Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.105

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.105.1

दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ १४.१०५.१ ॥

听闻布施之功德果报与苦行之功德果报,法子心中欢喜,再次对迦沙婆说道。

14.105.2

या चैषा कपिला देव पूर्वमुत्पादिता विभो ।
होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ॥ १४.१०५.२ ॥

神啊,大能者啊,这头在往昔由四面梵天所生的赤色母牛,永远是供祭的圣牛,摩陀婆啊。

14.105.3

सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा ।
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ॥ १४.१०५.३ ॥

此具功德相的母牛应当如何施与婆罗门?在哪一天,或者任何一天施与?应当施与何种婆罗门?

14.105.4

कथिता कपिला प्रोक्ता स्वयमेव स्वयंभुवा ।
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः ॥ १४.१०५.४ ॥

此赤色母牛由自生者亲自宣说。神啊,应由何人施与她们?我愿如实听闻。

14.105.5

एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि ।
अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च ॥ १४.१०५.५ ॥

在集会中,法子如此发问,希利施柯沙便讲述了赤色母牛的数目及其殊胜。

14.105.6

शृणु पाण्डव तत्वेन पवित्रं पावनं परम् ।
यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते ॥ १४.१०५.६ ॥

般度之子啊,请如实听闻。此乃至为清净、能净化之法。听闻此法,即便作恶之人也能脱离罪业。

14.105.7

अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम् ।
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् ॥ १४.१०५.७ ॥

她仿佛生于火中,神圣而光辉如火焰;她的角如火舌般闪耀,眼睛如燃烧的炭火。

14.105.8

अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम् ।
तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम् ॥ १४.१०५.८ ॥

她的尾巴如火,蹄如火,毛发闪耀着火焰的光辉;她属火,舌如火,颈如火,光焰熊熊。

14.105.9

भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः ।
पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते ॥ १४.१०५.९ ॥

那些被贪婪迷惑而食用赤褐色母牛的首陀罗,应被视为堕落者,因为他们与旃陀罗相似。

14.105.10

न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम् ।
दूराच्च परिहर्तव्या महापातकिनोपि ते ॥ १४.१०५.१० ॥

任何婆罗门都不应在他们的家中接受布施;而这些大罪人应当远远避开。

14.105.11

सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः ।
ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः ॥ १४.१०५.११ ॥

他们始终被众人、祖先与诸神所弃;绝不可接受他们为受施者,也不可与这些罪人交谈。

14.105.12

पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः ।
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत् ॥ १४.१०५.१२ ॥

只要他们饮用赤褐色母牛的乳汁,他们的祖先便会像狗和豺狼一样在地上食用污秽之物。

14.105.13

कपिलाया दधि क्षीरं घृतं तक्रमथापि वा ।
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु ॥ १४.१०५.१३ ॥

现在听那些食用卡毗拉牛的酸奶、牛奶、酥油或酪浆的首陀罗的归宿。

14.105.14

कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् ।
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् ॥ १४.१०५.१४ ॥

以卡毗拉牛为生的首陀罗死后堕入荣罗地狱,在那可怕的荣罗中受苦,停留一亿年。

14.105.15

ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति ।
श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ॥ १४.१०५.१५ ॥

此后时限一到,他投生为狗;从狗胎中坠落,便在粪便中化为虫而生。

14.105.16

विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः ।
तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति ॥ १४.१०५.१६ ॥

最为罪孽深重者,在粪坑与臭秽之处千百次到处投生,从那里却找不到出路。

14.105.17

ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम् ।
ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः ॥ १४.१०५.१७ ॥

凡婆罗门在他们家中接受布施,从那天起,他的祖先也成为饮用不净之物的人。

14.105.18

न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत् ।
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः ॥ १४.१०५.१८ ॥

不可与他交谈,也不可同坐一座;他是婆罗门中最卑下者,应当永远远远地避开。

14.105.19

यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा ।
प्राजापत्यं चरेत्कृच्छ्रं स च तेन विसुद्ध्यति ॥ १४.१०५.१९ ॥

与之交谈或同床而卧者,应行生主克里查赎罪,唯此方得清净。

14.105.20

कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् ।
प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः ॥ १४.१०५.२० ॥

若婆罗门接受依靠迦毗罗牛为生的首陀罗之施舍,其忏悔即如此,此无疑。

14.105.21

ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा ।
मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः ॥ १४.१०५.२१ ॥

应行梵丘(brahma-kūrca)或月行(cāndrāyaṇa)赎罪;由此脱离罪过,也由此方才真正成为婆罗门。

14.105.22

कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयंभुवा ।
सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा ॥ १४.१०५.२२ ॥

往昔自生梵天汲取一切光明,为火祭或婆罗门而造出迦毗罗牛。

14.105.23

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन ॥ १४.१०५.२३ ॥

般度之子啊!迦毗罗牛是清净中最清净者,吉祥中最吉祥者,功德中最上的功德。

14.105.24

तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम् ।
दानानां परमं दानं निदानं ह्येतदक्षयम् ॥ १४.१०५.२४ ॥

诸苦行中,苦行本身最为殊胜;诸誓愿中,名为“伐罗多”的誓愿最为上妙;诸施舍中,最上之施舍为根本,且不可穷尽。

14.105.25

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ॥ १४.१०५.२५ ॥

般度之子啊,大地上的圣渡口与福德圣所,以及一切世界中纯净可爱之地——

14.105.26

एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा ।
लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम् ॥ १४.१०५.२६ ॥

创造众世界的梵天从这些中抽取光华,为了度化众世界,亲自造出了迦毗罗牛。

14.105.27

सर्वतेजोमयी ह्येषां कपिला पाण्डुनन्दन ।
सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम् ॥ १४.१०५.२७ ॥

般度之子啊,这些之中,迦毗罗牛始终由一切光华所成,充满甘露,适于祭祀,清净,是至上的净化者。

14.105.28

क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा ।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ॥ १४.१०५.२८ ॥

二生者应以迦毗罗牛的乳、凝乳或酥油,早晚供奉阿耆尼广祭(阿耆尼呼特拉)。

14.105.29

कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः ।
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो ॥ १४.१०५.२९ ॥

主啊,那些婆罗门依规则用迦毗罗牛的酥油、凝乳或乳汁供奉阿耆尼广祭——

14.105.30

पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः ।
शूद्रान्नाद्विरता नित्यं डंभानृतविवर्जिताः ॥ १४.१०५.३० ॥

那些获得至上虔敬、敬奉宾客、始终远离首陀罗之食、并无虚伪与妄语者——

14.105.31

ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः ।
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम् ॥ १४.१०५.३१ ॥

这些再生者中的最优者乘坐如太阳般光辉的天车,穿过太阳圆盘的中央,前往至高的梵天世界。

14.105.32

ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः ।
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम् ॥ १४.१०५.३२ ॥

他们在梵天的神圣居所中,随意前往,随意变化形体,受梵天尊崇,欢喜度过不灭的劫。

14.105.33

एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः ।
आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता ॥ १४.१०५.३३ ॥

因此,大王,赤褐色的母牛迦毗拉是圣洁的,是咒语甘露的钻木;她就是梵天在起初于火中所造的弥多丽。

14.105.34

शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव ।
ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने ॥ १४.१०५.३४ ॥

般度之子啊,依梵天之命,一切圣渡每日都住在迦毗拉牛的角尖上。

14.105.35

प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् ।
यश्च्युतामंबुधारां वै शिरसा प्रयतः शुचिः ॥ १४.१०५.३५ ॥

凡人若清晨起身,克制且清净,将从迦毗拉牛角顶落下的水流承于头顶——

14.105.36

स तेन पुण्यतीर्थेन सहसा हतकिल्विषः ।
जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम् ॥ १४.१०५.३६ ॥

他借此圣渡,立刻脱离罪过,并焚尽三世所作之罪,如火焚草。

14.105.37

मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत् ।
स्नानेन तेन पुण्येन नष्टपापः स मानवः।
त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः ॥ १४.१०५.३७ ॥

若人以迦毗罗母牛之尿触摸自己的生命气息,以此功德沐浴,罪业尽除之人,便能脱离三十年所造之罪,此事无疑。

14.105.38

प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम् ।
तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप ॥ १४.१०५.३८ ॥

若人清晨起身,虔诚地供奉一把草,则其三十夜所造之罪便会消灭,大王。

14.105.39

प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥ १४.१०५.३९ ॥

若人清晨起身,虔诚地行右绕,便已绕行大地,此事无疑。

14.105.40

प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव ।
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम् ॥ १४.१०५.४० ॥

般度之子啊,以信心行一次右绕,他十夜所造之罪必定消灭。

14.105.41

कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः ।
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव ॥ १४.१०५.४१ ॥

般度之子啊,人若以迦毗罗母牛的五种产品清净后沐浴,便如同在恒河等圣地沐浴过一样。

14.105.42

तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव ।
दशरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १४.१०५.४२ ॥

大王啊,以那沐浴,有信心之人十夜所造之罪,便在那一刻消灭。

14.105.43

दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम् ।
व्यपोहति नरः पापमहोरात्रकृतं नृप ॥ १४.१०५.४३ ॥

国王啊,人若虔诚地看到红褐色的迦毗罗母牛并听到它的哞叫声,便能除去一昼夜所造的罪。

14.105.44

यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः ।
संवत्सरकृतं पापं विनाशयति पाण्डव ॥ १४.१०५.४४ ॥

般度之子啊,清净之人无论以身体哪个部位触摸迦毗罗母牛,都能消除一年所造的罪。

14.105.45

गोसहस्रं तु यो दद्यादेकां च कपिलां नरः ।
समं तस्य फलं प्राह ब्रह्मा लोकपितामहः ॥ १४.१०५.४५ ॥

世界祖父梵天说:施舍一千头牛的人与施舍一头迦毗罗母牛的人,其福报相等。

14.105.46

यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः ।
गोसहस्रं हतं तेन भवेन्नात्र विचारणा ॥ १४.१०५.४६ ॥

若有人因疏忽而如此杀害迦毗罗母牛,那就如同杀了一千头牛,此事毫无疑问。

14.105.47

यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये ।
गवां शतसहस्रं तु दत्तं भवति पाण्डव ॥ १४.१०५.४७ ॥

般度之子啊,若将一头迦毗罗母牛布施给通晓吠陀、持守圣火的婆罗门,便如同布施了十万头牛。

14.105.48

दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु ॥ १४.१०५.४८ ॥

自生之神亲自宣说了十头迦毗罗母牛;将它们布施给通晓吠陀的婆罗门者,将升天界——请听此言。

14.105.49

प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला ।
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला ॥ १४.१०५.४९ ॥

第一头是金色赤褐的,第二头是白皙赤褐的,第三头是红褐色眼睛的,第四头是喉部赤褐的。

14.105.50

पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला ।
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला ॥ १४.१०५.५० ॥

第五头是棕色的,第六头是白褐色的,第七头是颜色赤褐眼睛的,第八头是蹄部赤褐的。

14.105.51

नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ।
दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा ॥ १४.१०५.५१ ॥

第九头应知为淡红色的,第十头是尾部赤褐的。这十头赤褐牛被宣说;它们总能度人渡过彼岸。

14.105.52

मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः ।
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर ॥ १४.१०५.५२ ॥

它们吉祥、清净,能消除一切罪业。同样,哦,人王,十头挽车之牛也被宣说。

14.105.53

ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन ।
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः ॥ १४.१०५.५३ ॥

只有婆罗门可以驱赶它们,其他种姓无论如何都不可。再生族人也不可在田里或路上驱赶赤褐母牛。

14.105.54

वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया ।
न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः ॥ १४.१०५.५४ ॥

只应以呼喝声或带叶的树枝驱赶;不可用棍杖、木棒、绳索,也不可用其他任何东西。

14.105.55

न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान् ।
अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम् ॥ १४.१०५.५५ ॥

不应驱赶因饥渴与劳顿而疲惫、感官衰弱的牲畜。它们未饱之前自己不可进食;待它们饮过之后,自己才可饮水。

14.105.56

शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः ।
अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम् ॥ १४.१०५.५६ ॥

对于侍奉它们的人来说,这些母牛被称为母亲,那些公牛被称为父亲。在白天的前半段驱赶驾辕的牲畜是规定的。

14.105.57

विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम् ।
यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि। ॥ १४.१०५.५७ ॥

应在中途和最后让它们舒适地休息;但若有急事要做,或路上有危险,(则不必给予休息)。

14.105.58

वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते ।
भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन। ॥ १४.१०५.५८ ॥

在那里,驱赶驾辕牲畜的人不会被罪过玷污。啊,般度之子,否则他将承受如同杀胎一般的罪过。

14.105.59

अन्यथा वाहयन्राजन्निरयं याति रौरवम् ।
रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप। ॥ १४.१०५.५९ ॥

否则,不当驱赶牲畜的人,啊,国王,将堕入名为劳罗婆的地狱。而因迷惑而使它们流血的人,啊,人主,(同样会堕入那地狱)。

14.105.60

तेन पापेन पापात्मा नरकं यात्यसंशयम् ।
नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम्। ॥ १४.१०५.६० ॥

因这罪过,罪人无疑将堕入地狱;在所有地狱中历经数百数百年,(他承受苦难)。

14.105.61

इह मानुष्यके लोके बलीवर्दो भविष्यति ।
तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः ॥ १४.१०५.६१ ॥

他将在这人间世界成为一头公牛。因此,求解脱的人应当布施一头褐色母牛(卡毗拉)。

14.105.62

कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः ।
तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः ॥ १४.१०५.६२ ॥

被贪欲迷惑的卑贱之人使褐色母牛(卡毗拉)负重,由此也使三十三位神明和祖先负重。

14.105.63

स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः ।
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप ॥ १४.१०५.६३ ॥

那恶念之人,被诸神与祖先不断击打,大王啊,直到劫末,他要从一座可怖地狱走向另一座。

14.105.64

ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः ।
तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः।
निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं ॥ १४.१०५.६४ ॥

梵天、楼陀罗与火神也都获得了褐色母牛的归宿。因此不可杀害它们,应当礼敬,此无疑义。它们疲惫叹息之时,可能毁灭那一家族。

14.105.65

यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप ।
नरकेषूपपच्यन्ते तत्र तद्वाहका नराः ॥ १४.१०५.६५ ॥

大王啊,它们身上有多少根毛,就要在地狱中受煎熬数百年;那些使它们负重的人,也在那里被煎熬。

14.105.66

कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते ।
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः ॥ १४.१०५.६६ ॥

褐色母牛(卡毗拉)在一切祭祀中被规定为祭司的酬礼(达昔那)。因此,再生者应当在祭祀中以此作为酬礼布施。

14.105.67

होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः ।
श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे।
तेन दानेन पूतात्मा मम लोके महीयते ॥ १४.१०५.६७ ॥

谁用心将(母牛)布施给精通吠陀、贫穷疲惫、为火祭(agnihotra)而忧愁、具有无量光辉的婆罗门,谁便因此布施而灵魂清净,在我的世界中受到尊崇。

14.105.68

यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १४.१०५.६८ ॥

啊,युधिष्ठिर!黄褐色母牛身上有多少根毛,他便在天界受尊崇多少千年。

14.105.69

सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति ।
विषुवे चायने चापि सोऽश्वमेधफलं लभेत्।
तेनाश्वमेधतुल्येन मम लोकं स गच्छति ॥ १४.१०५.६९ ॥

谁布施带有金蹄和金角的黄褐色母牛,即使在春分、秋分或二至之时,他也获得马祭之果;以这与马祭相等的布施,他便往我的世界而去。

14.105.70

स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् ।
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम् ॥ १४.१०५.७० ॥

有金角、银蹄,带着小牛,配有铜制挤奶器,披着布帛装饰,肥壮,以香料和花环装点。

14.105.71

पवित्रं हि पवित्राणां सुरव्णमिति मे मतिः ।
तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे ॥ १४.१०५.७१ ॥

在所有能净化之物中,黄金最能净化——这是我的看法。因此,应将这头饰有金饰的母牛布施给火祭者(agnihotrin)。

14.105.72

एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि ।
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा ॥ १४.१०५.७२ ॥

啊,王中之王!如此布施之后,他将度脱之前的七代祖先以及之后的子孙。啊,王中之王!此事不应有任何怀疑。

14.105.73

अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम् ।
वाजपेयसहस्रस्य अश्वमेधं च तत्समम्।
अश्वमेधसहस्रस्य राजसूयं च तत्समम् ॥ १४.१०५.७३ ॥

千次阿耆尼输姆祭相当于一次伐阇婆耶祭,千次伐阇婆耶祭相当于一次马祭,千次马祭相当于一次王祭。

14.105.74

कपिलानां सहस्रेण विदिदत्तेन पाण्डव ।
राजसूयफलं प्राप्य मम लोके महीयते।
न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव ॥ १४.१०५.७४ ॥

般度之子啊,以千头赤褐色母牛布施给博学的婆罗门,他便获得王祭的果报,并在我的世界受到尊崇。库鲁之最啊,他不再轮回。

14.105.75

प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् ।
सुवर्णकुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम् ॥ १४.१०५.७५ ॥

若有人布施一头带着小牛的赤褐色母牛,她向铜器挤奶,角与蹄以黄金包裹,并以一切饰物庄严。

14.105.76

दत्ता हि गौस्तारयते मनुष्यम् ॥ १४.१०५.७६ ॥

因为布施出去的母牛能救度人。

14.105.77

पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते यथावत्।
यावन्मनुष्यान्पृथिवी बिभर्ति ।
तावत्प्रदातारमृतं परत्र ॥ १४.१०५.७७ ॥

他能如法救度儿子、孙子以及直至第七代的全族。只要大地承载着人类,施主便真正在来世长存。

14.105.78

यथौषधं मन्त्रकृतं नरस्य ।
प्रयुक्तमात्रं विनिहन्ति रोगान्।
तथैव दत्ता कपिला सुपात्रे ।
पापं नरस्याशु निहन्ति सर्वम्
तथैव दृष्ट्वा कपिलाप्रदाना-
न्नस्यन्ति पापानि नरस्य शीघ्रम् ॥ १४.१०५.७८ ॥

就像经咒配制的药物一经使用便能消除人的疾病,同样,施予合适受者的赤褐色母牛能迅速消除人的一切罪恶。同样,仅仅目睹赤褐色母牛的布施,人的罪恶也会迅速消失。

14.105.79

यथैव दृष्ट्वा भुजगाः सुपर्णं ।
नश्यन्ति दूराद्विवशा भयार्ताः। ॥ १४.१०५.७९ ॥

如蛇见到迦楼罗从远处而来,便因恐惧而无力,纷纷灭亡。

14.105.80

यथा त्वचं वै भुजगो विहाय ।
पुनर्नवं रूपमुपैति पुण्यम्।
तथैव मुक्तः पुरुषः स्वपापै-
र्विरज्यते वै कपिलाप्रदानात् ॥ १४.१०५.८० ॥

如蛇脱去旧皮,重获崭新而纯净的形体,同样,人因布施赤褐色母牛而脱离自身罪恶,变得清净无垢。

14.105.81

यथाऽन्धकारं भवने विलग्नं ।
दीप्तो हि निर्यातयति प्रदीपः।
तथा नरः पापमपि प्रलीनं ।
निष्क्रामयेद्वै कपिलाप्रदानात् ॥ १४.१०५.८१ ॥

如点燃的灯火驱散屋中附着的黑暗,同样,人也能借布施赤褐色母牛,驱除深藏于内心的罪恶。

14.105.82

यावन्ति रोमाणि भवन्ति तस्या ।
वत्सान्वितायाश्च शरीरजानि।
तावत्प्रदाता युगवर्षकोटिं ।
स ब्रह्मलोके रमते मनुष्यः ॥ १४.१०५.८२ ॥

赤褐色母牛身上连同小牛有多少根毛,施予者便在梵天世界中享乐多少千万个纪元之年。

14.105.83

यस्याहिताग्नेरतिथिप्रियस्य ।
शूद्रान्नदूरस्य जितेन्द्रियस्य।
सत्यव्रतस्याध्ययनान्वितस्य ।
दत्ता हि गौस्तारयते परत्र ॥ १४.१०५.८३ ॥

若将牛施予一位守护圣火、爱待宾客、远离首陀罗之食、克制诸根、持守真实誓愿并精研吠陀之人,此牛必在后世救度他。