摩诃婆罗多 · 章 14.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.11.1
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा ।
वासुदेवो महातेजास्ततो वचनमाददे ॥ १४.११.१ ॥
当行事奇妙的毗耶娑对那位君王如此说完后,大光辉的婆苏提婆便开始说话。
14.11.2
तं नृपं दीनमनसं निहतज्ञातिबान्धवम् ।
उपप्लुतमिवादित्यं सधूममिव पावकम् ॥ १४.११.२ ॥
那位心情沮丧、亲族与族人皆已被杀的君王,看起来就像被蚀所遮的太阳,或是被烟雾笼罩的火焰。
14.11.3
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः ।
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥ १४.११.३ ॥
知道阿周那心情沮丧后,毗黎尼家族的支柱便开始说话,以安慰法之子。
14.11.4
सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम् ।
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति ॥ १४.११.४ ॥
凡弯曲者皆为死亡之地,正直者乃梵之所在。知识所及不过如此;哀叹又能成就什么呢?
14.11.5
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः ।
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे ॥ १४.११.५ ॥
你既未尽本分,也未战胜敌人。你为何不认识那住在自身之中的敌人?
14.11.6
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् ।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥ १४.११.६ ॥
在此,我将依法且如我所闻地向你讲述因陀罗与弗栗多之间的战斗是如何发生的。
14.11.7
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप ।
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते।
धराहरणदुर्गन्धो विषयः समपद्यत ॥ १४.११.७ ॥
往昔,人主啊,大地被弗栗多所覆盖。见大地被覆盖,嗅觉之域被夺走,因大地被夺而那一域变得恶臭。
14.11.8
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते ।
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत् ॥ १४.११.८ ॥
嗅觉之域被夺走时,百祭主大怒。他持续地对弗栗多愤怒,投出了可怕的金刚杵。
14.11.9
स वध्यमानो वज्रेण सुभृशं भूरितेजसा ।
विवेश सहसा तोयं जग्राह विषयं ततः ॥ १४.११.९ ॥
被大光辉的金刚杵猛烈击中,他突然进入水中。于是他夺取了水之域。
14.11.10
अप्सु वृत्रगृहीतासु रसे च विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १४.११.१० ॥
水被弗栗多夺取,味之域被夺走时,极为愤怒的百祭主在那里投出了金刚杵。
14.11.11
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥ १४.११.११ ॥
被那无量光辉的金刚杵击中,他突然进入光明之中。于是他夺取了光之域。
14.11.12
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १४.११.१२ ॥
光明被弗栗多所覆盖,色之域被夺走时,极为愤怒的百祭主在那里投出了金刚杵。
14.11.13
स वद्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा वायुं जग्राह विषयं ततः ॥ १४.११.१३ ॥
他被那具无量威力的金刚杵击中,便突然进入风中,随后夺取了风的领域。
14.11.14
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते ।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १४.११.१४ ॥
当弗栗多弥漫风中并夺取触觉之域时,百祭(因陀罗)大怒,便在那里掷出金刚杵。
14.11.15
स वध्यगानो वज्रेण तस्मिन्नमिततेजसा ।
आकाशमभिदुद्राव जग्राह विषयं ततः ॥ १४.११.१५ ॥
他被那具无量威力的金刚杵击中,便奔向天空,随后夺取了天空的领域。
14.11.16
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते ।
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १४.११.१६ ॥
天空化为弗栗多,声音之域被夺取时,百祭(因陀罗)大怒,便在那里掷出金刚杵。
14.11.17
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।
विवेश सहसा शक्रं जग्राह विषयं ततः ॥ १४.११.१७ ॥
他被那具无量威力的金刚杵击中,便突然进入帝释(因陀罗)之中,随后夺取了他的领域。
14.11.18
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् ।
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत् ॥ १४.११.१८ ॥
被弗栗多所执的他心生大迷惑;于是婆私吒以《车间》娑摩歌将他唤醒。
14.11.19
ततो वृत्रं शरीरस्थं जघान भरतर्षभ ।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥ १४.११.१९ ॥
婆罗多之牛啊,于是百祭者(因陀罗)以不可见的金刚杵击杀了身内的弗栗多,此事我们在这里听闻。
14.11.20
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु ।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप ॥ १४.११.२० ॥
此合乎正法的秘义,因陀罗曾对大仙人们说过,诸仙人又对我说了;请听,人主啊。