Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.113

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.113.1

केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे ।
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप ॥ १४.११३.१ ॥

克舍婆如此讲述月行苦行之次第后,法之子,王啊,又询问了其他的法。

14.113.2

सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत ।
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः ॥ १४.११३.२ ॥

众生之主啊,尊贵者啊,被一切众生所敬礼者啊,一切智者啊,请为我们宣说利益一切众生的法。

14.113.3

यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् ।
सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर ॥ १४.११३.३ ॥

坚战啊,请听:即使对穷人而言,此法也能带来天界与安乐,并平息一切罪过。

14.113.4

कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः ।
तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया ॥ १४.११३.४ ॥

自迦尔提迦起的十二个月中,我为一切人宣说如一餐般的戒律。

14.113.5

कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः ।
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते ॥ १४.११३.५ ॥

若于迦尔提迦月、难陀日,摄持诸根,奉我为主,一日一食,度过一月。

14.113.6

जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् ।
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः ॥ १४.११३.६ ॥

一月之中不饮水,两餐之间不进食;常以日轮之形敬拜我,心应极其专一安定。

14.113.7

व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च ।
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ १४.११३.७ ॥

在誓约结束时,他应供养婆罗门并布施达叉那;远离愤怒与贪欲,请听其福德之果。

14.113.8

विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् ।
तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते।
ततश्चापि च्युतः कालात्पुरुषेषूपजायते ॥ १४.११३.८ ॥

依仪轨布施迦毗罗牛所宣说的福德,他得此福德后在太阳界受到尊崇;此后随时节坠落,转生于人间。

14.113.9

मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते ।
कामं क्रोधं च लोभं च परित्यज्य यथाविधि ॥ १४.११३.९ ॥

若有人整个末伽始罗月只一食而住,并依仪轨舍弃欲望、愤怒与贪欲。

14.113.10

स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः ।
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः ॥ १४.११३.१० ॥

沐浴之后,制御诸根,应以太阳之形敬拜我;并制住言语与诸根,诵持我的迦耶特里。

14.113.11

मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः ।
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु ॥ १४.११३.११ ॥

月满之时,他应清净自身,供养再生者,并以对我的虔敬礼敬他们;请听其福德之果。

14.113.12

अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् ।
तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना।
सह सप्तर्षिलोकेषु यथाकामं यथासुखम् ॥ १४.११३.१२ ॥

持圣火者行阿耆尼扈特罗祭所得之福德,他得此福德之果……与被天空庄严的(……)一同,在七仙之界,随其所愿,安乐自在。

14.113.13

ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते ।
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ॥ १४.११३.१३ ॥

随后,时候到了,他坠落,生于哈里婆娑之地。在那里尽情嬉戏之后,他将成为国王。

14.113.14

क्षिपेदेवमेकभुक्तेन यो नरः ।
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना ॥ १४.११३.१४ ॥

以这种方式只吃一次,始终崇拜我、以内心专注于我的人 [...]

14.113.15

अहिंसासत्यसहितः क्रोधहर्षविवर्जितः ।
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् ॥ १४.११३.१५ ॥

具备不害与真实、远离愤怒与喜悦的人——王中之王啊,请听这样自制之人的无上果报。

14.113.16

विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् ।
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ॥ १४.११३.१६ ॥

千次款待婆罗门所宣说的功德,得此功德后,他在因陀罗界受到尊崇。

14.113.17

अवतीर्णस्ततः कालादिलावर्षेषु जायते ।
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति ॥ १४.११३.१७ ॥

随后,时候到了,他降下,生于伊拉婆娑之地。在那里长久停留之后,他将在此成为婆罗门。

14.113.18

माघमासं सदा यस्तु वर्तते चैकभुक्ततः ।
मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः।
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः ॥ १४.११३.१८ ॥

在整个摩伽月中始终一日一食、专心敬拜我、远离虚伪与愤怒、并于黄昏诵念我的萨维德丽咒的人,那智者 [...]

14.113.19

दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि ।
नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना।
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु ॥ १४.११३.१९ ॥

若人于末了施予布施,供养再生者,以虔诚之心、以内在自我向着我,向他们致敬,并且于三时沐浴——请听他的功德果报。

14.113.20

नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना ।
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः ॥ १४.११३.२० ॥

乘坐由蓝颈者(湿婆)所驾、在天空中闪耀的车乘,这位光荣者前往祖先的世界,有天界仙女侍奉。

14.113.21

तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते ।
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले ॥ १४.११३.२१ ॥

在那里随意游戏之后,他降生于贤马(Bhadrāśva)诸国;然后从那里坠落,在大地上成为通晓四吠陀的婆罗门。

14.113.22

यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः ।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा ॥ १४.११३.२२ ॥

于法尔古那月中,以克制根欲之心,一日仅食一次,并常念诵此咒:“敬礼爱护婆罗门的神。”

14.113.23

पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः ।
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु ॥ १४.११३.२३ ॥

于誓愿终了时,克制诸根,以牛奶米粥供养再生者,专心敬拜我,离于忿怒——请听他的功德果报。

14.113.24

विमानं सारसैर्युक्तमारूढः कामगामि च ।
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः ॥ १४.११३.२४ ॥

乘坐以鹤为驾、随意而行的天车,形体如星辰一般,他在星宿界中欢乐。

14.113.25

ततश्चापि च्युतः कालात्केतुमालेषु जायते ।
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् ॥ १४.११३.२५ ॥

随后,他在时间中从那里坠落,生于柯图摩罗之地;在那里任意嬉戏后,他成为人间的一位仙人。

14.113.26

चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते ।
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु ॥ १४.११३.२६ ॥

国王啊,请听那在吉特拉月中一日一食、守持梵行、以虔诚奉我而生活之人的功德果报。

14.113.27

यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः ।
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते ॥ १४.११३.२७ ॥

火祭者所有的功德,以及如所说守持誓戒者的功德——获得那功德果报后,他在月界受到尊崇。

14.113.28

ततोऽवतीर्णो जायेत वर्षे रमणके पुनः ।
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति ॥ १४.११३.२८ ॥

随后,他下降,再生于罗摩那迦州;在那里享受欲望之后,他将在此成为国王。

14.113.29

वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते ।
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः ॥ १४.११३.२९ ॥

在吠舍迦月中一日一食而生活之人,请一位再生者(婆罗门)坐于上座,自己席地而坐,闭口进食。

14.113.30

नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् ।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥ १४.११३.३० ॥

以“敬礼崇奉婆罗门的天神”之语礼拜太阳,于誓戒之末应供养婆罗门;请听其功德果报。

14.113.31

फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ १४.११३.३१ ॥

依规则所宣说的阿耆尼突摩与阿提罗咏祭之果,得此功德之报,他在天界受到尊崇。

14.113.32

ततो हैमवते वर्षे जायते कालपर्ययात् ।
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति ॥ १४.११३.३२ ॥

此后经过时间的推移,他生于海马婆多地区;在那里随心所欲地嬉戏之后,他将成为婆罗门。

14.113.33

ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते ।
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥ १४.११३.३३ ॥

在闍瑟吒月中只食一餐度日的婆罗门,若让一位婆罗门坐于首席,自己依规则坐在地上而食。

14.113.34

नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः ।
डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ १४.११३.३४ ॥

若以专注之心高声念诵:“敬礼爱护婆罗门的天神”,并远离虚伪与谎言,那人的功德果报,你且听来。

14.113.35

चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ १४.११३.३५ ॥

若善行月行苦修(月行戒),所宣说之功德,得此果报,他在天界受到尊崇。

14.113.36

अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः ।
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् ॥ १४.११३.३६ ॥

此后他生于北俱卢地区;从那里出来,因时间而坠落,在此世间将成为再生者(婆罗门)。

14.113.37

आषाढमासं यो राजन्नेकभुक्तेन वर्तते ।
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः ॥ १४.११३.३७ ॥

国王啊,在阿沙荼月中,以一餐维持誓戒,修持梵行,克制愤怒,专心敬拜我的人。

14.113.38

विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः ।
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः ॥ १४.११३.३८ ॥

请婆罗门坐于上座,自己以调伏的感官坐在地上进食,依八字仪轨一日三次沐浴。

14.113.39

व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर ।
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु ॥ १४.११३.३९ ॥

Yudhiṣṭhira啊,持戒圆满时,智者应以牛奶米饭供养婆罗门。王中之王啊,请听其功德之果。

14.113.40

कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन ।
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ १४.११३.४० ॥

般度之子啊,布施一百头卡毗拉牛所得的功德,他获得这份功德之果后,在天界受到尊崇。

14.113.41

ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते ।
ततश्चापि च्युतः कालादिह विप्रो भविष्यति ॥ १४.११३.४१ ॥

之后,待到时机,他降生于沙迦洲;此后,寿尽离开彼处,他将在此世成为婆罗门。

14.113.42

श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते ।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा।
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥ १४.११३.४२ ॥

若有人以一餐度过室罗伐那月,说“敬礼护持婆罗门之神”,并常常敬拜我;让婆罗门坐于上座,依规矩坐在地上进食。

14.113.43

पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः ।
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ १४.११३.४३ ॥

摆脱贪欲与迷惑,克服愤怒,制服诸根,用乳粥供养婆罗门者,其功德之果报,请听。

14.113.44

कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव ।
तत्पुण्यं समप्राप्य शक्रलोके महीयते ॥ १४.११३.४४ ॥

般度之子啊,依仪轨布施赤褐牛(迦毗罗牛)所得的功德,他获得此功德后,在因陀罗天界受到尊崇。

14.113.45

ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते ।
तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे ॥ १४.११३.४५ ॥

此后经过时日,他从彼处坠落,生于拘舍洲;在那里随意嬉戏,便在人间成为婆罗门。

14.113.46

यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते ।
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ॥ १४.११३.४६ ॥

若有人在婆陀罗波陀月中,每日只食一次,持守梵行,克服愤怒,诚守誓言,制服诸根。

14.113.47

विप्रमग्रासने कृत्वा पाकभेदविवर्जितः ।
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत् ॥ १४.११३.४७ ॥

请婆罗门坐于上座,不食各式烹调之物,说“敬礼护持婆罗门的神”,然后触碰他的双足。

14.113.48

तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत् ।
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु ॥ १४.११३.४८ ॥

在誓愿终了时,即使布施芝麻或酥油并奉上祭礼的人,便是我的信徒,人中至尊啊,请听他的功德之果。

14.113.49

यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः ।
तत्पुण्यफलमासाद्य शक्रलोके महीयते ॥ १४.११३.४९ ॥

依仪轨所说的王祭与马祭之果报,他既获得此功德果,便在因陀罗界受到尊崇。

14.113.50

ततश्चापि च्युतः कालाज्जायते धनदालये ।
तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे ॥ १४.११३.५० ॥

此后,他随时间从彼处坠落,生于财神(俱毗罗)的居所;在那里随意嬉戏后,他在人间成为国王。

14.113.51

यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते ।
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना।
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा ॥ १४.११३.५१ ॥

若人于阿湿缚月持一餐之戒,以虔敬之心、以内在自我专注于我,诵我的伽耶特里——于两个时辰,或三个时辰,或一百零八遍。

14.113.52

विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः ।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥ १४.११३.५२ ॥

请婆罗门坐于尊座,收摄诸根与心,在誓愿结束时供养婆罗门。请听其功德之果。

14.113.53

अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन ।
तत्पुण्यफलमासाद्य मम लोके महीयते ॥ १४.११३.५३ ॥

般度之子啊,依仪轨行马祭所得之功德,他既获得此功德果,便在我的世界受到尊崇。

14.113.54

ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते ।
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत् ॥ १४.११३.५४ ॥

此后,他随时间从彼处坠落,生于白洲;在那里享受诸般欢乐之后,便成为最上的婆罗门。