摩诃婆罗多 · 章 14.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.100.1
देवदेवेश दैत्यघ्नि परं कौतूहलं हि मे ।
एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव।
मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् ॥ १४.१००.१ ॥
众神之神、诛灭达蹉者啊,我对此十分好奇。全知的罗佛啊,请为你的信徒讲述:人间与法界之间有何区别?
14.100.2
कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च ।
तरन्ति मानुषा देव केनोपायेन माधव ॥ १४.१००.२ ॥
它是怎样的?它的尺度如何,或其根基是什么?天神啊,世人借何方法得以渡过,摩陀婆?
14.100.3
त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते ।
कथयस्व महादेव सुखदुःखमशेषतः ॥ १४.१००.३ ॥
脱离皮、骨、肉,远离五大元素,大天神啊,请完整地告诉我苦与乐。
14.100.4
जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः ।
अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः ॥ १४.१००.४ ॥
在业报世界中,因善恶之业而被束缚,被那些可怕的绳索牵引而去的众生。
14.100.5
मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः ।
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया ॥ १४.१००.५ ॥
在阎摩的命令下,被那些不可抵挡、可怕、威力惊人的死神使者所擒,被拖拽、奔逃的那个应被杀者。
14.100.6
पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः ।
यमदूतैर्द्रुराधर्षैर्नीयते वा कथं पुनः।
किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः ॥ १४.१००.६ ॥
行善作恶之人必须完全承受苦乐;或者,他又如何被阎摩的使者无法抗拒地带走?或者,天神啊,人们到了那里之后,又作何业?
14.100.7
कथं धर्मपरा यान्ति देवताद्विजपूजकाः ।
कतं वा पापकर्माणो यान्ति प्रेतपुरं नराः ॥ १४.१००.७ ॥
那些奉行法、敬拜神明与婆罗门的人如何前往?或者作恶之人如何前往鬼城?
14.100.8
किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव ।
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे ॥ १४.१००.८ ॥
克舍那啊,那常往阎摩世界而去的生命,其形态如何、大小如何、颜色如何?请告诉我。
14.100.9
शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि ।
तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर ॥ १४.१००.९ ॥
国王啊,请照实听我所说,你问我的事。人主啊,关于我的信徒,我将告诉你。
14.100.10
षडशीतिसहस्राणि योजनानां युधिष्ठिर ।
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् ॥ १४.१००.१० ॥
坚战啊,人间世界与阎摩世界之间的距离是八万六千由旬。
14.100.11
न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा ।
न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर ॥ १४.१००.११ ॥
坚战啊,那里没有树荫,没有池塘,没有湖泊,没有阶梯井,没有长池,甚至没有井。
14.100.12
न मण्टपं सभा वाऽपि न प्रपा न निकेतनम् ।
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित् ॥ १४.१००.१२ ॥
没有亭台,没有议事堂,没有施水亭,没有住所;没有山岳,没有河流,大地上任何地方都没有洞穴。
14.100.13
न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च ।
न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर ॥ १४.१००.१३ ॥
坚战啊,在那条路上既无村庄,也无修行处,无花园,也无森林;没有任何可以栖身的地方。
14.100.14
जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः ॥ १४.१००.१४ ॥
对于一个时辰已到、饱受剧痛折磨、身体因诸因缘而被抛弃、生命之气再次升至喉间的众生而言——
14.100.15
शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना ।
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात् ॥ १४.१००.१५ ॥
众生的生命被风无奈地从身体中推动;化为风的它,便从这具有六层鞘的身体中离去。
14.100.16
शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः ।
अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित् ॥ १४.१००.१६ ॥
那是另一个身体,形状、颜色与大小都相同;它隐而不现地进入其中,而他也无人能见。
14.100.17
सोन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत् ।
छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति। ॥ १४.१००.१७ ॥
有身众生内在的那个自我,以八支运行,即使被斩、被刺、被焚或被击,也不会毁灭。
14.100.18
नाना रूपधरैर्घौरैः प्रचण्डेश्चण्डसाधनैः ।
नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया ॥ १४.१००.१८ ॥
在阎摩的命令下,他被阎摩的使者带走。这些使者变化多端,可怖、猛烈,持有残酷的器械,不可抵挡。
14.100.19
पुत्रदारमयैः पाशैः संनिरूद्धोऽवशो बलात् ।
स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः ॥ १४.१००.१९ ॥
被由子女与妻子构成的绳索紧紧束缚,身不由己,被自己所作的善恶业所跟随。
14.100.20
आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः ।
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति ॥ १४.१००.२० ॥
在悲痛煎熬的亲属中悲哀地哭喊,然而他舍弃所有亲人,无所顾惜地离去。
14.100.21
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा ।
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ॥ १४.१००.२१ ॥
母亲、父亲、兄弟、舅父,以及妻子、儿子和朋友都在哭泣,他再一次被抛弃。
14.100.22
अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः ।
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ॥ १४.१००.२२ ॥
在那些泪眼盈盈、面容悲戚的人们面前他已不可见,舍弃自己的身体,化作风而去。
14.100.23
अन्धकारमपारं तं महाघेरं तमोवृतम् ।
दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् ॥ १४.१००.२३ ॥
那无边的黑暗,极其可怖,被幽暗笼罩,以痛苦为终点,难以穿越,对作恶者而言不可抵达。
14.100.24
दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् ।
दुरापमतिदुःखं च पापिष्ठानां नरोत्तम ॥ १४.१००.२४ ॥
人中之最,对于最罪孽深重的人而言,那是难以忍受、没有尽头、难以直视、难以接近、难以获得且极其痛苦的。
14.100.25
ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव ।
त्रासं जनचति प्रायः श्रूयमाणं कथास्वपि ॥ १४.१००.२५ ॥
君王啊,诸仙人以相续传承所讲述的那事,即使在故事中听闻,也多令人生畏。
14.100.26
अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर ।
प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च ॥ १४.१००.२६ ॥
坚战啊,必定要走那条路;时候到了,便要舍弃亲属、享乐与财富。
14.100.27
जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा ।
जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं यमसादनम् ॥ १४.१००.२७ ॥
胎生、卵生、湿生与化生之物,以及动者与所谓静者,都必须前往阎摩的住所。
14.100.28
देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः ।
स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः ॥ १४.१००.२८ ॥
无论天神与阿修罗,人类等众生,服从毗婆娑之子的,女、男与非男非女,以及大地上被称为有命者的一切。
14.100.29
मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च ।
जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः ॥ १४.१००.२९ ॥
中年者、青年者、幼童者、老年者,以及刚出生者与在胎中者,都必须走那条大道。
14.100.30
पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः ।
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते ॥ १४.१००.३० ॥
无论在上午或下午,黄昏时分,傍晚,午夜,或是黎明时,当死亡降临之时。
14.100.31
प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः ।
क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि ॥ १४.१००.३१ ॥
即使是身在他乡的人、居于森林的人、在山上的人、站在水中的人、在田野中的人、在天空中的人,或身处屋内的人。
14.100.32
भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम ।
आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि।
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ॥ १४.१००.३२ ॥
人中之雄啊,无论正在吃、喝或咀嚼,坐着或站着,已就寝,醒着或睡着,都必须走上那条大道。
14.100.33
मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डसासनैः ।
आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम् ॥ १४.१००.३३ ॥
被死亡的使者——难以抗拒、极其凶猛、command严厉者——牵引,无能为力的人前往阎摩的居所。
14.100.34
क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित् ।
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम् ॥ १४.१००.३४ ॥
有时惊恐,有时昏醉,时而踉跄,哀号哭泣,被痛苦折磨,都必须前往阎摩的居所。
14.100.35
निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः ।
तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा ॥ १४.१००.३५ ॥
被斥责、烦乱、颤抖、因恐惧而昏乱、身体被刺伤、受威胁的人,也都必须这样前往。
14.100.36
कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना ।
दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ १४.१००.३६ ॥
沿着布满荆棘的道路,穿过灼热的沙尘,遭受焚烧,缺乏布施的人必定要前行。
14.100.37
काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः ।
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः ॥ १४.१००.३७ ॥
被木头、石块和岩石击打,被棍棒、火把、鞭子和钩子鞭打,无法法的人必须前往阎摩之城。
14.100.38
मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः ।
दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः ॥ १४.१००.३८ ॥
口中满是脂肪、血液和脓液,身上布满伤口,被烧灼并沾满伤口之血,杀害生灵者必须前往。
14.100.39
वेदनार्तैस्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम् ।
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः ॥ १४.१००.३९ ॥
被痛苦折磨,嘶声哭喊哀号,因痛苦而倒下,杀害生灵者必须前往。
14.100.40
भग्रपादोरुहस्तङ्गैर्भग्रजङ्घाशिरोधरैः ।
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः ॥ १४.१००.४० ॥
双脚、大腿、手臂和肢体折断,小腿和颈项断裂,耳朵、嘴唇和鼻子被割去,杀害生灵者必须前往。
14.100.41
शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः ।
तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः ॥ १४.१००.४१ ॥
被长矛、铁镖、木桩、投枪、箭矢刺穿,又被三叉戟的尖端刺扎,杀害生灵者必须前往。
14.100.42
श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः ।
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः ॥ १४.१००.४२ ॥
被狗、虎、狼、乌鸦从四面吞食,又被食肉罗刹折磨,他们前行。
14.100.43
महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा ।
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः ॥ १४.१००.४३ ॥
即使被水牛、鹿、野猪和斑鹿所吞食,食肉者也必须走那条路。
14.100.44
सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः ।
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः ॥ १४.१००.४४ ॥
被四面八方的针一样尖利喙刺的苍蝇叮咬,最罪恶的杀婴者必须前行。
14.100.45
विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः ।
शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम् ॥ १४.१००.४५ ॥
杀害信任自己的主人、朋友或女人的人,必被兵器穿刺,前往阎摩的居所。
14.100.46
खादयन्ति च ये जीवान्दुःखमापादयन्ति च ।
राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च ॥ १४.१००.४६ ॥
吞食生灵并使其受苦的人,被罗刹和狗所吞噬而前行。
14.100.47
ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च ।
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं ॥ १४.१००.४७ ॥
窃取衣物、床褥和被子的人,裸身如夜叉般奔逃,走那条路。
14.100.48
गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा ।
ये हरन्ति दुरात्मानः परस्वं पापकारिणः ॥ १४.१००.४८ ॥
那些心怀恶念、以暴力夺取牛、谷物、黄金、田地或房屋的罪人,是掠夺他人财产者。
14.100.49
पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च चर्झरैः ।
हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम् ॥ १४.१००.४९ ॥
被石块、燃烧的火把、棍棒、木棒和铁杵击打,遍体伤痕,他们必将被带往阎摩之处。
14.100.50
ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ।
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान् ॥ १४.१००.५० ॥
那些在此不畏地狱、盗取婆罗门财物、时常辱骂、并殴打再生族者的人。
14.100.51
शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः ।
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जंबुकैः ॥ १४.१००.५१ ॥
喉咙干枯,被捆绑,舌头、眼睛和鼻子被割去,充满脓血的恶臭,被豺狼所吞食。
14.100.52
चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः ।
क्रोशन्तः करुणं घोरं गच्छन्ति यमासादनम् ॥ १४.१००.५२ ॥
被可怕而凶猛的旃陀罗从四面折磨,悲惨而可怖地哀号,他们走向阎摩之处。
14.100.53
तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः ।
जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः ॥ १४.१००.५३ ॥
罪人们在那里也多次落入粪坑,活上千万年,因痛苦而受折磨。
14.100.54
ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः ।
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप ॥ १४.१००.५४ ॥
之后,待时间到了获得解脱,此世间的最卑劣之人,啊国王,将成为粪虫,历经一亿次轮回。
14.100.55
विद्यमानधनैर्यैस्तु लोभडंभानृतान्वितैः ।
श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव ॥ १४.१००.५५ ॥
那些拥有财富却怀着贪婪、虚伪与谎言,不向博学的婆罗门布施的人,哦,俱卢之牛。
14.100.56
ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः ।
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः ॥ १४.१००.५६ ॥
颈上被绳索缚住,被罗刹击打,饱受饥渴与疲惫之苦,那些人前往死者之城。
14.100.57
अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः ।
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः ॥ १४.१००.५७ ॥
未曾布施之人,喉咙、口腔和上颚干涸,一再乞求食物与水而行。
14.100.58
स्वामिन्बुभक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः ।
ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम।
इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम् ॥ १४.१००.५८ ॥
“主人啊,我们饥渴交迫,今日连走路都不能。主人啊,请给我食物,请给我水。”如此说着,他们被使者带往阎摩之所。
14.100.59
तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः ।
निस्संज्ञो भयसंत्रस्तो मूर्छया समभिप्लुतः ॥ १४.१००.५९ ॥
闻听毗湿奴的这些话,般度之子倒在地上,失去知觉,因恐惧而颤抖,被昏厥所笼罩。
14.100.60
ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोच्युतेन सः ।
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत् ॥ १४.१००.६० ॥
随后,他慢慢恢复知觉,得阿周那……不,得无坏者安慰,用水洗净双眼,再次对羯舍婆说话。
14.100.61
भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम् ।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥ १४.१००.६१ ॥
大天啊,听闻那条道路的漫长,我心生恐惧。人们用什么方法轻松地走过那条道路?
14.100.62
इह ये धार्मिका लोके जीवगातविवर्जिताः ।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ १४.१००.६२ ॥
此世间那些奉行正法、不伤害生灵、专心侍奉师长、礼敬诸天与婆罗门的人——
14.100.63
अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः ।
यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे ॥ १४.१००.६३ ॥
从这人间世界,那些贤者与亲属一同走上阎摩之路。请你如实地听我说来。
14.100.64
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव ।
ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम् ॥ १४.१००.६४ ॥
般度之子啊,那些向婆罗门布施各种供品的人,以此得到快乐的果报。
14.100.65
अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् ।
क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः ॥ १४.१००.६५ ॥
那些怀着至诚之心,把精心烹制的食物供养婆罗门、尤其是通晓吠陀的婆罗门的人——
14.100.66
ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम् ।
सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम् ॥ १४.१००.६६ ॥
这些大德之人乘坐奇妙的天车,由美好的女子和阿普萨拉斯侍奉,沿着那条大道前往阎摩之居。
14.100.67
ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः ।
ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः ॥ १४.१००.६७ ॥
常说真实无垢之言的人,也乘坐如洁白云朵般的天车,由公牛牵引而去。
14.100.68
कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः ।
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ॥ १४.१००.६८ ॥
人们将以卡皮拉牛为首的功德牛施舍给婆罗门,尤其是学识渊博的婆罗门。
14.100.69
ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः ।
वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः ॥ १४.१००.६९ ॥
他们肤色纯净,乘坐由公牛牵引的天车,抵达毗婆娑多(阎摩)之城,并受到天女的侍奉。
14.100.70
उपानहौ च च्छत्रं च शयनान्यासनानि च ।
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च ॥ १४.१००.७० ॥
把鞋子、伞盖、床榻、座位、衣服和饰品施予婆罗门的人。
14.100.71
ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः ।
धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः ॥ १४.१००.७१ ॥
他们以骏马、公牛或大象装饰,在金伞映衬下,前往法王那美丽的城市。
14.100.72
ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च ।
स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः ॥ १४.१००.७२ ॥
怀着至上的信心,把可食之物、饭食、饮料和油润的谷物施予婆罗门的人。
14.100.73
ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम् ।
वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः ॥ १४.१००.७३ ॥
他们乘坐金车快乐地前往毗婆娑多(阎摩)之居,随心所欲地被成千上万的美女侍奉。
14.100.74
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः ॥ १४.१००.७४ ॥
那些怀着信心、品行端正的人,恭敬地把牛奶、酥油、凝乳、糖蜜和蜂蜜布施给婆罗门。
14.100.75
चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः ।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ १४.१००.७५ ॥
他们乘坐以麻鸭(chakravāka)鸟拉动的金色吉祥车,在乾闼婆的乐声中被侍奉,前往阎摩之居。
14.100.76
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ १४.१००.७६ ॥
布施果实与芬芳花朵的人,乘坐以天鹅拉动的天车前往法城。
14.100.77
ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् ।
ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः।
पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम्। ॥ १४.१००.७७ ॥
把浸透酥油的各色食物布施给婆罗门的人,乘坐如无垢云般、疾如风的天车,前往死神之主那座众人聚集的城市。
14.100.78
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् ।
ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः ॥ १४.१००.७८ ॥
布施水——一切众生的生命——的人,满足地快乐前往,乘坐由天鹅牵引的宫殿。
14.100.79
ये तिलं तिलधेनुं वा धृतधेनुमथापि च ।
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ॥ १४.१००.७९ ॥
那些怀着温良之心,把芝麻、芝麻做的牛或酥油做的牛布施给博学婆罗门的人。
14.100.80
सूर्यमण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः ।
गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप ॥ १४.१००.८० ॥
大王啊,他们乘坐如太阳圆盘般清净的车辆,在乾闼婆的歌颂声中,前往毗婆娑多之子阎摩的城市。
14.100.81
येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च ।
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः ॥ १४.१००.८१ ॥
凡是为他们建造了阶梯井、水井、池塘、湖泊、长形蓄水池、莲花池以及蓄满水的水池的人。
14.100.82
यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः ।
चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः।
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् ॥ १४.१००.८२ ॥
他们乘坐如月光般明亮、回响着天上铃声的车辆,被拂尘与棕榈扇轻轻扇动,那些大德之人,常得满足,光华甚盛,前往阎摩的居所。
14.100.83
येषां देवगृहाणीह चित्राण्यायतनानि च ।
मनोहराणि कान्तानि दर्शनीयानि भान्ति च ॥ १४.१००.८३ ॥
凡是在此建造了诸神庙宇和奇妙殿堂的人,这些殿堂光彩夺目,迷人、可爱,值得一观。
14.100.84
ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः ।
पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम् ॥ १४.१००.८४ ॥
他们乘坐如无瑕云朵般明亮、疾如风的天车,前往死神之主的城市,那里居住着众多邦国与民众。
14.100.85
वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् ।
यमेन पूजिता यान्ति देवसालोक्यतां ततः ॥ १४.१००.८५ ॥
他们见到毗婆娑之子阎摩心中欢喜、安住于乐;受阎摩尊敬之后,随即得到与天神同居的境界。
14.100.86
देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम् ।
शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये।
ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम् ॥ १४.१००.८६ ॥
为诸神之故,在世间的水亭中,将以瓶汲取的清凉甘美之水施给口渴之人,他们便得最高的满足,获得幸福的大道。
14.100.87
काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः ।
सौवर्णमणिपीठे तु पादं कृत्वा स्थोत्तमे ॥ १४.१००.८७ ॥
施舍木屐的人,安乐地走过那条路;将脚踏在金与宝石的上好座台上,便站立于其上。
14.100.88
आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः ।
संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम् ॥ १४.१००.८८ ॥
那些种植园林和树林,并不懈地培育,直至它们以果实与花朵装饰的人。
14.100.89
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः ।
यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः। ॥ १४.१००.८९ ॥
他们在树荫中清凉宜人的地方装饰得很好,乘坐天界的车辆,一次又一次地受到尊敬。
14.100.90
सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः ।
स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम् ॥ १४.१००.९० ॥
由容貌美好、色如金的上等女子精心侍奉,他们随心所欲,安然自在地生活。
14.100.91
अश्वयानं तु गोयानं हस्तियानमथापि च ।
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः ॥ १४.१००.९१ ॥
凡布施给婆罗门马车、牛车或象车者,乘坐如金色般的天车前往。
14.100.92
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा ।
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः।
ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ॥ १४.१००.९२ ॥
凡布施金、银、珊瑚或珍珠者,乘坐如金般光辉的天车而行;由众美女侍奉,安乐前往。
14.100.93
भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः ।
उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः ॥ १४.१००.९३ ॥
布施土地者,满足一切愿望,乘坐如初升太阳般的天车,由公牛驾驭,前往那个世界。
14.100.94
कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च ।
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ १४.१००.९४ ॥
凡将少女布施给婆罗门或精通吠陀者,乘坐天车,被天女环绕,前往阎摩之所。
14.100.95
सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च ।
प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः ॥ १४.१००.९५ ॥
怀着至上的虔敬,将香料、香料调和物与芳香的花朵布施给最优秀的再生者的人。
14.100.96
सुगन्धाः धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ।
यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ॥ १४.१००.९६ ॥
芬芳者以奇妙的车辆庄严,前往法城;以奇妙的车辆庄严,他们前往法城。
14.100.97
दीपया यान्ति यानैश्च द्योतयन्तो दिशो दश ।
आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः ॥ १४.१००.९७ ॥
他们带着灯火乘车而行,照亮十方,形貌如日,光耀如火。
14.100.98
गृहावसथदातारो गृहैः काञ्चनवेदिकैः ।
व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः ॥ १४.१००.९८ ॥
施舍房屋与居所的人,乘着饰有金色祭坛、如朝阳般光耀的宫殿,前往法王之城。
14.100.99
जलभाजनदातारः कुण्डिकाकरकप्रदाः ।
पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः ॥ १४.१००.९९ ॥
施舍水器、水罐与水瓶的人,受到优秀女子的礼敬,心满意足地乘坐大象而去。
14.100.100
पादाभ्यङ्गं शिरोभ्यह्गं पानं पादोदकं तथा ।
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ १४.१००.१०० ॥
凡为婆罗门涂抹双足与头顶、奉上饮水与洗足之水的人,乘马前往阎摩之居。
14.100.101
विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् ।
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च ॥ १४.१००.१०१ ॥
在路上为疲惫羸弱的婆罗门提供休息的人,乘坐以遮克拉瓦卡鸟牵引的车辆而行。
14.100.102
स्वागतेन च यो विप्रान्पूजयेदासनेन च ।
स गच्छति तदध्वानं सुखं परमनिर्वृतः ॥ १४.१००.१०२ ॥
以迎接与座位礼敬婆罗门的人,欢喜圆满地走上那条道路。
14.100.103
नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत् ।
व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत् ॥ १४.१००.१०३ ॥
见到我时说“敬礼婆罗门之神”而致敬、并且始终像持戒者一样自制的人,便能安乐地到达那一境界。
14.100.104
नमः सर्वसहाभ्यश्चेत्यभिख्याय दिनेदिने ।
नमस्करोति नित्यं गां स सुखं याति तत्पथं ॥ १४.१००.१०४ ॥
每日宣说“敬礼能忍受一切之牛”,并始终向牛行礼的人,安乐地走那条道路。
14.100.105
नमोस्तु प्रियदत्तायेत्येवंवादी दिनेदिने ।
भूमिमाक्रमते प्रातः सयनादुत्थितश्च यः ॥ १४.१००.१०५ ॥
每日说“敬礼赐予所爱之地母”,清晨从床上起身并踏上大地的人。
14.100.106
सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः ।
याति यानेन दिव्येन सुकं वैवस्वतालयम् ॥ १४.१००.१०६ ॥
心满足于一切欲望,佩戴一切装饰,他乘着天界之车安乐地前往毗婆娑多(阎摩)之居。
14.100.107
अनत्तराशिनो ये तु डंभानृतविवर्जिताः ।
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् ॥ १४.१००.१०७ ॥
少食且远离虚伪与谎言的人,也乘着以仙鹤所驾之车安乐地前行。
14.100.108
ये चाप्येकेन भुक्तेन डंभानृतविवर्जिताः ।
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ १४.१००.१०८ ॥
一日只食一餐且远离虚伪与谎言的人,也乘着以天鹅所驾的天车安乐地前往阎摩之居。
14.100.109
चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः ।
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः ॥ १४.१००.१०९ ॥
诸根已调伏、仅于第四时进食而生活者,乘以孔雀驾驭的车辆前往法城。
14.100.110
तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः ।
तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः ॥ १४.१००.११० ॥
于此诸根已调伏、三日一食者,亦乘象车行于那条如金般闪耀的道路。
14.100.111
षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते ।
कामक्रोधवनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः।
स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः ॥ १४.१००.१११ ॥
唯于第六时进食、度过一年,离于欲与怒,常清净、调伏诸根者,在胜利之声中,与立于象上者同行而去。
14.100.112
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः ।
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम् ॥ १४.१००.११२ ॥
行半月斋戒者,乘以虎驾驭的车辆,前往法王的美丽城池,那里有诸天女众侍奉。
14.100.113
ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः ।
तेऽपि सूर्यादयप्रख्यैर्यान्ति यानैर्यमालयम् ॥ १४.१००.११३ ॥
诸根收摄、行一月斋戒者,乘如太阳般的车辆前往阎摩之居。
14.100.114
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना ।
स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ १४.१००.११४ ॥
心系于我而入火者,乘如火般光明的天车前往阎摩之居。
14.100.115
गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च ।
ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः ॥ १४.१००.११५ ॥
为牛、为女人或为婆罗门而被杀者,如太阳般光辉,被天神之女侍奉而行。
14.100.116
ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः ।
ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः ॥ १४.१००.११६ ॥
那些调伏诸根、奉我为依归而行朝圣的大德,乘车沿着那条路,心满意足地前往。
14.100.117
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः ।
हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम् ॥ १४.१००.११७ ॥
那些以丰厚布施行祭祀的再生者中的上首,乘着以天鹅和鹤拉的车辆,沿着那条路前往。
14.100.118
परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः ।
तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः ॥ १४.१००.११८ ॥
不伤害他人而供养仆从的人,乘着金光灿烂的天车,安乐地沿着那条路前往。
14.100.119
ये समाः सर्वभूतेषु जीवानामभयप्रदाः ।
क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा। ॥ १४.१००.११९ ॥
对一切众生一视同仁,施予生灵无畏,摆脱愤怒与贪欲,并且制伏诸根的人。
14.100.120
पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः ।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ १४.१००.१२० ॥
乘着如满月般的天车,光辉灿烂,在诸天神与乾闼婆的侍奉下前往毗婆娑之城。
14.100.121
ये मामेकान्तभावेन देवं त्र्यंबकमेव वा ।
पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने।
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः ॥ १४.१००.१२१ ॥
凡以专一之心日复一日礼拜我或三眼神、致敬并赞颂者,乘着如太阳般光辉的车辆前往法王之城。
14.100.122
पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः ।
यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा ॥ १४.१००.१२२ ॥
在那里,法神亲自以花环等吉祥之物供奉他们,然后他们前往法界,或前往楼陀罗界。