Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.110

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.110.1

समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च ।
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ॥ १४.११०.१ ॥

请为我讲述诸法的汇集、可食与不可食之物,以及我蒙你恩典所听闻的困厄之法(āpaddharma)。

14.110.2

दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके ।
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते ॥ १४.११०.२ ॥

在饥荒、国家危难、不净、生死之污秽中,在履行义务之时,甚至在路途之上,因此规则被搁置。

14.110.3

दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः ।
अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये ॥ १४.११०.३ ॥

因长途跋涉而疲惫之人,若无婆罗门可得,便可从首陀罗处取得任何未煮之食,以维持自己的生计。

14.110.4

आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः ।
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ॥ १४.११०.४ ॥

患病、悲伤、困苦或饥饿的婆罗门,即使违反规定进食,也不需要赎罪。

14.110.5

निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः ।
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ॥ १४.११०.५ ॥

依吠陀之规被邀请参加天神祭(havya)与祖先祭(kavya)的婆罗门,即使食用肉类等物,也不需要赎罪。

14.110.6

अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ १४.११०.६ ॥

以下八物能消除破戒之过:水、根茎、酥油、乳、祭品(haviḥ)、婆罗门之愿、师尊之言及药物。

14.110.7

अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः ।
विदुषां वचनेनापि दानेनापि विशुद्ध्यति ॥ १४.११०.७ ॥

凡不能依法行赎罪者,即使仅凭智者之言,或以布施,也能得到清净。

14.110.8

अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा ।
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च ॥ १४.११०.८ ॥

无论是在非经期还是经期,白天或夜晚,从远行归来的人若与女子亲近,不需赎罪。

14.110.9

प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर ।
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत ॥ १४.११०.९ ॥

诸神之主啊,何种婆罗门值得称赞,何种值得责备?阿湿他迦的时间是什么?善誓者啊,请告诉我。

14.110.10

सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः ।
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् ॥ १४.११०.१० ॥

太阳见到信守真实的再生者,便从其位置上颤抖。此人穿过我的圆盘,升往永恒的梵。

14.110.11

कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् ।
श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः ॥ १४.११०.११ ॥

出身良好、行祭仪、通晓吠陀、仁慈不残忍、富足、正直、说真话——这些再生者都是合适的受施者。

14.110.12

एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः ।
तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात् ॥ १४.११०.१२ ॥

这些坐在前座、先行进食的再生者,即使只是被看见,也能净化那一排中的其他人。

14.110.13

मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः ।
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः ॥ १४.११०.१३ ॥

应知那些敬奉我、以我为最高归宿的再生者之中的上首,能净化席位,尤其应当尊崇。

14.110.14

निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान् ।
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः ॥ १४.११०.१४ ॥

王啊,请听那些可被谴责的再生者——即便通晓吠陀,却以婆罗门之形在世间行恶。

14.110.15

अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः ।
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम् ॥ १४.११०.१५ ॥

若无圣火,不诵读吠陀,贪求受施,无论何处都进食,此人应被视为玷污梵的人。

14.110.16

मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः ।
अहं चापि न जानामि गतिं तस्य नराधिप ॥ १४.११०.१६ ॥

王中之主啊,那身体以死亡与生产的不净为养、又进食首陀罗之食的再生者,其去处我也不知。

14.110.17

शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः ।
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ॥ १४.११०.१७ ॥

身体以首陀罗食物之精华为养的人,即便日日诵习、持咒或行祭火,也无上升之去处。

14.110.18

आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते ।
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥ १४.११०.१८ ॥

持守圣火的婆罗门若不戒避首陀罗之食,则其五事皆毁:自我、梵(吠陀)以及三火。

14.110.19

शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः ।
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः ॥ १४.११०.१९ ॥

对于使首陀罗服役的婆罗门,尤其应将食物放在地上,因为他如同狗与豺狼。

14.110.20

प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः ।
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ १४.११०.२० ॥

然而,知识薄弱的婆罗门若在首陀罗化为尸体被抬走时跟随其后,便会不净三夜。

14.110.21

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥ १४.११०.२१ ॥

待三夜圆满后,他前往流向大海的河边,做一百次调息,吃下酥油,便得清净。

14.110.22

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः ।
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ॥ १४.११०.२२ ॥

那些抬起无依无靠的婆罗门尸体的最优秀再生者,每走一步便获得马祭的果报。

14.110.23

न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् ।
जलावगाहनादेव सद्यः शौचं विधीयते ॥ १४.११०.२३ ॥

行善者没有任何不祥或罪过;只需入水沐浴,即刻便被规定为清净。

14.110.24

शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत ॥ १४.११०.२४ ॥

在首陀罗家中,婆罗门不应进食牛奶或凝乳,无论是哪种;须知这正是首陀罗的食物。

14.110.25

विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम् ।
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत् ॥ १४.११०.२५ ॥

凡阻碍欲食、极望饮食的婆罗门者,此人便是大恶之人,再无他者比他更作恶。

14.110.26

सर्वे च वेदाः सहषङ्भिरङ्गैः ।
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति ।
शीलव्यपेतस्य नृप द्विजस्य ॥ १४.११०.२६ ॥

大王啊,诸吠陀连同六支,数论,往世书,以及生于高贵之家——这些对于缺乏良好品行的再生族而言,都不能成为归宿。

14.110.27

ग्रहोपरागे विषुवेऽयनान्ते ।
पित्र्ये मघासु स्वसुते च जाते।
गयेषु पिण्डेषु च पाण्डुपुत्र ।
दत्तं भवेन्निष्कसहस्रतुल्यम् ॥ १४.११०.२७ ॥

在日食时、春分秋分时、冬至夏至之末、祭祖之时、摩伽星宿之下、自己儿子出生之时,以及伽耶的祭团之上——般度之子啊,此时所施之布施,等同于千尼斯卡。

14.110.28

वैशाखमासस्य तु या तृतीयाऽ-
नवद्याऽसौ कार्तिकशुक्लपक्षे।
नभस्यमासस्य च कृष्णपक्षे ।
त्रयोदशी पञ्चदशी न माघे ॥ १४.११०.२८ ॥

吠舍克月的那个第三日是无瑕的,它在迦尔提迦月的白半月。那日、第十三日与第十五日在那婆斯耶月的黑半月,而非摩伽月。

14.110.29

रहस्यमेतत्पितरो वदन्ति ॥ १४.११०.२९ ॥

此为秘密,祖先如是说。

14.110.30

यस्त्वेकपङ्क्त्यां विषमं ददाति ।
स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः।
क्रूरं दुराचारमनात्मवन्तं ।
ब्रह्मघ्नमेनं कवयो वदन्ति ॥ १४.११०.३० ॥

若于同一行列中对婆罗门不均分施舍——或出于偏爱,或出于恐惧,或为了财利——智者称这残忍、行为不端、无自制的人为杀婆罗门者。

14.110.31

धनानि येषां विपुलानि सन्ति ।
नित्यं रमन्ते परलोकमूढाः।
तेषामयं शत्रुवरघ्नलोको ।
नान्यत्सुखं देहसुखे रतानाम् ॥ १४.११०.३१ ॥

对于拥有巨额财富、在来世之事上迷惑、终日沉迷其中的人,这是杀害敌人中最优秀者的世界;对于沉溺于肉体享乐的人,没有其他的快乐。

14.110.32

ये चैव मुक्तास्तपसि प्रयुक्ताः ।
स्वाध्यायशीला जरयन्ति देहम्।
जितेन्द्रिया भूतहिते निविष्ट-
स्तेषामसौ चापि परश्च लोकः ॥ १४.११०.३२ ॥

那些解脱而专心苦行、勤于自修而消耗身体、克制感官并致力于众生福祉的人——对他们而言有那个世界,而在它之外还有另一个世界。

14.110.33

ये चैव विद्यां न तपो न दानं ।
न चापि मूढाः प्रजने यतन्ते।
न चापि गच्छन्ति सुखानि भोगां-
स्तेषामयंक चापि परश्च नास्ति ॥ १४.११०.३३ ॥

那些既不修习智慧、苦行和布施,在迷惑中连子嗣也不努力去求,也得不到享乐的人——对他们来说,既没有这个世界,也没有另一个世界。

14.110.34

नारायण पुराणेश लोकावास नमोस्तु ते ।
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ॥ १४.११०.३४ ॥

那罗延,诸往世书之主,诸世界的住所,向您致敬。我愿完整地听闻法之精华的全部汇集。

14.110.35

धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः ।
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम् ॥ १४.११०.३५ ॥

大智者啊,我将宣说最初由摩奴所宣示的法之精华——摩奴所说的诸往世书的吠陀汇编。

14.110.36

अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ।
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा ॥ १४.११०.३६ ॥

筑火坛者、褐色母牛、贞洁的女子、国王、乞食比丘和大海——这些仅凭被看见就能净化;因此应当时常看望他们。

14.110.37

गौरकस्यैव दातव्या न बहूनां युधिष्ठिर ।
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ १४.११०.३७ ॥

般度之子坚战啊,牛只应给予一人,不应给予多人。已被出售的那头牛,会烧毁家族直至第七代。

14.110.38

बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः ।
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति ॥ १४.११०.३८ ॥

牛、衣物、床榻和女子不应给予多人。这样性质的布施不会留存于施主身边。

14.110.39

आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि ।
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते ॥ १४.११०.३९ ॥

婆罗门在不贤之人的家中强行享用,连同牛只所得的那份功德,胜过王祭(罗阇苏耶)。

14.110.40

मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च ।
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते ॥ १४.११०.४० ॥

凡对婆罗门和牛说“不要给予”的人,经过百次畜生胎后,会生于旃陀罗之中。

14.110.41

ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम् ।
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत् ॥ १४.११०.४१ ॥

国王啊,婆罗门之财乃属神圣,贫穷者之财与师长之财,若被夺取,连居于天界者也会被推落。

14.110.42

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः ॥ १४.११०.४२ ॥

对于想要了解法(dharma)的人,最高的权威是天启圣典(śruti);第二是法论典籍;第三是世俗的习俗。

14.110.43

आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात् ।
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते ॥ १४.११०.४३ ॥

从东海到西海,喜马拉雅与温底耶之间的土地被称为雅利安法域。

14.110.44

सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ॥ १४.११०.४४ ॥

在神河萨拉斯瓦蒂与德里沙德瓦蒂之间的那片由诸神所造之地,被称为梵域。

14.110.45

यस्मिन्देशे य आचारः पारंपर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ १४.११०.४५ ॥

在某地由世代相传的习俗,被称为各种姓及中间种姓的善行(sadācāra)。

14.110.46

कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः ।
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः ॥ १४.११०.४६ ॥

俱卢之野、摩差国、般遮罗与首罗犀那,这些是梵仙之国,紧邻梵域。

14.110.47

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः ॥ १४.११०.४७ ॥

凡生于此地的长子(婆罗门),地上所有的人都应向其学习自己的行为。

14.110.48

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि ।
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः ॥ १४.११०.४८ ॥

喜马拉雅与温底耶之间的中部之地,东自毗舍那,西至普拉雅伽,被称为中土。

14.110.49

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम् ॥ १४.११०.४९ ॥

黑羚羊自然游荡之地,应知为适于祭祀之地;其外即蛮夷之地。

14.110.50

एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः ।
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः ॥ १४.११०.५० ॥

知此诸地,再生者应居于其中;而首陀罗因生计所困,则可居于任何地方。

14.110.51

आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च ।
दानं चैव यथाशक्ति नियमाश्च यमैः सह ॥ १४.११०.५१ ॥

德行乃第一法:不害与真实,随力布施,以及与制戒并行的律令。

14.110.52

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ १४.११०.५२ ॥

再生者之身心净化,自受胎始,当以吠陀功德之仪式行之;此净化今世与来世皆然。

14.110.53

गर्भहोमैर्जातकर्मनामचौलोपनायनैः ।
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ १४.११०.५३ ॥

以胎中祭、诞生礼、命名、剃发与入学礼;以诵习吠陀及其誓戒;以婚礼与结业之誓;以大祭与诸祭,身体因此成为婆罗门之身。

14.110.54

धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा ।
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे ॥ १४.११०.५४ ॥

若其中无法与财富,亦无此类侍奉,则当在其中播种学问,如善种子播于瘠土。

14.110.55

लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा ।
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत् ॥ १४.११०.५५ ॥

无论是世俗的、吠陀的,还是精神的知识——凡从其获得此知识者,应先恭敬地向他致礼。

14.110.56

सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम् ।
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम् ॥ १४.११०.५६ ॥

以左手握左,以右手握右,不应以单手触及老师的双足行礼。

14.110.57

निषेकादीनि कर्माणि यः करोति यथाविधि ।
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते ॥ १४.११०.५७ ॥

若依法为其行自受孕起的诸礼,并教授他,此婆罗门即称为古鲁(师)。

14.110.58

कृत्वोपनयनं वेदान्योध्यापयति नित्यशः ।
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते ॥ १४.११०.५८ ॥

凡行受戒礼后,每日教授吠陀及其仪轨典籍与秘义者,即称为优婆陀耶(教师)。

14.110.59

साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च ।
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते ॥ १४.११०.५९ ॥

凡教授吠陀及其六支,训练诸戒律,并阐明咒语之义者,即称为阿阇梨(导师)。

14.110.60

उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता ।
पितुः शतगुणं माता गौरवेणातिरिच्यते ॥ १४.११०.६० ॥

阿阇梨胜过优婆陀耶十倍,父亲胜过阿阇梨百倍,母亲在尊重上胜过父亲百倍。

14.110.61

एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः ।
गुरोः परतरं किंचिन्न भूतं न भविष्यति ॥ १४.११०.६१ ॥

在这一切之中,传授知识的上师最为尊贵。世上从未有过、也永远不会有比上师更尊贵的事物。

14.110.62

तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत् ।
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः ॥ १४.११०.६२ ॥

因此应当顺从他们,全心侍奉。轻慢他们必定堕入地狱,这是毫无疑问的。

14.110.63

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत् ॥ १४.११०.६३ ॥

不可辱骂肢体残缺或多余的人、缺乏学问的人、年长的人、貌陋或贫穷的人,以及出身低微的人。

14.110.64

शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति ।
शप्यमानस्य यत्पापं शपन्तमनुगच्छति ॥ १४.११०.६४ ॥

咒骂者所积的功德转到被咒骂者身上,被咒骂者的罪过则跟随咒骂者。

14.110.65

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत् ॥ १४.११०.६५ ॥

应当远离无信、诽谤吠陀、轻慢诸神、憎恨、虚伪、傲慢、愤怒与严厉。