Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.106.1

एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम् ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ १४.१०६.१ ॥

达摩之子闻听此至上功德、殊胜的赤褐牛布施之法,心中欢喜,便再次对克舍婆说道。

14.106.2

देवदेवश कपिला यदा विप्राय दीयते ।
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः ॥ १४.१०६.२ ॥

诸神之神啊!当赤褐牛布施给婆罗门时,诸天神如何安住于它的全身各处?

14.106.3

याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम ।
तासां कति सुरश्रेष्ठ् कपिलाः पुण्यलक्षणाः ॥ १४.१०६.३ ॥

诸神之中最殊胜者啊!您向我所说的十头赤褐牛之中,具有功德相的赤褐牛有多少?

14.106.4

कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि ।
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं मे ॥ १४.१०६.४ ॥

她们如何受到诸天神与祖先群的庇护?又具有怎样的毛色?我渴望听闻此事。

14.106.5

युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा ।
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे ॥ १४.१०६.५ ॥

坚战如此发问,诚实的克舍婆于是开始讲述秘密中最为秘密的至上之法。

14.106.6

शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम् ।
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः ॥ १४.१०६.६ ॥

国王啊,请听!这是神圣的秘密,也是至上的法。此乃真理,应当领受;不可向只凭辩论推理之人宣说。

14.106.7

यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह ।
दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः ॥ १४.१०६.७ ॥

当小牛出生时,两只前蹄与头同时显露,最优秀的圣者称之为布施之时。

14.106.8

अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति ।
गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी ॥ १४.१०६.८ ॥

只要小牛仍在空中、尚未落到地上,母牛就应被视为大地;因此应当布施这样的母牛。

14.106.9

यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर ।
यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः।
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते ॥ १४.१०६.९ ॥

犹地历王啊,施主在天上受尊崇的年数,等于带着小牛的母牛身上的毛数,也等于浸透胎水的沙粒数,以千年计。

14.106.10

सुवर्णाभरणां कृत्वा सव्तसां कपिलां तिलैः ।
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम् ॥ १४.१०६.१० ॥

用金饰装饰带着小牛的赤褐色母牛,以芝麻覆盖她,并用一切宝石妆点她,然后应当布施她。

14.106.11

ससमुद्रा नदी तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा ॥ १४.१०६.११ ॥

凭此布施,连同海洋、河流、山岳、森林与园林,四界之内的大地便已被施予了;此事不须怀疑。

14.106.12

पृथिवीदानतुल्येन तेन दानेन मानवः ।
संसारसागरात्तीर्णो याति लोकं प्रजापतेः ॥ १४.१०६.१२ ॥

凭此布施,与施予大地等同,人便能渡过轮回的苦海,往生至生主(Prajāpati)的世界。

14.106.13

ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः ।
महापातकयुक्तोपि एतद्दानेन शुद्ध्यति ॥ १४.१०६.१३ ॥

即使是杀害婆罗门者、杀害胎儿者、杀牛者,或与师尊之妻同寝者,即便沾染大罪,也因此布施而得清净。

14.106.14

इदं पठति यः पुण्यं कपिलादानमुत्तमम् ।
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु ॥ १४.१०६.१४ ॥

请听那在黎明起身、以对我的虔敬诵读这殊胜而有功德的卡皮拉牛布施者所得的功德果报。

14.106.15

मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर ।
पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः ॥ १४.१०६.१५ ॥

啊,坚战!夜间以意、身、语有意所造之罪,诵读此章者即能灭除。

14.106.16

इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान् ।
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः ॥ १४.१०६.१६ ॥

若反复诵此,并于祭祖(śrāddha)仪式中供养再生者,其先祖极为欢喜,也会享用他的甘露。

14.106.17

यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना ।
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति ॥ १४.१०६.१७ ॥

若有人怀着虔敬,以内心专注于我而听闻此篇,其夜间所作的一切罪过很快便会消灭。

14.106.18

अतः परं विशेषं तु कपिलानां ब्रवीमि ते ।
याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव।
तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः ॥ १४.१०६.१८ ॥

现在我告诉你卡皮拉牛的殊胜之处。大王,我向你所说的十头卡皮拉牛中,有四头最为殊胜、有功德,并能灭除罪业。

14.106.19

सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला ।
पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला ॥ १४.१०६.१९ ॥

金色的迦毗罗牛是圣洁的,红眼的频伽罗牛同样如此;名为频伽刹的牛,以及毛色极为棕黄的牛,也都是圣洁的。

14.106.20

एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः ।
नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु ॥ १४.१०६.२० ॥

这四头牛最为殊胜、清净,能灭除罪恶;无论是礼敬它们,还是仅仅看见它们,都能消除人的罪业。

14.106.21

यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः ।
तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर ॥ १४.१०६.२१ ॥

若有人家中饲养这些灭罪的迦毗罗牛,俞提希提啰啊,那里便常有吉祥、胜利和广大的名声。

14.106.22

एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः ।
दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः ॥ १४.१०६.२२ ॥

以这些牛的奶,濮利沙陀瓦阇(湿婆)欢喜;以凝乳,诸天欢喜;以酥油,火神阿耆尼欢喜。

14.106.23

पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर ॥ १४.१०६.२३ ॥

父亲、祖父,以及曾祖父,一次这样的布施便可满足他们长达一千万年,俞提希提啰啊。

14.106.24

कपिलाया घृतं क्षीरं दधि पायसमेव वा ।
श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते ॥ १४.१०६.२४ ॥

若将迦毗罗牛的酥油、牛奶、凝乳或乳粥一次布施给精通吠陀的婆罗门,人便脱离罪恶。

14.106.25

उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः ।
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम् ॥ १४.१०६.२५ ॥

若有人克制诸根,禁食一昼夜,饮用迦毗罗牛的五种产物,此后又行月行斋戒……

14.106.26

सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः ।
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना ॥ १४.१०६.२६ ॥

在吉祥的时辰,灵魂清净,心意纯洁,摆脱愤怒与虚妄,内在自我专注于我,他……

14.106.27

कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक् ।
यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा।
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत् ॥ १४.१०६.२७ ॥

若在春分或秋分时,以迦毗罗牛的五种产物及神圣咒语,分别为我的像或湿婆(Śaṅkara)之像沐浴,则可得马祭之果。

14.106.28

स मुक्तपापः शुद्धात्मा यानेनांबरशोभिना ।
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा ॥ १४.१०६.२८ ॥

他脱离罪恶,灵魂清净,乘坐如天空般辉煌的车辆前往我的世界,或解脱后前往楼陀罗的世界。

14.106.29

ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा ।
अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा ॥ १४.१०६.२९ ॥

往昔梵天创造了金光闪耀的迦毗罗牛;以殊胜咒语,她从火坑中诞生,成为祭祀之牛,光明极盛。

14.106.30

सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि ।
सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः ॥ १४.१०६.३० ॥

诸天之中,楼陀罗等天神、成就者、梵仙,以及附带六支的吠陀与祭祀,一见她刚被创造出来……

14.106.31

सागराः सरितश्चैव पर्वताः सबलाहकाः ।
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः ॥ १४.१०६.३१ ॥

海洋、河流、山岳与云层,乾闼婆与阿普萨罗斯,夜叉与蛇众,也都来到了那里。

14.106.32

सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम् ।
मन्त्रैशअच विविधैस्तां तु तुष्टुवुस्तामनेकशः ॥ १४.१०६.३२ ॥

众神皆惊叹不已,以种种颂歌多次赞颂火中那伟大的光辉。

14.106.33

कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम् ।
मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम् ॥ १४.१०६.३३ ॥

众人合掌,俯首至地,向这位三目、角不甚大、带着小牛的甘露火钻致敬。

14.106.34

ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् ।
आज्ञापय महादेव किं ते कुर्मः कथं विभो ॥ १४.१०६.३४ ॥

众神合掌对四面梵天说:“大神,请发号施令。主啊,我们当为您做什么?该如何做?”

14.106.35

एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत् ।
भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम् ॥ १४.१०६.३५ ॥

众神皆如此言,梵天于是说道:“你们也请慈悲地来挤取这头产乳的母牛吧。”

14.106.36

होमधेनुरियं ज्ञेया ह्यग्नीन्संतर्पयिष्यति ।
अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति ॥ १४.१०६.३६ ॥

此牛应知为祭火之牛;她将使诸火满足,而满足的火又会使你们众人满足。

14.106.37

प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः ।
जयिष्यथ यथाकामं दानवान्सर्व एव तु ॥ १४.१०६.३७ ॥

因她乳汁如甘露而欣喜,获得力量与勇武,你们都将随意征服达那婆。

14.106.38

जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः ।
असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः ॥ १४.१०६.३८ ॥

具备新生的威力与力量,秉持善性,制服诸根,力量无量,你们都将守护众生。

14.106.39

पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः ।
पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः ॥ १४.१०६.३९ ॥

你们在此如法守护的一切众生,将以种种布施的祭祀常年供奉你们。

14.106.40

एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना ।
ततः संहृष्टवदनाः कपिलायै वरं ददुः ॥ १४.१०६.४० ॥

至尊梵天如此说后,诸天人喜形于色,便赐予迦毗罗一个恩惠。

14.106.41

यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता ।
तस्मात्पूता पवित्रा च भव पापव्यपोहिनी ॥ १४.१०६.४१ ॥

因你今日为利益世界而被梵天所造,故愿你清净、纯洁,成为消除罪恶者。

14.106.42

ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः ।
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति ॥ १४.१०६.४२ ॥

凡人见到你便礼敬,并以手触摸你的,你那些信徒一年所积的罪业便会消灭。

14.106.43

अकामकृतमज्ञानमदृष्टं यच्च पातकम् ।
त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च।
तेषां तद्विलयं याति तमः सूर्योदये यथा ॥ १४.१०६.४३ ॥

那些看见你并称你为「一切忍耐者」而致礼的人,无意间、出于无知所犯、未被看见的罪过,都会消散,如同日出时黑暗消失。

14.106.44

इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् ।
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ॥ १४.१०६.४४ ॥

说完这话并赐予她恩惠后,他们便像来时一样离去。她为了救度世界而在各界游行。

14.106.45

तस्यामेव समुद्भूता ह्येताश्च कपिला नव ।
विचरन्ति महीमेनां लोकानुग्रहकारणात्।
तस्मात्तु कपिला देया परत्र हितमिच्छता ॥ १४.१०६.४५ ॥

正是从她身上生出了这九头赤褐色的母牛,它们为了恩惠世界而在这大地上游行。因此,希望来世有福的人应当布施赤褐色的母牛。

14.106.46

यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे ।
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ॥ १४.१०६.४६ ॥

大王啊,当赤褐色的母牛布施给持火祭者时,毗湿奴和因陀罗便居于它的角上。

14.106.47

चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः ।
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ॥ १४.१०६.४७ ॥

持月者与持金刚者立于角根;角中间是梵天,额上是以牛为旗者。

14.106.48

कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ ।
दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती ॥ १४.१०६.४८ ॥

双耳之上是双马神,双眼之上是月与日,牙齿之上是摩录多诸神,舌上是作为言语的萨罗室伐底。

14.106.49

रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः ।
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ॥ १४.१०६.४९ ॥

毛孔中住着仙人,皮肤中正是生主;呼吸之中安住着吠陀,连同六支与词序。

14.106.50

नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च ।
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ॥ १४.१०६.५० ॥

鼻孔中住着香气与芬芳的花朵;下唇是诸婆苏,口中则安住着火神阿耆尼。

14.106.51

साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता ।
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ॥ १४.१०६.५१ ॥

诸婆天神居于腋下,帕尔瓦蒂安住于颈项;背上是星群,在隆起之处则是天空的广阔。

14.106.52

अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ॥ १४.१०६.५२ ॥

下部开口中是一切圣地渡口,牛尿中是恒河(遮赫那维)本身;而由祭祀与满足构成的吉祥天女,此时住在牛粪之中。

14.106.53

नासिकायां सदा देवी ज्येष्ठा वसति भामिनी ।
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ॥ १४.१०६.५३ ॥

鼻中永远住着女神长姊(Jyeṣṭhā),那位光彩照人者;臀侧的斜坡上站着祖先,而拉玛则托身于尾巴之中。

14.106.54

पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः ।
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ॥ १४.१०६.५४ ॥

两侧安住着一切毗首提婆;而在他们的胸前,持枪而欢喜的古诃(塞犍陀)屹立。

14.106.55

जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः ।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ १४.१०६.५५ ॥

在膝、胫与股的部位,五种风安住;蹄的中部有乾闼婆居住,蹄的尖端有蛇居住。

14.106.56

चत्वारः सागराः पूर्णास्तस्या एव पयोधराः ।
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः। ॥ १४.१०६.५६ ॥

四海便是她盈满的乳房;喜悦、智慧、忍耐、供养词娑婆诃、信仰、寂静、坚定与记忆,皆属于她。

14.106.57

कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः ।
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ॥ १४.१०६.५७ ॥

名声、光辉、行动、美貌、满足、滋养与子嗣,以及四方与四隅,永远侍奉迦毗罗。

14.106.58

देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः ।
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ॥ १४.१०६.५८ ॥

诸天与祖灵之众,乾闼婆与阿普萨拉斯之众,诸世界、岛屿与海洋,以及以恒河为首的诸河,皆侍奉她。

14.106.59

देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः ।
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ॥ १४.१०६.५९ ॥

诸天与祖灵,以及连同支分的吠陀与祭祀,依吠陀所说的种种咒语,欢喜地赞颂她。

14.106.60

विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा ।
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ॥ १४.१०६.६० ॥

持明与成就者、诸灵,以及星辰之众也在那里;他们欢喜地降下花雨,并翩翩起舞。

14.106.61

ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा ।
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ॥ १४.१०६.६१ ॥

由梵天从火坑中生出的大光明女神,敬礼你,神圣的迦毗罗,受诸天敬拜。

14.106.62

कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे ।
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ॥ १४.१०६.६२ ॥

迦毗罗啊,大力者,充满一切圣地的吉祥女神,请你亲自将施主与其亲族引往梵天界。

14.106.63

अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् ।
अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम्।
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ॥ १४.१०६.६३ ॥

啊,这是圣洁的宝物,至高无上,能除一切苦难!啊,这是依法所得、纯净殊胜的大财富!——站立于空中的诸天如是诵念。

14.106.64

तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः ।
तावद्देवगणाः सर्वे कपिलामर्चयन्ति च।
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ॥ १४.१०६.६४ ॥

只要受施的最好婆罗门享用她,诸天众便敬拜迦毗罗——她有金角银蹄,以香与花妥善供奉。

14.106.65

वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता ।
तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता।
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ॥ १४.१०६.६५ ॥

只要她身披两件未经洗涤的新衣而站立,经咒净化、妥善受礼的迦毗罗便可随其所愿——愿她亲自将尘世一切居民引往梵天界。

14.106.66

भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः ।
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ॥ १४.१०६.६६ ॥

土地、马、黄金、牛、白银、马、芝麻与大麦——当它们被施予婆罗门时,日复一日地欢喜。

14.106.67

अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव ।
तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं ॥ १४.१०६.६७ ॥

然而,般度之子啊,若这些物品施予非吠陀学者,它们便如此自责:“我们做了什么不吉之事?”

14.106.68

अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः ।
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ॥ १४.१०६.६८ ॥

唉!被罗刹与毕舍遮从四面劫掠,我们很快便要入地狱了——如此想着,它们悲叹。

14.106.69

एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः ।
दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥ १४.१०६.६९ ॥

这些物品若施予再生者,尤其是吠陀学者,便会增长,并使施主度过彼岸。

14.106.70

देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः ।
के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः ॥ १४.१०६.७० ॥

诸神之主啊,斩杀达伊提亚者啊!献给诸神与祖先之祭的时间是何时?其中谁应受尊敬?哪些婆罗门应当远离?

14.106.71

दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् ।
कालहीनं च यद्दानं तद्दानं राजसं विदुः ॥ १४.१०६.७१ ॥

上午应知为诸神之时,下午为祖先之时;不在适当时间所施之物,智者称之为罗阇斯之施。

14.106.72

अवघुष्टं च यद्भुक्तमनृतेन च भारत ।
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः ॥ १४.१०६.७२ ॥

婆罗多之子啊!那经高声宣告而食用、或由谎言而得、或为狗所触的食物份额,人们称之为罗刹之分。

14.106.73

यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च ।
दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां ॥ १४.१०६.७३ ॥

国王啊,无论有多少堕落的婆罗门,以及愚钝、癫狂之类的人,这些婆罗门在天神和祖先之祭中都不配受到尊敬的款待。

14.106.74

क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः ।
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम् ॥ १४.१०६.७४ ॥

阉人、跛子、麻风病人、患痨病者,以及癫痫病人——这些人都不配在祖先之祭中受到尊敬的款待。

14.106.75

चिकित्सका देवलका मिथ्यानियमधारिणः ।
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥ १४.१०६.७५ ॥

医者、德瓦拉卡(寺庙祭司)、持守虚假誓戒者,以及卖苏摩者——这些人在施拉达祭中也不配受到尊敬的款待。

14.106.76

एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः ।
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम् ॥ १४.१०६.७६ ॥

凡依规矩在单一供养祭中进食的再生者,若未行月亮苦行,便不再配受尊敬的款待。

14.106.77

गायका नर्तकाश्चैव प्लवका वादकास्तथा ।
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम् ॥ १४.१०६.७७ ॥

歌者、舞者、杂技者、乐师、说书人,以及武士——这些人在施拉达祭中也不配受到尊敬的款待。

14.106.78

अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये ।
स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम् ॥ १४.१०६.७८ ॥

大王啊,不供奉圣火的婆罗门、搬运尸体的人、盗贼以及行为违禁者,都不配受到尊敬。

14.106.79

अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः ।
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥ १४.१०६.७९ ॥

前世系谱不明的婆罗门、部族集会之子,以及作为女儿之子的再生者,在祭祖礼中同样不配受到尊敬。

14.106.80

रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः ।
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम् ॥ १४.१०६.८० ॥

从事战争的婆罗门、经商的再生者,以及以售卖生灵为生者,在祭祖礼中都不配受到尊敬。

14.106.81

चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः ।
सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः ॥ १४.१०६.८१ ॥

具备守戒功德、常年专注诵读吠陀、通晓萨维德丽且行持祭仪者,才配在祭祖礼中受到尊敬。

14.106.82

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दघि घृतं तथा ।
दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् ॥ १४.१०६.८२ ॥

婆罗门即是祭祖之时;若得凝乳、酥油、吉祥草、花朵及合适之地,便应当在此时成为行祭祖礼之人。

14.106.83

चारित्रनिरता राजन्कृशा ये कृशवृत्तयः ।
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ॥ १४.१०६.८३ ॥

大王啊,布施给那些专注善行、身形消瘦、生活困苦、前来乞求的人,会得到大功德果报。

14.106.84

तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये ।
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम् ॥ १४.१०६.८४ ॥

给予苦行的婆罗门、以乞食为生的人,以及某些想要布施的求乞者,所施之物会带来大果报。

14.106.85

एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा ।
र्श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे ॥ १४.१०६.८५ ॥

因此,最优秀的正法者啊,你全心了知此理,应把布施给博学而贫穷、不以恩报恩的婆罗门。

14.106.86

दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम् ।
तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम् ॥ १४.१०६.८६ ॥

你所珍爱的布施,以及博学婆罗门所喜爱的布施,正法的知者啊,若你渴望不朽之果,便请施予。

14.106.87

निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर ॥ १४.१०६.८७ ॥

请听那些堕入地狱的人,阿育提斯塔啊。

14.106.88

गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव ।
वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः ॥ १४.१०६.८८ ॥

般度之子啊,婆罗门若为了师长或出于恐惧而说谎,或无缘无故地妄语,他们必定堕入地狱。

14.106.89

परदारापहर्तारः परदारामिमर्शकाः ।
परारप्रयोक्तारस्तें वै निरयगामिनः ॥ १४.१०६.८९ ॥

劫夺他人之妻者、染指他人之妻者、教唆他人作恶者,他们必定堕入地狱。

14.106.90

सूचकाः संधिभेत्तारः परद्रव्योपजीविनः ।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ १४.१०६.९० ॥

告密者、破坏盟约者、靠他人财物为生者,以及对朋友忘恩负义者——他们必定堕入地狱。

14.106.91

वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः ।
उपासते च तानेव ते सर्वे नरकालयाः ॥ १४.१०६.९१ ॥

那些在种姓与生命阶段之外的异端与罪人,以及崇拜他们的人——他们都居住在地狱。

14.106.92

वेदविक्रयिणश्चैव वेदानां चैव दूषकाः ।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ १४.१०६.९२ ॥

出售吠陀者、败坏吠陀者,以及抄写吠陀者——他们必定堕入地狱。

14.106.93

रसविक्रयिणो राजन्विषविक्रयिणश्च ये ।
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः ॥ १४.१०६.९३ ॥

大王啊,卖汁液者、卖毒物者,以及卖牛奶者——他们也必定堕入地狱。

14.106.94

चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः ।
अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः ॥ १४.१०६.९४ ॥

那些把牛奶给旃陀罗的下劣之人,无论是为钱财还是出于情爱——他们必定堕入地狱。

14.106.95

पशूनां दमकयैव तथा नासानुवेधकाः ।
पुंस्त्वहिंसाकरस्चैव ते वै निरयगामिनः ॥ १४.१०६.९५ ॥

用绳索拴缚牲畜、穿其鼻孔者,以及施加毁坏其雄性之暴力者——他们必定堕入地狱。

14.106.96

अदातारः समर्था ये द्रव्याणां लोभकारणात् ।
दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः ॥ १४.१०६.९६ ॥

那些有能力却因贪求财富而不布施、也不看顾贫穷者与盲人的人,必定堕入地狱。

14.106.97

क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान् ।
त्यजन्ति कृतकृत्या ये ते वा निरयगामिनः ॥ १४.१०६.९७ ॥

那些功成之后,抛弃与自己长久相处的忍辱、克己、消瘦而有智慧之人的人,必堕地狱。

14.106.98

बालानामपि वृद्धानां श्रान्तानां चापि ये नराः ।
अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः ॥ १४.१०६.९८ ॥

那些不把美食分给孩童、老人和疲惫之人便自己享用的人,必定堕入地狱。

14.106.99

एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः ।
ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर ॥ १४.१०६.९९ ॥

这些堕入地狱之人,是古代仙人所宣说的。现在,坚战啊,请听那些已达天界者的事。

14.106.100

दानेन तपसा चैव सत्येन च दमेन च ।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ १४.१०६.१०० ॥

以布施、苦行、真实和克己奉行法者,是升天之人。

14.106.101

शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव ।
ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः ॥ १४.१०६.१०१ ॥

般度之子啊,那些以侍奉从师长处获得学问,并对接受布施无所执著的人,是升天之人。

14.106.102

मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये ।
परदारनिवृत्ता ये ते नराः स्वर्गगामिनः ॥ १४.१०६.१०२ ॥

那些像守持誓愿一样戒除蜂蜜、肉类和醉酒,并戒除他人之妻的人,便能升往天界。

14.106.103

मातरं पितरं चैव शुश्रूषन्ति च ये नराः ।
भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः ॥ १४.१०६.१०३ ॥

那些侍奉母亲和父亲、并且对兄弟也怀有慈爱的人,便能升往天界。

14.106.104

ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः ।
द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः ॥ १४.१०६.१०४ ॥

那些在用餐时出门迎接、喜爱宾客、不关闭门户的人,便能升往天界。

14.106.105

वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः ।
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ॥ १४.१०६.१०५ ॥

那些安排并亲自操办贫穷女子婚事的人,便能升往天界。

14.106.106

रसानामथ बीजानामोषधीनां तथैव च ।
दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः ॥ १४.१०६.१०६ ॥

那些怀着信心施予汁液、种子与草药的人,便能升往天界。

14.106.107

क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च ।
अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः ॥ १४.१०६.१०७ ॥

那些向求问者指明道路中哪里安全、哪里危险,哪里平坦、哪里崎岖的人,便能升往天界。

14.106.108

पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः ।
आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा।
ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः ॥ १४.१०६.१०८ ॥

在两个布尔瓦日,在月半十四日与初八,在两个黄昏,在阿德拉星宿下,在自己的出生星宿下,在春分日或在室宿下,那些戒绝世俗享乐的人,将升往天界。

14.106.109

हव्यकव्यविधानं च नरकस्वर्गगामिनौ ।
धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि ॥ १४.१०६.१०९ ॥

祭神与祭祖的规则、通往地狱和天界的道路,以及法与非法,都已宣说。你还想再听什么?