Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.109.1

अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन ।
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि ॥ १४.१०९.१ ॥

摩图苏陀那啊,听闻布施食物的果报,我甚欢喜。天神之神啊,您应当宣说饮食的规范。

14.109.2

बोजनस्य द्विजातीनां विधानं शृणु पाण्डव ।
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः ॥ १४.१०९.२ ॥

般度之子啊,请听再生者的饮食规范:沐浴洁净,在清净幽僻之处,向火中献祭之后(方可进食)。

14.109.3

मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः ।
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम् ॥ १४.१०९.३ ॥

最优秀的再生者应作一个方形的坛界;若是刹帝利,则作圆形;吠舍则作半月形。

14.109.4

आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः ॥ १४.१०९.४ ॥

双脚湿润,面朝东方,坐在洁净的座位上进食;以双脚或以一只脚触地。

14.109.5

नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः ।
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ॥ १४.१०९.५ ॥

再生者不应只穿一件衣服而食,也不应遮蔽身体而食;不应用破碎的器皿进食,同样也不应在叶子的背面进食。

14.109.6

अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना ।
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः ॥ १४.१०९.६ ॥

应先以欢悦的心向食物致敬;除食物之外不应看别的东西,专注于食物时也不应心怀厌恶。

14.109.7

जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते ।
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम् ॥ १४.१०९.७ ॥

令人厌恶的食物只有罗刹才吃。以手取水,应向右绕食物一周。

14.109.8

अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् ।
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत् ॥ १४.१०९.८ ॥

应知此为不可饮;饮之者应行月行斋(cāndrāyaṇa)。除祭供圈之水外,其他水可依咒语饮用。

14.109.9

पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक् ॥ १४.१०९.९ ॥

应分别以咒语向五生气供奉五次。

14.109.10

यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप ।
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः ॥ १४.१०९.१० ॥

君王啊,正如舌头在献给生气的供奉中不知其味,应当专注、不懈怠地行生气供奉。

14.109.11

विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव ।
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः ॥ १४.१०९.११ ॥

般度之子啊,知食物、食者与五生气,而行五次供奉者,便以此使五风受到供养。

14.109.12

अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः ।
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति ॥ १४.१०९.१२ ॥

若婆罗门不如此而食,且于智慧薄弱,则以此食物使阿修罗、饿鬼与罗刹得到满足。

14.109.13

वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः ।
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते ॥ १४.१०९.१३ ॥

应一口一口地吃与口相当的食物,反复如此。比口大的一团,称为自己的残余(ucchiṣṭa)。

14.109.14

पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ १४.१०९.१४ ॥

应知一团食物的剩余以及从口中吐出的东西不可食用;若吃了,应行月亮苦行(cāndrāyaṇa)。

14.109.15

स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम् ।
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा ॥ १४.१०९.१५ ॥

吃自己残余之食者,以及吃未盖之食者,应行月亮苦行、kṛcchra苦行或生主苦行。

14.109.16

स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा ।
तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि।
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः ॥ १४.१०९.१६ ॥

吃女人器皿中食物的罪人,吃女人残余之食的人,以及与她同食的人,实际上是在喝酒。见真理的圣贤未曾为他看到任何赎罪之法。

14.109.17

पिबतः पतिते तोये भोजने मुखनिस्सृते ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ १४.१०९.१७ ॥

饮水或进食时落入水中或食物中的东西,以及从口中吐出的东西,应知为不可食用;若吃了,应行月亮苦行。

14.109.18

पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन ।
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥ १४.१०९.१८ ॥

般度之子啊,饮剩的水不可再喝。若再生族出于迷惑喝了它,应行月亮苦行。

14.109.19

पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः ।
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत् ॥ १४.१०९.१९ ॥

最优秀的再生者可以从那个器皿中饮水;只要未放置于地上,它就不算被污染。

14.109.20

मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा ।
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत् ॥ १४.१०९.२० ॥

婆罗门应依规则进食,或默然,或不看地面与方向,且不应使人分发剩余之食。

14.109.21

सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित् ।
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः ॥ १४.१०९.२१ ॥

不应常常过量进食,也不应有时过少;每日进食应使食物不致引起痛苦。

14.109.22

उदक्यामपि चण्डालं श्वानं सूकरमेव वा ।
भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत्।
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥ १४.१०९.२२ ॥

若进食时见到月经中的女子、旃陀罗、狗或猪,应舍弃那食物;再生者若因迷惑而不舍弃仍进食,应行月分苦行。

14.109.23

केशकीटोपपन्नं च मुखमारुतवीजितम् ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ १४.१०९.२३ ॥

若食物中有毛发、虫子,并被口中之气吹拂,应知其不可食用;食用者应行月分苦行。

14.109.24

उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् ।
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् ॥ १४.१०९.२४ ॥

起身后再次被触碰、被脚触碰或被跨越过的食物,应知为罗刹之食;因此应当避开。

14.109.25

राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि ।
नरके रौरवे घोर स पितॄन्पातयिष्यति ॥ १४.१०९.२५ ॥

食用罗刹残食的婆罗门,将使前七代与后七代祖先堕入可怖的罗罗婆地狱。

14.109.26

तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् ।
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः।
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत् ॥ १४.१०९.२६ ॥

应当在用餐所用的器皿中漱口净手。若饭后未漱口便起身离座,应立即沐浴;否则便不洁净。

14.109.27

तृणमुष्टिविधानं च तृणमाहात्म्यमेव च ।
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः ॥ १४.१०९.२७ ॥

施予尊荣者啊!请您告诉我草束的规定、草的殊胜,以及苏摩从甘蔗中生起的缘由。

14.109.28

पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः ।
तासां तु पूजया राजन्पूजिताः पितृदेवताः ॥ १४.१०९.२८ ॥

应知祖先化为公牛,母牛是世界之母。国王啊,供奉它们,便是供奉了祖先神灵。

14.109.29

सभा प्रपा गृहाश्चापि देवतायतनानि च ।
शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः ॥ १४.१०९.२९ ॥

议事厅、施水处、住宅乃至神庙,都以牛粪得到净化。那么还有什么生灵比它们更尊贵呢?

14.109.30

ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम् ॥ १४.१०९.३० ॥

若有人整整一年自己不食,却将一把草料给别人的牛,他便永远获得这份功德。

14.109.31

गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः ।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः ॥ १४.१०९.३१ ॥

所有的母牛都是我的母亲,公牛都是我的父亲。诸位母亲,请接受我所奉上的这一把草料。

14.109.32

इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः ।
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु ॥ १४.१०९.३२ ॥

如此说完,心神专注,以此咒或以加亚特丽咒加持这一把草料——现在请听其功德之果。

14.109.33

यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा ।
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति ॥ १४.१०९.३३ ॥

他所作的任何恶业,无论知道还是不知道,全都会消亡;恶梦也会消除。

14.109.34

तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः ।
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम् ॥ १४.१०९.३४ ॥

芝麻清净,能灭罪,出自那罗延。在施祭(śrāddha)中人们赞美芝麻;此布施最为殊胜。

14.109.35

तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत् ।
तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते ॥ १४.१०९.३५ ॥

应当布施芝麻,食用芝麻,清晨触摸芝麻,并说“芝麻,芝麻”;因为芝麻能除罪。

14.109.36

क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः ।
भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः।
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥ १४.१०९.३६ ॥

再生族不应出售芝麻,无论是买来的还是受赠的。若有人用芝麻做了食用、涂油、布施之外的其他事,便会化为虫子,与其祖先一同沉没于狗屎之中。

14.109.37

तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप ।
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम् ॥ १४.१०९.३७ ॥

国王啊,婆罗门自己不应在压榨轮中碾芝麻。因迷惑而碾压的再生族人将堕入名为罗罗婆的地狱。

14.109.38

इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः ।
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः ॥ १४.१०९.३८ ॥

月神出自甘蔗之族,再生族人出自月亮之族。因此不应压榨甘蔗;压榨甘蔗者即是自杀者。

14.109.39

इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर ।
ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः।
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः ॥ १४.१०९.३९ ॥

欧修提啊,再生族人若在压榨机中,哪怕一根一根地碾压成千上万根甘蔗,也会获得杀婆罗门之罪。因此,最优秀的再生族人啊,不应在压榨轮中碾甘蔗。