摩诃婆罗多 · 章 14.114
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.114.1
एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत् ।
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव ॥ १४.११४.१ ॥
如此整整一年只吃一顿饭的人,其所得的功德果报是什么?请告诉我,凯沙婆。
14.114.2
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम् ।
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते ॥ १४.११४.२ ॥
般度之子啊,请听我这真实而最为功德殊胜的话:无论做或不做此事,人都能从罪恶中解脱。
14.114.3
एकभुक्तेन वर्तेत नरः संवत्सरं तु यः ।
ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः ॥ १४.११४.३ ॥
凡人一年只吃一顿饭,保持梵行,战胜愤怒,睡在地上,并且控制自己的感官。
14.114.4
शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः ।
अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना।
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः ॥ १४.११४.४ ॥
以沐浴洁净自身,专注,诚实,不嫉妒,常常以专注于我的内心敬拜我,并在早晚两个黄昏时分,专心日日诵念我的甘婆特利。
14.114.5
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च ।
विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा ॥ १४.११४.५ ॥
口中说:「敬礼护持婆罗门的神」,反复向我礼拜,并将一位婆罗门安置于尊贵的座位上,然后供养他大麦粥或一餐饭食。
14.114.6
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः ।
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत् ॥ १४.११४.६ ॥
饮食之后,缄默不语,对于在地上漱口净手的再生者,应说「敬礼婆苏提婆」,然后触摸他的双足。
14.114.7
मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन् ।
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम् ॥ १४.११४.७ ॥
每月圆满之后,供养清净的再生者;待一年圆满,应当施予誓愿的布施。
14.114.8
नवनीतमयीं गां वा तिलधेनुमथापि वा ।
विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः।
तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु ॥ १४.११४.८ ॥
以酥油所造之牛,或以芝麻所造之牛,或以婆罗门手中滴落之水与黄金洒浴者——大王,请听我所说的福报之果。
14.114.9
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा ।
तद्विनश्यति तस्याशु नात्र कार्या विचारणा ॥ १४.११४.९ ॥
十世所作之罪,无论知与不知,皆迅速消灭;此中不必再有疑议。
14.114.10
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् ।
यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति ॥ १४.११४.१० ॥
在一切斋戒之中,何者是最大果报的至善,又何者是世间的究竟至善——这正是您应当宣说的。
14.114.11
शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते ।
तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते ॥ १४.११४.११ ॥
大王,请听:如前所说,凡我所喜,他便欢喜;我今为你——般度之子,为我的信徒宣说此法。得一切祭祀之果后,他在我的世界中受到尊崇。
14.114.12
यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप ।
उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम्। ॥ १४.११४.१२ ॥
若人以虔诚而清净,人主啊,于我的第五日行持斋戒之誓,并于一日三时礼拜我——
14.114.13
भगवन्देवदेवेश पञ्चमी नाम का तव ।
तामहं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १४.११४.१३ ॥
尊贵的神明之主啊,您的五日(Pañcamī)斋戒之名是什么?无罪的主啊,我愿意听闻,请告诉我。
14.114.14
पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप ।
मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः ॥ १४.११४.१४ ॥
人主啊,十二日那天两个帕尔瓦与舍罗婆那星宿相会;它以我的五日之名而闻名,尤其为我所喜爱。
14.114.15
तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः ।
उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः ॥ १४.११४.१५ ॥
因此,心志专注于我的婆罗门中的上士,应当斋戒,尤其是为了我所喜爱之事。
14.114.16
द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् ।
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव ॥ १४.११४.१६ ॥
若不能斋戒者,可只在十二日斋戒;由此,人中之雄啊,我将获得至上的喜悦。
14.114.17
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम् ।
उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत् ॥ १४.११४.१७ ॥
若在马迦尸湿那月的十二日禁食一昼夜,礼拜Keśava者,将获得马祭的果报。
14.114.18
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् ।
उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत् ॥ १४.११४.१८ ॥
若在补沙月的十二日禁食,以那罗延之名礼拜我者,将获得马祭的果报。
14.114.19
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् ।
पूजयेद्यः समाप्नोति राजसूयफलं नृप ॥ १४.११४.१९ ॥
国王啊,于摩伽月十二日禁食,以摩陀婆之名礼拜我的人,可获得王祭(罗阇苏耶)的功德。
14.114.20
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम् ।
पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप ॥ १४.११४.२० ॥
国王啊,于颇勒衍那月十二日禁食,以瞿频陀之名礼拜我的人,可获得阿提罗耶(Atirātra)祭的功德。
14.114.21
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः ।
पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम् ॥ १४.११४.२१ ॥
于制多月十二日禁食,以毗湿奴之名礼拜我的人,所得的正是白莲花祭(Puṇḍarīka)的功德。
14.114.22
द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम् ।
उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव ॥ १४.११४.२२ ॥
般度之子啊,于吠舍迦月十二日禁食,以摩图苏陀那之名礼拜我的人,可获得火祭(Agniṣṭoma)的功德。
14.114.23
द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम् ।
अर्ययेद्यः समाप्नोति गवां मेधफलं नृप ॥ १४.११४.२३ ॥
国王啊,于阇瑟吒月十二日禁食,以特里维克拉玛之名礼拜我的人,可获得牛祭(Gomedha)的功德。
14.114.24
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः ।
नरमेधस्य स फलं प्राप्नोति भरतर्षभ ॥ १४.११४.२४ ॥
婆罗多族的雄牛啊,于阿沙荼月十二日禁食,以侏儒(Vāmana)之名礼拜我的人,可获得人祭(Naramedha)的功德。
14.114.25
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् ।
पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप ॥ १४.११४.२५ ॥
在月初十二日(室罗婆那月),若人斋戒,以“室利驮罗”之名供奉我,便得五祭之果,大王。
14.114.26
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् ।
उपोष्य स समाप्नोति सौत्रामणिफलं नृप ॥ १४.११४.२६ ॥
在婆陀罗钵陀月,若人斋戒,以“须弥阿鲁”之名(希利希克舍)供奉我,便得萨陀罗摩尼祭之果,大王。
14.114.27
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम् ।
अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ॥ १४.११४.२७ ॥
在阿什瓦尤贾月的十二日,若人斋戒,以“莲花脐”之名供奉我,便得千牛之果,大王。
14.114.28
द्वादश्यां कार्तिके मासि मां दामोदरसंज्ञितम् ।
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप ॥ १४.११४.२८ ॥
在迦尔迪迦月的十二日,若人斋戒,以“达摩达罗”之名供奉我,便得一切祭祀之果,大王。
14.114.29
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन ।
यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप ॥ १४.११४.२९ ॥
般杜之子啊,仅于十二日斋戒,便得前所说之果的一半,大王。
14.114.30
श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः ।
मम सालोक्यमाप्नोति नात्र कार्या विचारणा ॥ १४.११४.३० ॥
在室罗婆那月,若虔诚之人同样供奉我,便得与我同居之境(沙洛迦),此事无疑。
14.114.31
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः ।
पूर्मे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम् ॥ १४.११४.३१ ॥
每月依次、不懈怠地好好礼拜我;满一年后,再礼拜我一年。
14.114.32
अविघ्नमर्चयानस्तु यो मद्भक्तो मत्परायणः ।
अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात् ॥ १४.११४.३२ ॥
凡是我的信徒、以我为归宿者,无障碍地礼拜我,便能获得与我的合一。
14.114.33
अर्चयेत्प्रीतिमान्यो मां द्वादस्यां वेदसंहिताम् ।
स पूर्वोक्तफलं राजँल्लभते नात्र संशयः ॥ १४.११४.३३ ॥
凡怀着爱敬,于十二日以吠陀集成礼拜我者,大王,必得前面所说的果报,此中无疑。
14.114.34
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा ।
द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः ॥ १४.११४.३४ ॥
凡于十二日以香、花、果、水、叶或根供养我者,无人比他更为我所爱。
14.114.35
एतेन विधिना सर्वे देवाः शक्रपुरोगमाः ।
मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते ॥ १४.११४.३५ ॥
以此方法,以因陀罗为首的诸神,作为我的信徒,人中之虎啊,享受天界。
14.114.36
एवं वदति देवेशे केशवे पाडुनन्दनः ।
कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत् ॥ १४.११४.३६ ॥
天神之主克沙婆如此说时,般度之子、法之子合掌,以虔敬之心说出了这首赞歌。
14.114.37
सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते ।
सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते ॥ १४.११४.३७ ॥
诸世界之主、诸神之主、感官之主,向您致敬。永远向千头者致敬;千眼者啊,向您致敬。
14.114.38
त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः ।
यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमोनमः ॥ १४.११४.३८ ॥
三吠陀所成者、三吠陀之主、三吠陀所赞者,致敬,致敬。祭祀之自我、从祭祀生者、祭祀之主,致敬,致敬。
14.114.39
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः ।
लोकात्मँल्लोककृन्नाथ लोकावास नमोनमः ॥ १४.११४.३९ ॥
四相者、四臂者、四重化现者,致敬,致敬。诸世界之自我、诸世界之创造者、主、诸世界之居所,致敬,致敬。
14.114.40
सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः ।
भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः ॥ १४.११४.४० ॥
创造与毁灭者,人狮啊,致敬,致敬。信众所爱者,向您致敬;克里希那啊,主啊,致敬,致敬。
14.114.41
लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः ।
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः ॥ १४.११४.४१ ॥
世界所爱者,向您致敬;慈爱信众者,向您致敬。梵之居所,向您致敬;梵之主,致敬,致敬。
14.114.42
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मिरताय ते ।
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः ॥ १४.११४.४२ ॥
楼陀罗之相,向您致敬;喜于楼陀罗之业者,向您致敬。五祭之主,向您致敬;一切祭祀,致敬,致敬。
14.114.43
कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः ।
योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः ॥ १४.११४.४३ ॥
克里希那所爱者,向你致敬;克里希那之主,再三致敬。瑜伽行者所爱者,向你致敬;瑜伽行者之主,再三致敬。
14.114.44
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः ।
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः ॥ १४.११४.४४ ॥
马面者,向你致敬;持轮者,再三致敬。五大者,向你致敬;持五器者,再三致敬。
14.114.45
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे ।
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ॥ १४.११४.४५ ॥
当坚战以虔诚哽咽的声音如此赞颂时,心怀欢喜的羯舍婆握住他的手,将他制止。
14.114.46
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् ।
वक्तुमेव नरश्रेषठ धर्मपूत्रं प्रचक्रमे ॥ १४.११४.४६ ॥
人中之雄,他再次以言语制止之后,法之子坚战因虔诚而谦卑,开始说话。
14.114.47
अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव ।
तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर ॥ १४.११४.४७ ॥
君王啊,人中雄牛,你为何这样赞颂我?停下;像先前那样发问吧,法之子坚战。
14.114.48
भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः ।
न शान्तिरस्ति मे देव नृत्यतीव च मे मनः ॥ १४.११४.४८ ॥
世尊啊,虽因你的恩典而一再忆念法,天神啊,我仍不得安宁,我的心仿佛在舞动。
14.114.49
इदं च धर्मसंपन्नं वक्तुमर्हसि माधव ।
कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत् ॥ १४.११४.४९ ॥
摩陀婆啊,你也应当讲述这充满法的内容:在黑半月的第十二日,应当如何礼拜值得崇拜者?
14.114.50
शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते ।
परमं कृष्णद्वादश्यामर्चनायां फलं मम ॥ १४.११४.५० ॥
国王,请听。如前所述,我将为你全部讲述:在黑半月第十二日礼拜我所得的最高果报。
14.114.51
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम् ।
विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः ॥ १४.११४.५१ ॥
在十一日斋戒后,应于十二日礼拜我;虔诚之人也应依所得礼敬婆罗门。
14.114.52
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा ।
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः ॥ १४.११४.५२ ॥
他将往生南向神(Dakṣiṇāmūrti)或我处,此无疑问。或往月界,或受诸行星与星宿礼敬,而达至高之境。