४.१.११ ॥

我没有听从那位一心为我们利益的大智者维杜罗的极有意义的话,如今愚昧的我正在懊悔痛苦。

14.1.12

उक्तवान्विदुरो यन्मां धर्मात्मा दिव्यदर्शनः ।
दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ १४.१.१२ ॥

德行高尚、具有神通之眼的维杜罗曾对我说:因为难敌的罪过,你的家族将被毁灭。

14.1.13

स्वस्ति चेदिच्छसे राजन्कुलस्य कुरु मे वचः ।
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ १४.१.१३ ॥

国王啊,若你希望家族平安,请听我言:这位心术不正、愚昧的国王苏尤陀那应当被舍弃。

14.1.14

कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित् ।
द्यूतसङ्घातमप्येषामप्रमादेन वारय ॥ १४.१.१४ ॥

愿迦尔纳与沙矩尼永远不要见到他;并请谨慎地制止这些赌徒的聚集。

14.1.15

अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् ।
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥ १४.१.१५ ॥

请立善心的坚战为王;他能自制,必将依法治理这片大地。

14.1.16

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् ।
विनाशमुपयास्तन्ति तव पुत्रा न संशयः।
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥ १४.१.१६ ॥

若你不愿立贡蒂之子坚战为王,你的儿子们必定走向毁灭,毫无疑问。国王啊,你应像一根木桩般坚定,亲自接受王国。

14.1.17

समं सर्वेषु भूतेषु वर्तमानं नराधिप ।
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धंन ॥ १४.१.१७ ॥

人主啊,你对一切众生一视同仁,宗亲的增益者啊,愿所有亲族都依靠你而生活。

14.1.18

एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि ।
दुर्योधनमहं पापमन्ववर्तं वृथामतिः ॥ १४.१.१८ ॥

贡蒂之子啊,尽管远见的毗敦罗如此劝告,我这愚妄之人仍然追随了恶人难敌。

14.1.19

अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम् ।
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ १४.१.१९ ॥

我没有听从那位坚定的维杜罗甘甜的话语,因而得到了巨大的苦果,沉入了悲伤的海洋。

14.1.20

वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप ।
न शोचितव्यं भवता पश्यामीह जनाधिप ॥ १४.१.२० ॥

大王啊,请看我们这对年老的父母,如今正在受苦。人主啊,你不应悲伤;我在这里看到了这一切。