Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.115.1

केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः ।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप ॥ १४.११५.१ ॥

克舍婆如此说明之后,法之子一再询问施舍之时的特殊之处及其规则,大王。

14.115.2

देव किं फलमाख्यातं विषुवेष्मवरेश्वर ।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम् ॥ १४.११५.२ ॥

神啊,分点与四季之至尊主宰,日月蚀时施舍的果报是什么?您有资格宣说那果报。

14.115.3

शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च ।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम् ॥ १४.११५.३ ॥

大王请听:在分点、日月蚀、凡亚提帕塔及至点之时布施,所得果报是无尽的。

14.115.4

राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते ।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप ॥ १४.११५.४ ॥

大王,两眼(日与月)之间称为分点;彼时昼夜相等,分点之黄昏亦如是,大王。

14.115.5

ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत् ।
क्रियाकरणकार्याणामेकीभावत्वकारणात् ॥ १४.११५.५ ॥

我、梵天与湿婆也一同一次站立,因为行为、工具与事业处于一体的状态。

14.115.6

अस्माकमेकीभूतानां निष्कलं परमं पदम् ।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम् ॥ १४.११५.६ ॥

对于我们已合为一体者,有无分的至上之境。大王,名为分点的那一刻,极其功德殊胜。

14.115.7

तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् ।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम् ॥ १४.११५.७ ॥

这不灭的音节本身被称为梵,即至上梵。在那一刻,众人都冥想至高之境。

14.115.8

देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा ।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ॥ १४.११५.८ ॥

诸神、婆苏、楼陀罗、祖先、双阿溪那、萨提亚、众天神、乾闼婆、悉陀以及梵仙,也都如此。

14.115.9

सोमादयो ग्रहाश्चैव सरितः सागरास्तथा ।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः ॥ १४.११५.९ ॥

月神等诸星、河流与海洋同样,还有摩录多、阿布萨罗、那伽、夜叉、罗刹与伏藏神。

14.115.10

एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः ।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः ॥ १४.११५.१० ॥

诸王之王啊,这些人及其他人在毗湿缚节,制伏诸根,禁食斋戒,精勤地专注于禅定。

14.115.11

अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च ।
गृहमायतनं धान्यं वाहनं शयनं तथा। ॥ १४.११५.११ ॥

食物、牛、芝麻、土地、嫁女之施,以及房舍、神庙、谷物、车乘与卧具。

14.115.12

यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर ।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः ॥ १४.११५.१२ ॥

尤其是我所说的,以及其他的,都要布施给你,坚战啊;在毗湿缚节,这样布施,尤其是给有学问的婆罗门。

14.115.13

तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते ।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम् ॥ १४.११५.१३ ॥

俱盧之子啊,那布施永不衰減;其福德日日增長,那布施等同於千萬。

14.115.14

विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा ।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु ॥ १४.११५.१४ ॥

請聽那人的福報:在春分秋分之時,依法為我或哈拉沐浴並禮拜者。

14.115.15

दशजन्मकृतं पापं तस्य सद्यो विनश्यति ।
दशानामश्वमेधानामिष्टानां लभते फलम् ॥ १४.११५.१५ ॥

他於十世所作之罪立即消滅,並得十次已行馬祭之果報。

14.115.16

विमानं दिव्यमारूढः कामरूपी यथासुखम् ।
स याति मामकं लोकं रुद्रलोकमथापि वा ॥ १४.११५.१६ ॥

乘坐天界神車,隨意化現任何形象,安然前往我的世界,或前往樓陀羅之界。

14.115.17

तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम् ।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते ॥ १४.११५.१७ ॥

住於彼處,為諸天與乾闥婆所歌詠,安樂地歡喜數千天年及一俱胝年。

14.115.18

ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः ।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत् ॥ १४.११५.१८ ॥

其後,時限既盡,自彼處墜落,便生於此世,為再生者之最上,通達四吠陀,成為梵智者。

14.115.19

चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा ।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा ॥ १४.११५.१९ ॥

在日月食之时,于天空中诵念我的或湿婆的、我自己的或湿婆的伽耶特里者。

14.115.20

शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि ।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ॥ १४.११५.२० ॥

若以虔诚之心令法螺、号角及铜钟发出声响,请听其所得的功德果报。

14.115.21

गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः ।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत् ॥ १४.११५.२१ ॥

以天界乐音、供奉与诵念,以及诵念殊胜名号,罗睺变弱,月神(苏摩)变强。

14.115.22

सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते ।
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति ॥ १४.११५.२२ ॥

于日食或月食之时布施给精通吠陀的婆罗门,其功德增至千倍而归于施主。

14.115.23

महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम ।
निष्पापस्तत्क्षणादेव तेन दानेन जायते ॥ १४.११५.२३ ॥

人中之最,即使犯有大罪之人,因此布施,当下便得无罪。

14.115.24

चन्द्रसूर्यप्रकाशेन विमानेन विराजता ।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः ॥ १४.११५.२४ ॥

乘着以日月之光辉耀的天车,由众阿普萨拉斯侍奉,他前往美妙的月神之城。

14.115.25

यावदृक्षाणि तिष्ठन्ति गगने शशिना सह ।
तावत्कालं स रजेन्द्र सोमलोके महीयते ॥ १४.११५.२५ ॥

只要星宿与月亮一同停留在天空,王中之王啊,他便在月神之界受人尊崇。

14.115.26

ततश्चापि च्युतः कालादिह लोके युधिष्ठिर ।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥ १४.११५.२६ ॥

此后,尤帝士替啊,他在时限已尽后从天界坠落于此世,那通晓吠陀与吠陀支分的婆罗门,便成为千万财富的主人。

14.115.27

भगवंस्तव गायत्री जप्यते च कथं विभो ।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर ॥ १४.११५.२७ ॥

尊贵的主啊,全能者啊,你的加耶特里应当如何诵持?神啊,诸神之主啊,它的果报是什么?请告诉我。

14.115.28

द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
अयने श्रवणे चैव व्यतीपाते तथैव च ॥ १४.११५.२८ ॥

于十二日,于春分秋分,于日月食时,同样于至点,于星宿室女(Śravaṇa)时,也于凶星合会(vyatīpāta)时。

14.115.29

अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च ।
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः ॥ १४.११५.२९ ॥

见菩提树时,以及见我时,都应诵念我的加耶特里或八字真言,国王啊。它能消除他所积累的罪业,此中无疑。

14.115.30

अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम् ।
एतत्कथय मे देव परं कौतूहलं हि मे ॥ १४.११५.३० ॥

菩提树的见闻,怎能与见你相等?神啊,请告诉我,我的好奇心很强。

14.115.31

अहमश्वत्थरूपेण पालयामि जगत्त्रयम् ।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः ॥ १४.११५.३१ ॥

我以阿湿缚陀树之形守护三界;凡无阿湿缚陀树之处,我便不住其中。

14.115.32

यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति ।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति ॥ १४.११५.३२ ॥

大王啊,我所居之处,阿湿缚陀树亦立于其中;凡以虔信供奉它的人,便是直接供奉我。

14.115.33

यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः ।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम् ॥ १४.११५.३३ ॥

若有人怀怒击打它,便是击打我;因此应当绕它右行,不可每日砍伐它。

14.115.34

व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते ।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा ॥ १४.११५.३४ ॥

完成誓愿便是圣渡口;正直也称为圣渡口;侍奉诸神是圣渡口,侍奉师长亦复如是。

14.115.35

पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा ।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते ॥ १४.११५.३५ ॥

侍奉父亲是圣渡口,侍奉母亲亦然;使妻子欢喜是圣渡口;居家之生活也称为圣渡口。

14.115.36

आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम् ।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते ॥ १४.११५.३६ ॥

款待宾客是至上的圣渡口,即永恒的梵圣渡口;梵行(守戒学习)是至上的圣渡口;三火也称为圣渡口。

14.115.37

मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् ।
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते ॥ १४.११५.३७ ॥

知晓法之根本,便当将心安定于此。去往圣地吧,贡蒂之子;法因法而增长。

14.115.38

द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा ।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः ॥ १४.११५.३८ ॥

据说圣地有两种:固定的与移动的。移动的圣地胜于固定的,而获得知识又胜于移动的圣地。

14.115.39

कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत ।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते ॥ १४.११५.३९ ॥

婆罗多之子啊,在此世即使以行为而得清净之人,其心中便有一切圣地;他本身被称为化身的圣地。

14.115.40

गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते ।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम् ॥ १४.११५.४० ॥

上师是至高圣地,知识是至高的;此外再无圣地。知识之圣地是至高圣地,梵之圣地是永恒的。

14.115.41

क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ १४.११५.४१ ॥

般度之子啊,在一切圣地中,忍耐宽恕便是至高圣地。此世属于能忍耐之人,彼世也属于能忍耐之人。

14.115.42

मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा ।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते ॥ १४.११५.४२ ॥

无论受尊敬还是被轻视,受供养还是不被供养,遭辱骂还是被威胁——能忍耐者,便被称为圣地。

14.115.43

क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः ।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ॥ १४.११५.४३ ॥

宽恕即是荣耀,宽恕即是布施,宽恕即是祭祀,宽恕即是克制。宽恕即是不害,宽恕即是法,宽恕即是诸根的制约。

14.115.44

क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत् ।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः ॥ १४.११५.४४ ॥

宽恕即是慈悲,宽恕即是祭祀;世界正是依靠宽恕而得以承载。能宽恕的婆罗门即是神,能宽恕的婆罗门即是最优者。

14.115.45

क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः ।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते ॥ १४.११५.४५ ॥

能宽恕者得升天界,能宽恕者得名声。能宽恕者得解脱;因此他被称为善人。

14.115.46

आत्मा नदी भारतपुण्यतीर्थ-
मात्मा तीर्थं सर्वतीर्थप्रधानम्।
आत्मा यज्ञः सततं मन्यते वै ।
स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ॥ १४.११५.४६ ॥

自我即是河流,婆罗多啊,是功德圣渡口。自我即是渡口,是一切渡口中的首要。自我常被视为祭祀。天界与解脱,一切皆依于自我。

14.115.47

आचारनैर्मल्यमुपागतेन ।
सत्यक्षमानिस्तुलशीतलेन।
ज्ञानांबुना स्नाति हि नित्यमेवं ।
किं तस्य भूयः सलिलेन तीर्थम् ॥ १४.११५.४७ ॥

已达行为清净、以真实与宽恕而得无比清凉之人,常以智慧之水如此沐浴。他还需要何种水中圣渡?

14.115.48

भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् ।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि ॥ १४.११५.४८ ॥

尊贵的主啊,何种赎罪能灭除一切罪过而又不艰难?诸神中最尊贵者啊,身为您之信徒的我,唯有您配为我宣说。

14.115.49

रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् ।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥ १४.११५.४९ ॥

此乃极为秘密之法,不可使作恶者与不义者听闻。我为你说赎罪之法。

14.115.50

पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना ।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ॥ १४.११५.५० ॥

见到使人清净的梵圣地,以内心专注于我,应礼拜并说:“敬礼护持婆罗门的神。”

14.115.51

प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु ।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम् ॥ १४.११५.५१ ॥

若以八字真言再行绕行,其罪我借那因之欢喜的婆罗门而消除。

14.115.52

पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन् ।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते ॥ १४.११५.५२ ॥

若人头顶载着野猪之口掘出的泥土,行一百次调息,便能脱离罪过。

14.115.53

दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा ।
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ ॥ १४.११५.५३ ॥

取右旋螺壳之水,或取赤色母牛之角中之水,或往向东流之河,于我庙宇附近。

14.115.54

सलिलेन तु यः स्नायात्सकृदेव रविग्रहे ।
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति ॥ १४.११५.५४ ॥

若于日食之时一次入水沐浴,其所积之罪便于当下消灭。

14.115.55

मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर ।
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने। ॥ १४.११५.५५ ॥

俱胝啰(Kapilā)母牛头上流下的水,或甚至以牛尿沐浴,于罗希尼日或于我之日沐浴者——啊,坚战!

14.115.56

विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति ।
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति ॥ १४.११५.५६ ॥

即使是婆罗门足下流下的水,也能消除罪过。凡以对我的虔敬礼拜具十四肢的造物主摩竭(Śiṃśumāra)者,其罪便被消除。

14.115.57

ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर ।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ ॥ १४.११५.५७ ॥

坚战啊,现在听他的十四肢:头是法(Dharma),下颌是梵天(Brahmā),两头公牛是北方与南方者。

14.115.58

हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत् ॥ १४.११५.५८ ॥

心是毗湿奴,两肩是双马童(Aśvin)。大王啊,腰腹是阿特里,生殖器是年。

14.115.59

मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः ।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः ॥ १४.११५.५९ ॥

二足是弥多罗与伐楼那,双股是火神。之后是因陀罗,再之后是生主。

14.115.60

अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः ।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ॥ १४.११५.६० ॥

之后是无畏(Abhaya),而那同一者名为北极星(Dhruva)。这些便是生主摩竭(Śiṃśumāra)的全部肢体。

14.115.61

विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु ।
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम्
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्। ॥ १४.११५.६१ ॥

在满月之日禁食并饮用五牛产物者,其先前积累的罪孽得以消除。同样,梵咒仪式(brahma-kūrca)须连同咒语分别进行。

14.115.62

मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति ।
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत। ॥ १४.११५.६२ ॥

每月服用者,其罪孽被彻底消除。婆罗多之子啊,也请听听关于器皿与梵咒仪式的内容。

14.115.63

पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम् ।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् ॥ १४.११५.६३ ॥

放置以palāśa木、荷叶、铜或金制成的器皿后,应取用之;这便被称为“器”。

14.115.64

गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ॥ १४.११५.६४ ॥

以《伽耶特里》诗句取牛尿;以“gandha-dvārā”取牛粪;以“āpyāyasva”取牛奶,以“dadhi-krāṇḍvā”取凝乳。

14.115.65

तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम् ।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि ॥ १४.११५.६५ ॥

以“tejo'si śuklam”取酥油,以“devasya tvā”取吉祥草水,以颂诗“āpo hi ṣṭhā”依规则取大麦粉。

14.115.66

ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने ।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥ १४.११५.६६ ॥

向梵天供奉并投入燃烧的祭火之后,应以唵(praṇava)搅拌,且仅以唵搅拌。

14.115.67

उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु ।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते ॥ १४.११५.६७ ॥

只以唵(praṇava)取出,也只以唵饮用,即使大罪,他也得解脱,如蛇脱去旧皮。

14.115.68

भद्रं न हति यः पादं पठन्नृक्सहितां तदा ।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति ॥ १४.११५.६८ ॥

若在水中或面向太阳,连同颂诗(ṛc)诵读一脚(一分),其罪即被消灭。

14.115.69

मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः ।
न पापेन स लिप्येत पद्मपत्रमिवांभसा ॥ १४.११५.६९ ॥

若常以心念系于我而诵我的颂诗,则不为罪所染,如莲叶不沾水一般。