Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.102

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.102.1

अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम् ॥ १४.१०२.१ ॥

此后,我将宣说最上等的施地之德。

14.102.2

यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् ।
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ॥ १४.१०२.२ ॥

般度之子啊!若有人将美好的土地连同供养施予精通吠陀、贫穷而奉行火祭的婆罗门,

14.102.3

स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः ।
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा ॥ १४.१०२.३ ॥

他心满足于一切所愿,以一切珍宝庄严,脱离一切罪业,永远如太阳般光辉。

14.102.4

बालसूर्यप्रकाशेन विचित्रध्वजशोभिना ।
याति यानेन दिव्येन मम लोकं महायशाः ॥ १४.१०२.४ ॥

乘坐如初升太阳般光辉、以五彩旗幡庄严的天车,这位大名之人前往我的世界。

14.102.5

तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् ।
कामगः कामरूपी च क्रीडत्यप्सरसांगणैः ॥ १४.१०२.५ ॥

在那里,天女们随心侍奉,他随意而往、随愿变化身形,与众阿普萨拉斯嬉戏欢乐。

14.102.6

यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह ।
तावद्भूमिप्रदः काले मम लोके महीयते ॥ १४.१०२.६ ॥

俱卢族的承担者啊!大地承载诸世界多久,施地者便在我的世界受到尊崇多久。

14.102.7

न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते ।
न चापि भूमिहरणात्पापमान्यद्विशिष्यते ॥ १४.१०२.७ ॥

没有比施舍土地更高的布施,也没有比夺取土地更大的罪过。

14.102.8

दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव ।
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते ॥ १४.१०२.८ ॥

库鲁族的雄牛啊,其他布施会随时间而减损;然而施舍土地的功德却绝不会衰减。

14.102.9

ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः ।
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु ॥ १४.१०२.९ ॥

人中之虎啊,请听那不侵害施予贫穷婆罗门之土地者所得的功德果报。

14.102.10

सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला ।
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत् ॥ १४.१०२.१० ॥

这大地延伸至七大洲与四海,充满珍宝堆积,富有山林与城堡,由他施予而成。

14.102.11

भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे ।
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् ॥ १४.१०२.११ ॥

众生看到土地被施予通晓经典、供奉火祭的婆罗门,便欣然认为是他在施予我。

14.102.12

सुवर्णमणिरत्नानि धनानि च वसूनि च ।
सर्वदानानि वै राजन्ददाति वसुधां ददत् ॥ १४.१०२.१२ ॥

大王啊,施予黄金、宝珠、珍宝、财富与珍藏者,便是施予了一切布施;而施予大地时,他便是施予了大地本身。

14.102.13

सागरान्सरितः शैलान्समानि विषमाणि च ।
सर्वगन्धरसांश्चैव ददाति वसुधां ददत् ॥ १४.१०२.१३ ॥

他施予海洋、江河、山岳、平地与险地,以及一切香气与滋味;施予大地者,便施予这一切。

14.102.14

ओषधीः फलसंपन्ना नानापुष्पसमन्विताः ।
कमलोत्पलषण्डांश्च ददाति वसुधां ददत् ॥ १४.१०२.१४ ॥

他施予结满果实、开满各色花朵的草木,以及荷花与睡莲丛;施予大地者,便施予这一切。

14.102.15

धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च ।
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत् ॥ १४.१०२.१५ ॥

他施予法、欲与利,施予吠陀与祭祀,以及行走于天界之路的进程;施予大地者,便施予这一切。

14.102.16

अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः ।
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम् ॥ १४.१०२.१६ ॥

以阿耆尼稷多摩等祭祀并奉上祭司的酬报而祭祀的人,不能得到那布施土地所得的果报。

14.102.17

श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव ।
तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः।
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन ॥ १४.१०२.१७ ॥

若将大地施予通晓吠陀的婆罗门,且不加伤害——般度之子啊,世人将称颂此施,只要诸世界存续;般度之子啊,他也将享受天界的福乐,直至那时。

14.102.18

सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति ।
पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम् ॥ १४.१०२.१८ ॥

若将盈满庄稼的大地施予通晓吠陀的婆罗门,其祖先便会得到满足,直至众生毁灭之时。

14.102.19

मम रुद्रस्य सवितुस्त्रिदशानां तथैव च ।
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै ॥ १४.१०२.१९ ॥

君王之主啊,你要知道,施与婆罗门的土地,是为了使我、楼陀罗、萨维特里与三十三天欢喜。

14.102.20

तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर ।
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा ॥ १४.१०२.२० ॥

犹地什提拉啊,凭此功德,施地者洗净了灵魂,便能获得与我同住的世界;此事不必怀疑。

14.102.21

यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः ।
स च गोकर्णमात्रेण भूमिदानेन शुध्यति ॥ १४.१०२.२१ ॥

人因生计所困而造下任何罪过,也能凭布施一块牛耳大小的土地而得清净。

14.102.22

मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च ।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥ १४.१०२.२२ ॥

月余绝食、克里查罚和月盈月亏的旃陀罗衍罚中所有的功德,同样被规定为施与一块牛耳大小土地的功德。

14.102.23

सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम् ।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥ १४.१०२.२३ ॥

在一切圣渡口沐浴所宣说的功德,同样被规定为施与一块牛耳大小土地的功德。

14.102.24

देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर ।
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः ॥ १४.१०२.२४ ॥

众神之神、婆苏提婆、诸天之主,向您致敬。请您如实宣说牛耳的标准。

14.102.25

शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन ।
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम् ॥ १४.१०२.२५ ॥

般度之子啊,请听Gokarṇa的尺度:它以三十Daṇḍa的量度在四方皆被测量。

14.102.26

प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम् ।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप ॥ १४.१०२.२६ ॥

诸王之王啊,西与东,同样南与北:知者称Gokarṇa为大地之量,国王啊。

14.102.27

सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम् ।
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते ॥ १४.१०२.२७ ॥

一百头母牛连同公牛及小牛,无拘束地安然而立之处,库鲁虎啊,那也称为Gokarṇa。

14.102.28

किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ १४.१०२.२८ ॥

阎摩的侍从、死亡之杖、可怕的Kumbhīpāka地狱,以及水神Varuṇa的恐怖绳索,都不会靠近施地者。

14.102.29

निरया रौरवाद्याश्च तथा वैतरणी नदी ।
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम् ॥ १४.१०२.२९ ॥

始于Raurava的地狱、Vaitaraṇī河,以及所施加的酷烈折磨,都不会靠近施地者。

14.102.30

चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च ।
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम् ॥ १४.१०२.३० ॥

Citragupta、Kali、Kāla、Kṛtānta、死神,以及尊贵的阎摩本人,都礼敬施地者。

14.102.31

रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा ।
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम् ॥ १४.१०२.३१ ॥

楼陀罗、生主、帝释天、诸天神与众仙人,以及我,心生欢喜,大王,都敬拜施地者。

14.102.32

कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः ।
भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः ॥ १४.१०२.३२ ॥

应将土地施予仆役贫弱、牛羊瘦弱、马匹瘦弱,且曾款待客人的人,人中之尊;那是来世的宝藏。

14.102.33

सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे ।
व्रस्थाय दरिद्राय भूमिर्देया नराधिप ॥ १४.१०२.३३ ॥

应将土地施予семья困苦的博学婆罗门、火祭供奉者,即使堕落贫困,人主啊。

14.102.34

यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् ।
दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा ॥ १४.१०२.३४ ॥

犹如乳母以自己的乳汁养育孩子,被施予的大地也会庇佑施主。

14.102.35

यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः ।
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम् ॥ १४.१०२.३५ ॥

犹如母牛以自己的乳汁哺育小牛,具备一切美德的大地也托载施地者。

14.102.36

यथा बीजनि रोहन्ति जलसिक्तानि भूपते ।
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने ॥ १४.१०२.३६ ॥

犹如洒水的种子生长,大地之主啊,施地者的愿望也日日增长。

14.102.37

यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति ।
तथा पापं नरस्येह भूमिदानं व्यपोहति ॥ १४.१०२.३७ ॥

如同太阳之光驱散一切黑暗,此处的布施土地也驱散人的罪过。

14.102.38

दाता दशानुगृह्णाति यो हरेद्दश हन्ति च ।
अतीतान्यागतानीह कुलानि कुरुपुङ्गव ॥ १४.१०२.३८ ॥

施予者庇佑十代人,夺取者毁灭十代人。库如之最优者啊,此处过去与未来的家族也因此受到影响。

14.102.39

आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः ।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥ १४.१०२.३९ ॥

若有人许诺并已施予土地,之后又夺回,他将被婆楼那的绳索缚住,抛入脓血之中。

14.102.40

स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम् ।
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित् ॥ १४.१०२.४० ॥

凡夺取土地者,无论是自己所施还是他人所施,从那可怕的地狱中,任何地方都没有赎罪之路。

14.102.41

ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान् ।
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः ॥ १४.१०२.४१ ॥

夺取婆罗门田地者,毁灭十二位先祖。他将堕入虫类之胎,永不得解脱。

14.102.42

दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति ।
गवां शतसहस्रस्य हन्तुः स लभते फलम् ॥ १४.१०२.४२ ॥

若有人将土地施予最优秀的再生者,却又靠这同一块土地为生,他将得到杀死十万头牛者的果报。

14.102.43

सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते ।
दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः।
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव ॥ १४.१०२.४३ ॥

罪人Sodhaśśirās在颇吸地狱(Kumbhīpāka)中被烹煮。经过千年神年,从Kumbhīpāka出来后,这位再生婆罗门在此世成为狗,在夜生之中,啊,般度之子。

14.102.44

दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति ।
स मूढो याति दुष्टात्मा नरकानेकविंशतिम्।
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति ॥ १४.१०२.४४ ॥

若有人将土地布施给再生婆罗门中的最优者,却又靠这同一块土地生活,那愚昧、心怀恶念之人将堕入二十一层地狱;脱离地狱后,他投生为狗。

14.102.45

हलकृष्टा मही देया सबीजा सस्यमालिनी ।
अथवा सोदका देया दरिद्राय द्विजातये ॥ १४.१०२.४५ ॥

应当布施经犁耕作、带有种子、以庄稼装饰的土地;或者应当把有水的土地布施给贫穷的再生婆罗门。

14.102.46

एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना ।
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च ॥ १४.१०२.४६ ॥

如此,啊,国王,当以喜悦的内心布施土地时,人便获得心中所想的一切愿望。

14.102.47

बहुभिर्वसुधा दत्ता दीयते च नराधिपैः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १४.१०२.४७ ॥

许多国王曾布施大地,现在也在布施;谁在何时拥有土地,那时其果报便属于谁。

14.102.48

यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै ।
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु ॥ १४.१०२.४८ ॥

谁把美丽的少女嫁给精通吠陀的学者,他便是梵施;啊,王中至尊,请听他的功德果报。

14.102.49

बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् ।
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम् ॥ १४.१०२.४९ ॥

大王啊,布施千头驾轭之牛所得的功德,以嫁女布施,便能获得同样的果报。

14.102.50

गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम् ।
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम् ॥ १४.१०२.५० ॥

如法布施十万头牛所得的果报,施与少女者便能完全获得这同样的果报。

14.102.51

यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥ १४.१०२.५१ ॥

俱卢之牛啊,少女身上有多少根毛发,他便在我的世界中受尊崇多少千年。

14.102.52

ततश्चापि च्युतः कालादिह लोके स जायते ।
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः ॥ १४.१०२.५२ ॥

此后时节一到,他从彼界坠落,在此世间出生为再生婆罗门,通晓六支与四吠陀,为一切世界所尊崇。

14.102.53

यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति ।
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव ॥ १४.१०२.५३ ॥

般度之子啊,施舍黄金给贫穷的婆罗门——他通晓吠陀、品行端正、多子嗣。

14.102.54

स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः ।
विमानं दिव्यामारूढः कामगः कामभोगवान्
वर्षकोटिं महातेजा मम लोके महीयते ॥ १४.१०२.५४ ॥

他脱离一切罪业,光明如初升之日,乘上神圣的天车,随意往来,享受所愿之乐;这位大光者在我的世界中受尊崇千万年。

14.102.55

ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते ।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥ १४.१०२.५५ ॥

随后时机成熟,他降生于此世,成为通晓吠陀及其支分之学的婆罗门,并成为拥有千万财富的主人。

14.102.56

यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये ।
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः ॥ १४.१०२.५६ ॥

若将白银布施给贫穷的再生者——生计艰难、牛群羸弱之人——此人便脱离一切罪恶。

14.102.57

पूर्णचन्द्रप्रकाशेन विमानेन विराजता ।
कामरूपि यथाकामं स्वर्गलोके महीयते ॥ १४.१०२.५७ ॥

以满月般的光辉,乘坐光彩耀目的天车,能随意变化形相,他在天界受到尊崇。

14.102.58

ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः ।
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान् ॥ १४.१०२.५८ ॥

随后,在时机到来时降临此世,他成为名声显赫、受万界尊崇、光荣而有威力的国王。

14.102.59

तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति ।
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् ॥ १४.१०२.५९ ॥

请听那布施一座芝麻山给博学婆罗门、尤其是贫穷者之人的果报。

14.102.60

पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन ।
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत् ॥ १४.१०२.६० ॥

般度之子啊,获得那在放生一万头公牛时所宣说的功德者,当下即得清净。

14.102.61

यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत् ।
तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति ॥ १४.१०२.६१ ॥

如蛇脱去旧皮而身体清净,同样,布施芝麻之人舍弃罪过,便得清净。

14.102.62

तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम् ।
विमानं दिव्यमारूढः पितृलोके महीयते ॥ १४.१०२.६२ ॥

供奉以黄金装饰的芝麻堆者,乘上天界神车,在祖灵界受到尊崇。

14.102.63

षष्टिं वर्षसहस्राणि कामरूपी महायशाः ।
तिलप्रदाता रमते पितृलोके यथासुखम् ॥ १४.१०२.६३ ॥

大名远扬、能随意变化形貌的施芝麻者,在祖灵界随心所欲地欢乐六万年。

14.102.64

यः प्रयच्छति विप्राय तिलधेनुं नराधिप ।
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् ॥ १४.१०२.६४ ॥

人主啊,请听那将芝麻牛布施给贫穷有学婆罗门者的果报。

14.102.65

गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः ॥ १४.१०२.६५ ॥

据说布施千头牛所得的功德,施予芝麻牛者便获得同样的功德果报。

14.102.66

तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति ।
तावत्कोटिसमा राजन्स्वर्गलोके महीयते ॥ १४.१०२.६६ ॥

大王啊,以一庫達瓦量的芝麻布施芝麻牛者,在天界受到尊崇,历时与其数相当的亿万年。

14.102.67

अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप ।
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति।
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु ॥ १४.१०२.६७ ॥

人主啊,凡以八阿达卡芝麻制作芝麻牛,并连同三十二尼什卡,在春分或秋分时布施者,以对我的虔诚、心意专注于我,请听他所得的功德果报。

14.102.68

कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् ।
तत्पुण्यं समनुप्राप्तो मम लोके महीयते ॥ १४.१०२.६८ ॥

若获得依仪轨所施的千次嫁女布施之果报,他便在我的世界受到尊崇。

14.102.69

मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते ।
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः ॥ १४.१०२.६९ ॥

他从我的世界降临,在此世出生,成为精通《梨俱》《夜柔》《娑摩》三吠陀的婆罗门中的俊杰。

14.102.70

गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति ।
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं ॥ १४.१०२.७० ॥

若将一头欢喜、产乳、神圣、带着小牛并附铜制挤奶器的母牛布施给贫穷的博学婆罗门,

14.102.71

यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः ।
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः ॥ १४.१०२.७१ ॥

国王啊,他先前所作的任何恶业,都会在那一刻全部消灭,此无疑问。

14.102.72

यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम् ।
आरूढः कामगं दिव्यं गोलोकमधिगच्छति ॥ १४.१०२.७२ ॥

他登上由公牛牵引、光辉灿烂、装饰精美、随意而行的天上车辆,抵达牛界(戈洛卡)。

14.102.73

यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप ।
तावद्वर्षसहस्राणि गवां लोके महीयते ॥ १४.१०२.७३ ॥

人主啊,那头牛身上有多少根毛,他便在牛的世界受尊崇多少千年。

14.102.74

गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत् ।
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः ॥ १४.१०२.७४ ॥

他从牛的世界降生,在此世成为婆罗门,行萨特罗祭,诵读吠陀,受所有国王的敬重。

14.102.75

तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा ।
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ॥ १४.१०२.७५ ॥

大臂者啊,施予婆罗门的芝麻、牛、金、食物、少女与土地,在此世度脱施主。

14.102.76

ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम् ।
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः ॥ १४.१०२.७६ ॥

国王啊,依法使具足善行、供奉圣火、不贪的婆罗门满足者,便是来世的宝藏。

14.102.77

आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम् ।
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् ॥ १४.१०२.७७ ॥

供奉圣火、贫穷、精通吠陀、克制诸根、不食首陀罗之食的再生者,应当恭敬地供养。

14.102.78

आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित् ।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ १४.१०२.७८ ॥

供奉圣火者常为合宜的受施者,行日常火祭、通晓吠陀者亦然;然而在合宜者之中,最合宜的是腹中从未入过首陀罗之食者。

14.102.79

यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् ।
असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥ १४.१०२.७९ ॥

由吠陀构成的器皿、由苦行构成的器皿,以及纯净无杂的器皿——这器皿将渡人过河。

14.102.80

नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये ।
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते ॥ १४.१०२.८० ॥

常习诵读吠陀、感官纯净、恒常专注于五祭者——受到尊敬之后,他们便能渡人。

14.102.81

ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा ।
जितेन्द्रियाः प्राणिवधै निवृत्ताः।
प्रतिग्रहे संकुचिता गृहस्था-
स्ते ब्राह्मणास्तारयितुं समर्थाः ॥ १४.१०२.८१ ॥

那些忍耐克己、耳中充满圣典、已战胜诸根、戒杀生、作为居士而在受施时有所节制的婆罗门,他们能够渡人。

14.102.82

नित्योदकी नित्ययज्ञोपवीती ।
नित्यस्वाध्यायी वृषलान्नवर्जी।
क्रतौ गच्छन्विधिवच्चापि जुह्व-
त्स ब्राह्मणस्तारयितुं समर्थः ॥ १४.१०२.८२ ॥

每日以水沐浴、常戴圣线、每日诵读吠陀、避开首陀罗的食物、依规则前往祭祀并行奉献的婆罗门——此婆罗门能够渡人。

14.102.83

ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः ।
मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम् ॥ १४.१०२.८३ ॥

那位婆罗门若是我的虔信者,依恋于我,以我为至上归依,并将自己的行为托付于我——此智者必定能渡人。

14.102.84

द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति ॥ १४.१०२.८४ ॥

若婆罗门通晓十二字真谛,明了四重显现的分别,并知晓无瑕的五时教义——此婆罗门将渡人。