摩诃婆罗多 · 章 14.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.10.1
एवमेतद्ब्रह्मबलं गरीयो ।
न ब्राह्मणात्किञ्चिदन्यद्ररीयः।
आविक्षितस्य तु बलं न मृष्ये ।
वज्रमस्मै प्रहरिष्यामि घोरम् ॥ १४.१०.१ ॥
婆罗门的神力就是如此,它至大无比,没有什么比婆罗门更尊贵。然而我不能容忍阿维克希塔的力量;我要以可怕的金刚杵击向他。
14.10.2
धृतराष्ट्र गच्छ प्रहितो मरुत्तं ।
संवर्तेन सङ्गतं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राज-
न्वज्रं वा ते प्रहरिष्यामि घोरम् ॥ १४.१०.२ ॥
德兰陀罗什特拉啊,你奉我之命去见与桑伐多结盟的摩录多,告诉他:以布利哈斯帕提为师,国王啊;否则我将以可怕的金刚杵击你。
14.10.3
ततो गत्वा धृतराष्ट्रो नरेन्द्रं ।
प्रोवाचेदं वचनं वासवस्य ॥ १४.१०.३ ॥
于是德兰陀罗什特拉走到人主面前,说出了婆娑婆(因陀罗)的这些话。
14.10.4
गन्धर्वं मां धृतराष्ट्रं निबोध ।
त्वामागतं वक्तुकामं नरेन्द्र।
ऐन्द्रं वाक्यं शृणु मे राजसिंह ।
यत्प्राह लोकाधिपतिर्महात्मा ॥ १४.१०.४ ॥
你当知道我是乾闼婆德兰陀罗什特拉,我因想对你说话而来。人主啊,王中雄狮,请听因陀罗的话,那是世间主宰的大德所说的。
14.10.5
बृहस्पतिं याजकं त्वं वृणीष्व ।
वज्रं वा ते प्रहरिष्यामि घोरम्।
वचश्चेदेतन्न करिष्यसे मे ।
प्राहैतदेतावदचिन्त्यकर्मा ॥ १४.१०.५ ॥
请选择布利哈斯帕提为你的祭司,否则我将以可怕的金刚杵击你。若你不遵从我的这句话——不可思议之业者只说了这些。
14.10.6
त्वं चैवैतद्वेत्थ पुरन्दरश्च ।
विश्वेदेवा वसवश्चाश्विनौ च।
मित्रद्रोहे निष्कृतिर्नास्ति लोके ।
महत्पापं ब्रह्महत्यासमं तत् ॥ १४.१०.६ ॥
你也知道这一点,补兰达罗(因陀罗)也知道;诸毗首提婆、诸婆苏和双阿输昆也都知道。背叛朋友在世间没有赎罪之法;这是大罪,等同于杀害婆罗门。
14.10.7
बृहस्पतिर्याजयतां महेन्द्रं ।
देवश्रेष्ठं वज्रभृतां वरिष्ठम्।
संवर्तो मां याजयिताऽद्य राज-
न्न ते वाक्यं तस्य वा रोचयामि ॥ १४.१०.७ ॥
愿布利诃斯巴提为摩诃因陀罗主持祭祀,他是诸神中最优秀者,持金刚杵者中的第一。今日,僧伐多将为我主持祭祀,大王;我既不赞同你的话,也不赞同他的话。
14.10.8
घोरो नादः श्रूयतां वासवस्य ।
नभस्तले गर्जतो राजसिंह।
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः ।
क्षेमं राजंश्चिन्त्यतामेष कालः ॥ १४.१०.८ ॥
听那可怕的吼声,那是在天空中轰鸣的婆娑(因陀罗)之声,王中之狮。显然摩诃因陀罗将向你投掷金刚杵。大王,请考虑你的安危;此刻正是时候。
14.10.9
इत्येवमुक्तो धृतराष्ट्रेण राज-
ञ्श्रुत्वा नादं नदतो वासवस्य।
तपोनित्यं धर्मविदां वरिष्ठं ।
संवर्तं तं ज्ञापयामास कार्यम् ॥ १४.१०.९ ॥
大王,持国王如此说后,他听到雷鸣般的婆娑(因陀罗)的吼声,便将自己的请求告知僧伐多。僧伐多常年修苦行,是知法者中的第一人。
14.10.10
पश्यात्मानं प्लवमानं त्वमारा-
दध्वा दूरं तेन न दृश्यतेऽद्य।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः ।
प्रयच्छ तस्मादभयं विप्रमुख्य ॥ १४.१०.१० ॥
看那从远处漂来的你;因此今天他看不见。婆罗门之主,我向你寻求庇护;请赐予我无畏,婆罗门中的最上者。
14.10.11
अयमायाति वे वज्री दिशो विद्योतयन्दस ।
अमानुषेण घोरेणि सदस्यास्त्रासिता हि नः ॥ १४.१०.११ ॥
看,执金刚者来了,照亮十方;我们这些会众被这非人的可怕形象吓坏了。
14.10.12
भयं शक्राद्व्येतु ते राजसिंह ।
प्रणोत्स्येऽहं भयमेतत्सुघोरम्।
संस्तम्भिन्या विद्यया क्षिप्रमेव ।
मा भैस्त्वमस्याभिभवात्प्रतीतः ॥ १४.१०.१२ ॥
王中之狮,愿你对因陀罗的恐惧消散。我将以令人僵住的明智之术迅速驱除这极大的恐惧。不要惧怕他的压制,要自信。
14.10.13
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप ।
यर्वेषामेव देवानां क्षयितान्यायुधानि मे ॥ १४.१०.१३ ॥
我将使他僵住;王啊,不要惧怕因陀罗。众神的兵器都已被我毁坏。
14.10.14
दिशो वज्रं व्रजतां वायुरेतु ।
वर्षं भूत्वा वर्षतां काननेषु।
आपः प्लवन्त्वन्तरिक्षे वृथा च ।
सौदामनी दृश्यते माऽपि भैस्त्वम् ॥ १४.१०.१४ ॥
愿霹雳飞往四方,愿风吹来;化为雨水,在林间降落。愿水在空中漂流,愿闪电徒然出现;你也不要害怕。
14.10.15
वह्निर्देवस्त्रातु वा सर्वतस्ते ।
कामान्सर्वान्वर्षतु वासवो वा।
वज्रं तथा स्थापयतां वधाय ।
महाघोरं पुवमानं जलौघैः ॥ १४.१०.१५ ॥
愿火神从四面守护你,或愿因陀罗(婆娑婆)降雨满足你一切所愿。愿他们为毁灭而举起金刚杵,它极其可怖,以洪流净化。
14.10.16
घोरः शब्दः श्रूयते वै महास्वनो ।
वज्रस्यैष सहितो मारुतेन।
आत्मा हि मे प्रव्यथते मुहुर्मुहु-
र्न मे स्वास्थ्यं जायते चाद्य विप्र ॥ १४.१०.१६ ॥
可怕的声音传来,确是巨大的轰鸣;这是金刚杵与风合而为一的声音。我的内心一次又一次地痛苦,今天,婆罗门啊,我找不到平静。
14.10.17
वज्रादुग्राद्व्येतु भयं तवाद्य ।
वातो भूत्वा व्रजतु नरेन्द्र वज्रम्।
भयं त्वक्त्वा वरमन्यं वृणीष्व ।
कं ते कामं तपसा साधयामि ॥ १४.१०.१७ ॥
愿你今日的恐惧从这猛烈的金刚杵前消散。啊,人王,愿金刚杵化为风而离去。舍弃恐惧,另选一个恩赐吧;凭借我的苦行,我该为你成就哪一个愿望呢?
14.10.18
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र ।
हविर्यज्ञे प्रतिगृह्णातु चैव।
स्वंस्वं हविश्चैव जुषन्तु देवा ।
हुतं सोमं प्रतिगृह्णन्तु चैव ॥ १४.१०.१८ ॥
愿因陀罗亲自突然降临此地,婆罗门啊。愿他在祭祀中接受供品。愿诸神各自享用自己的供品,也愿他们接受所献的苏摩。
14.10.19
अयमिन्द्रो हरिभिरायाति राज-
न्देवैः सर्वैस्त्वरितैः स्तूयमानः।
मन्त्राहूतो यज्ञमिमं मयाऽद्य ।
पश्यश्वैनं मन्त्रविस्रस्तकायम् ॥ १४.१०.१९ ॥
大王啊,看哪,因陀罗驾着赤褐色的骏马而来,受到所有迅捷诸神的赞颂。今日以我的咒语召请至此祭祀,也请看这匹马,其身躯已被咒语松开。
14.10.20
ततो देवैः सहितो देवराजो ।
रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान्।
आयाद्यज्ञमथ राज्ञः पिपासु-
राविक्षितस्याप्रमेयस्य सोमम् ॥ १४.१०.२० ॥
于是,天王与诸神相伴,将那些赤褐色的骏马——马中之最——套上战车,前来祭祀,想要饮用无量的王者阿维克希多的苏摩。
14.10.21
तमायान्तं सहितं देवसङ्घैः ।
प्रत्युद्ययौ सपुरोधा मरुत्तः।
चक्रे पूजां देवराजाय चाग्र्यां ।
यथाशास्त्रं विधिवत्प्रीयमाणः ॥ १४.१०.२१ ॥
马卢特与其祭司一同前往迎接他,他正率众神而来;马卢特心中欢喜,依照经典、如法如仪地向天王献上最上的供养。
14.10.22
सुस्वागतं ते पुरुहूतेह विद्व-
न्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र।
शोशुभ्यते बलवृत्रघ्न भूयः ।
पिबस्व सोमं सुतमुद्यतं मया ॥ १४.१०.२२ ॥
欢迎你来到这里,多被召请者,智慧者!因陀罗啊,因你在此,这祭祀也光辉闪耀。以力量杀死弗栗多的啊,请再饮用我压榨并献上的苏摩吧。
14.10.23
शिवेन मां पश्य नमश्च तेऽस्तु ।
प्राप्तो यज्ञः सफलं जीवितं मे।
अयं यज्ञं कुरुते मे सुरेन्द्र ।
बृहस्पतेरवरो जन्मना च। ॥ १४.१०.२३ ॥
请以吉祥之目看我,愿对你致敬。我的祭祀已得果报,我的生命也因此有了果实。众神之主啊,这位在出生上是健婆的幼弟,正在为我主持祭祀。
14.10.24
जानामि ते गुरुमेनं तपोधनं ।
बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र ।
प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥ १४.१०.२४ ॥
我知道此人以苦行为财富,是你的老师,是伽利斯帕蒂之弟,光芒锐利。应他的召唤我才来到,人主啊。今日我对你心生喜爱,怒气已消。
14.10.25
यदि प्रीतस्त्वमसि वै देवराज ।
तस्मात्स्वयं शाधि यज्ञे विधानम्।
स्वयं सर्वान्कुरु भागान्सुरेन्द्र ।
जानात्वयं सर्वलोकश्च देव ॥ १४.१०.२५ ॥
若你确实欢喜,天王啊,那就由你亲自制定祭祀的仪轨。由你亲自分定一切供份,诸神之王啊。愿这一切世界都知道,天神啊。
14.10.26
एवमुक्तस्त्वाङ्गिरसेन शक्रः ।
समादिदेश स्वयमेव देवान्।
सभाः क्रियन्तामावसथाश्च मुख्याः ।
सहस्रशश्चित्रभूताः समृद्धाः ॥ १४.१०.२६ ॥
安吉罗斯如此进言后,帝释天亲自向诸神下令:“应建造议事之堂与主要居所,成千上万,形制奇妙而富丽。”
14.10.27
क्लृप्ताः स्थूणाः कुरुतारोहणानि ।
गन्धर्वाणामप्सरसां च शीघ्रम्।
यत्र नृत्येरन्नप्सरसः समस्ताः ।
स्वर्गोपमः क्रियतां यज्ञवाटः ॥ १४.१०.२७ ॥
迅速为乾闼婆与阿普萨拉斯制作柱子与阶梯,使诸阿普萨拉斯皆能在其中歌舞。祭祀场地应如天界一般。
14.10.28
इत्युक्तास्ते चक्रुराशु प्रतीता ।
दिवौकसः शक्रवाक्यान्नरेन्द्र।
ततो वाक्यं प्राह राजानमिन्द्रः ।
प्रीतो राजन्पूज्यमानो मरुत्तम् ॥ १४.१०.२८ ॥
诸神听从帝释天之言,欣然迅速照办。噢人主!于是因子带明的 因陀罗对国王说道:噢王啊,你受到敬重而喜悦,噢摩噜多中最优者!
14.10.29
एष त्वयाऽहमिह राजन्समेत्य ।
ये चाप्यन्ते तव पूर्वे नरेन्द्र।
सर्वाश्चान्या देवताः प्रीयमाणा ।
हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥ १४.१०.२९ ॥
噢王,我因你而聚集于此。噢人主!你那些最后到来的祖先,以及其他一切天神,欣然接受为你所献的供物吧,噢王啊。
14.10.30
आग्नेयं वै लोहितमालभन्तां ।
वैश्वदेवं बहुरूपं हि राजन्।
निलं चोक्षाणं मेद्यमप्यालभन्तां ।
चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः ॥ १४.१०.३० ॥
应献祭属于阿耆尼的红色(牲畜),噢王啊,也应献祭属于众神(毗湿伐提婆)的多色(牲畜)。也应献祭深蓝色的公牛和适合祭祀的(牲畜),其阴茎可动,这是诸再生者中的上者所规定的。
14.10.31
ततो यज्ञो ववृधे तस्य राज-
न्यत्र देवाः स्वयमन्नानि जह्रुः।
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः ।
सदस्योऽभूद्धरिमान्देवराजः ॥ १४.१०.३१ ॥
于是他的祭祀兴盛起来,噢王啊,在那里诸神亲自享用了食物。在那祭祀中,诸神之王、黄褐色的因陀罗,受婆罗门敬重,成为了集会的成员。
14.10.32
ततः संवर्तश्चैत्यगतो माहात्मा ।
यथा वह्निः प्रज्वलितो द्वितीयः।
हवींष्युच्चैराह्वयन्देवसङ्घा-
ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥ १४.१०.३२ ॥
于是大德僧伐塔走入圣坛,如同第二团燃烧的火焰,高声召唤诸神众,依照咒语欢喜地向火中献上祭品。
14.10.33
ततः पीत्वा बलभित्सोममग्र्यं ।
ये चाप्यन्ते सोमपा देवसङ्घाः।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन ।
यथाजोषं तर्पिताः प्रीतिमन्तः ॥ १४.१०.३३ ॥
于是破力者因陀罗饮下了至上的苏摩;其余饮苏摩的诸神众,得到国王的许可,满足而欢喜,各随其意离去。
14.10.34
ततो राजा जातरूपस्य राशी-
न्पदेपदे कारयामास हृष्टः।
द्विजातिभ्यो विसृजन्भूरि वित्तं ।
रराज वित्तेश इवारिहन्ता ॥ १४.१०.३४ ॥
于是国王欢喜,每走一步便令人堆起金子,将大量财富施予再生者,光彩如财神俱毗罗,乃摧灭敌人者。
14.10.35
ततो वित्तं विविधं सन्निधाय ।
यथोत्साहं कारयित्वा च कोशम्।
अनुज्ञातो गुरुणां संनिवृत्त्य ।
शशास गामखिलां सागरान्ताम् ॥ १४.१०.३५ ॥
随后,他聚集了种种财富,依其热情建造了府库,获得长辈的许可后返回,统治直至大海之滨的整个大地。
14.10.36
एवंगुणः सम्बभूवेह राजा ।
यस्य क्रतौ तत्सुवर्णं प्रभूतम्।
तत्त्वं समादाय नरेन्द्र वित्तं ।
यजस्व देवांस्तपनीयैर्विधानैः ॥ १४.१०.३६ ॥
此地曾有一位具备如此德行的国王,他的祭祀中有那些丰厚的黄金。因此,人主啊,你取来那些财富,以金制的仪轨祭祀诸神吧。
14.10.37
ततो राजा पाण्डवो हृष्टरूपः ।
श्रुत्वा वाक्यं सत्यवत्याः सुतस्य।
मनश्चक्रे तेन वित्तेन यष्टुं ।
ततोऽमात्यैर्मन्त्रयामास भूयः ॥ १४.१०.३७ ॥
于是喜色满面的般度王听了萨蒂耶瓦蒂之子的话,决意用那笔财富举行祭祀。随后他又与大臣们商议。