Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.118.1

देशान्तरगते विप्रे संयुक्ते कालधर्मणा ।
शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना ॥ १४.११८.१ ॥

一位前往他乡、为时间之法所牵、身体已毁的婆罗门,其成为饿鬼(preta)之说应如何理解?

14.118.2

श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया ।
पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥ १४.११८.२ ॥

请听那位在这种状态下守护圣火者的葬礼仪式:应按仪轨所载,用波罗奢(palāśa)枝束制作一尊像。

14.118.3

त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर ।
तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम् ॥ १४.११८.३ ॥

般度之子啊,据说此人身上有三百六十根骨头;其分配须依经典,明确决定。

14.118.4

अशीत्यर्धं शिरसि च ग्रीवायां दश एव च ।
बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश ॥ १४.११८.४ ॥

头部应分配四十根,颈部十根,两臂一百根,手指再分十根。

14.118.5

उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम् ।
वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च ॥ १४.११८.५ ॥

胸部应分配三十根,腹部二十根(或另法),睾丸六根,阴茎四根。

14.118.6

दद्यात्तु शतमूर्वोस्तु षष्ट्यर्थं जानुजङ्घयोः ।
दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः ॥ १४.११८.६ ॥

大腿应分配一百根,膝和小腿六十根,双足十根。这便是饿鬼的赎罪之法。

14.118.7

विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् ।
भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः ॥ १४.११८.७ ॥

为了所有人,尤其是为了软弱者与虔信者,出于怜悯,你应当依照法(dharma)说明一处特别的圣地(tīrtha)以求拯救。

14.118.8

पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः ।
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ॥ १४.११८.८ ॥

歌唱萨摩吠陀者歌咏:真理是一切圣地中最能净化的;真实之言是圣地,不伤害(非暴力)也称为圣地。

14.118.9

तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर ।
अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता ॥ १४.११८.९ ॥

苦行是圣地,慈悲是圣地,德行是圣地,阿玩陀(Yudhiṣṭhira)啊;少欲知足是圣地,忠于丈夫的女子是圣地。

14.118.10

संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते ।
मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः ॥ १४.११८.१० ॥

知足的婆罗门是圣地,或者知识被称为圣地;我的信徒永远是圣地,尤其是湿婆(Śaṅkara)的信徒是圣地。

14.118.11

यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते ।
शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते ॥ १४.११८.११ ॥

苦行者是圣地,博学之人也如此被称为圣地;给予庇护的人是圣地,无畏被称为圣地。

14.118.12

त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन ।
न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् ॥ १४.११८.१२ ॥

在这三界之中,我无所忧虑,也毫无所惧;无论白天还是夜晚,只有因冒犯首陀罗才会产生烦扰。

14.118.13

न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप ।
शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा ॥ १४.११८.१३ ॥

啊,国王,我不惧怕诸天、阿修罗或罗刹。但从首陀罗之口坠落的梵(吠陀),却常常使我恐惧。

14.118.14

तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् ।
प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः ॥ १४.११८.१४ ॥

因此,首陀罗即使带上唵(praṇava)音,也不应念诵我的名字,因为在世间,唵(praṇava)即是至高的梵,知梵者如是说。

14.118.15

द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि ।
तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा ॥ १४.११८.१५ ॥

侍奉再生者是首陀罗的达摩。他们以虔信之心常常思念我,由此便能升往天界。

14.118.16

द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति ।
द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः ॥ १४.११८.१६ ॥

首陀罗侍奉再生者便能获得至高的福祉;对首陀罗而言,除了侍奉再生者,别无解脱之道。

14.118.17

रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता ।
शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् ॥ १४.११८.१७ ॥

贪爱、憎恶、迷惑、粗暴、残忍、欺诈、长久的仇怨、过度的傲慢与不正直——

14.118.18

अनृतं चापवादं च पैशुन्यमतिलोभता ।
हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता ॥ १४.११८.१८ ॥

虚妄、诽谤、搬弄是非、过度贪婪、暴力、偷盗、妄语、欺骗、愤怒与贪欲——

14.118.19

अबुद्धिता च नास्तिक्यं भयमालस्यमेव च ।
अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च।
निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् ॥ १४.११८.१९ ॥

无知、无信、恐惧、懒惰、不净、忘恩、虚伪、傲慢、欺诈与无识,生而即入于首陀罗。

14.118.20

सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः ।
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान्।
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥ १४.११८.२० ॥

祖父梵天创造了为黑暗之德所压的首陀罗,并为首陀罗规定侍奉再生者为其法。因对再生者的虔敬,首陀罗的昏暗之性便会消失。

14.118.21

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः ॥ १४.११८.२१ ॥

凡以虔敬之心献我一叶、一花、一果或一水者,我便低首接受这份出于虔诚的供养,即使来自首陀罗。

14.118.22

अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः ।
यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते ॥ १४.११८.२२ ॥

无论是长子婆罗门,还是任何人,即使他满身罪恶,若恒常思念我,便能脱离一切罪恶。

14.118.23

विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः ।
मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते ॥ १४.११८.२३ ॥

具足学识与谦逊、精通吠陀的婆罗门,若不虔敬于我,他们实与旃陀罗无异。

14.118.24

वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम् ।
वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ॥ १४.११८.२४ ॥

若再生者不虔敬于我,则其布施徒劳,苦行徒劳,祭祀徒劳,献祭徒劳,待客之礼也徒劳。

14.118.25

यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च ।
अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते ॥ १४.११८.२५ ॥

凡所行之事、所献火祭、所行祭祀与所施之物,若无虔敬而为,唯罗刹享用之。

14.118.26

स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव ।
समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु ॥ १४.११८.२६ ॥

般度之子啊,当我的虔信者对一切有情,无论不动或能动,对朋友与敌人,皆以平等之心相待之时——

14.118.27

आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम् ।
अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप ॥ १४.११८.२७ ॥

君王啊,慈悲与不害,真实与正直,不对众生怀恶意——此乃归依于我者之誓愿。

14.118.28

नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः ।
तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव ॥ १४.११८.२८ ॥

君王啊,凡以信心对我的虔信者只说一声「南无」者,即使是狗肉厨子,也会成就不朽的世界。

14.118.29

किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम् ।
मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा ॥ १४.११८.२९ ॥

何况那些依仪轨与妻子共同祭祀我的人,那些虔信于我、生命系于我、常常赞颂我的人,又当如何呢!

14.118.30

बहुवर्षसहस्राणि तपस्तप्यति यो नरः ।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ १४.११८.३० ॥

人即使苦行多年千年,也不能得到我的虔信者所得的那个境界。

14.118.31

मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः ।
अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम् ॥ १४.११८.३१ ॥

因此,王中之王啊,凡常不懈怠地冥想于我者,将获得成就,并必定见到至上之境。

14.118.32

अपार्थकं प्रभाषन्तः शूद्रा भागवता इति ।
न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ॥ १४.११८.३२ ॥

自称“婆伽跋多”的首陀罗是徒劳之言。首陀罗并非世尊的信徒;婆罗门才被视为婆伽跋多。

14.118.33

द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः ॥ १४.११८.३३ ॥

通晓十二字真言之义、明了四重化身之分、又知无缺五时之法者,才被认为是婆伽跋多。

14.118.34

ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च ।
सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ॥ १४.११८.३४ ॥

以《梨俱吠陀》的荷塔,以《夜柔吠陀》的阿德瓦利尤,以《娑摩吠陀》的乌德伽塔,以功德的赞颂来赞美我。

14.118.35

अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः ।
स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ॥ १४.११८.३५ ॥

以《阿闼婆》的《奥义》,通晓《阿闼婆吠陀》的再生者们常常不断地赞颂我;他们才被认为是婆伽跋多。

14.118.36

वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः ।
देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः ॥ १४.११८.३६ ॥

祭祀常依赖吠陀,诸神依赖祭祀,诸神依赖婆罗门;因此婆罗门实为诸神。

14.118.37

अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत् ।
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ १४.११८.३७ ॥

不依靠支撑便没有崛起;应当依托于最主要的支撑。诸神依靠楼陀罗,楼陀罗依靠梵天。

14.118.38

ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः ।
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥ १४.११८.३८ ॥

大王,梵天依靠于我;我并未依靠任何人。我没有依靠,因为我是一切的依靠。

14.118.39

एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् ।
धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर ॥ १४.११८.३९ ॥

我已如此宣说了这至高的秘密。大王,你热爱正法,应当始终如此行事。

14.118.40

इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम् ।
यः पठेन्मामकं धर्ममहन्यहनि पाण्डव ॥ १४.११८.४० ॥

这段神圣而有功德的叙述,与吠陀相当。般度之子啊,凡每日诵读我这套教义的人——

14.118.41

धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति ।
पापक्षयमुपेत्यैवं कल्याणं च विवर्धते ॥ १४.११८.४१ ॥

他的正法增长,他的智慧也变得清明;如此获得罪恶的消除,他的福祉也随之增长。

14.118.42

एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम् ।
श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः ॥ १४.११८.४२ ॥

这是有功德、清净、最能灭罪的至上教导;应当由怀有信心的人聆听,尤其是精通吠陀的婆罗门。

14.118.43

श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा ।
स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥ १४.११८.४३ ॥

若有人以虔敬之心诵读此篇,或以自制之心聆听,他便能与我合一;此事不必怀疑。

14.118.44

यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः ।
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ १४.११८.४४ ॥

若我的信徒专心归依于我,在祭祖仪式中令人诵读此篇,其先祖将得到满足,直至世界的毁灭。

14.118.45

श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः ।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः ॥ १४.११८.४५ ॥

亲耳聆听了世界之师毗湿奴的薄伽梵法,心中欢喜,思索着那些奇妙的故事……

14.118.46

ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् ।
पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः ॥ १४.११८.४६ ॥

诸仙人与般度五子向俱生者(Janārdana)顶礼;法之子一再礼拜哥文达(Govinda)。

14.118.47

देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा ।
ऋषयस्च महात्मानो गुह्यका भुजगास्तता ॥ १४.११८.४७ ॥

诸天神、梵仙、成就者、乾闼婆与阿普萨拉斯,以及大德诸仙人、古耶迦与蛇众。

14.118.48

वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः ।
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥ १४.११८.४८ ॥

诸大德瓦拉希利耶、洞见真理的瑜伽士,以及依五时仪轨礼拜的薄伽梵信徒,也都在场。

14.118.49

कौतूहलसमायुक्ता भगवद्भक्तिमागताः ।
श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् ॥ १४.११८.४९ ॥

怀着强烈的好奇心,归于对世尊的虔诚,聆听了关于毗湿奴的至上神圣法教之后,

14.118.50

विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु ।
प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः ॥ १४.११८.५० ॥

他们脱离罪业,得以清净,就在那一刻便已转变。向毗湿奴低首致敬,并欣然回应那些言说,

14.118.51

द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् ।
इति प्रहृष्टमनसो ययुर्देवगणैः सह।
सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम् ॥ १४.११८.५१ ॥

“我们都将在德瓦拉卡见到世界之师。”如此心怀喜悦,他们与诸神之众一同前往。大王啊,所有的仙人之众也各自回到自己的住所。

14.118.52

गतेषु तेषु सर्वेषु केशवः केशिहा हरिः ।
सस्मार दारुकं राजन्स च सात्यकिना सह।
समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् ॥ १४.११८.५२ ॥

当他们全部离去后,杀死恶魔凯希的凯沙瓦哈里,大王啊,想起了达鲁卡。达鲁卡与萨提亚吉一同走近,说道:“神啊,请前行。”

14.118.53

ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् ।
अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः।
पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा ॥ १४.११८.५३ ॥

此时,面容黯然的般度诸子双手合十置于头顶,眼中盈满泪水,不停地凝视着人中至尊克里希纳,悲痛至极,当时什么也没有说。

14.118.54

कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत् ।
धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा ॥ १४.११८.५४ ॥

世尊神主黑天也与普利塔告别,并怀着悲伤与持国王、甘陀利、维都罗及德劳帕蒂告别。

14.118.55

कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः ।
सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना।
निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम् ॥ १४.११८.५५ ॥

随后,他以手触摸黑慈子毗耶娑、其他仙人与大臣,以及与其子同在的苏跋陀罗和乌塔拉,便走出那座宫殿,登上战车。

14.118.56

वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः ।
युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता ॥ १४.११८.५६ ॥

套着名为湿婆耶、须羯哩婆、云花和云团的马,并以智慧的鸟王作为旗帜。

14.118.57

अन्वारुरोह चाप्येन प्रेम्या राजा युधिष्ठिरः ।
अपास्य चाशु यन्तारं दारुकं सूतसत्तमम्।
अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा ॥ १४.११८.५७ ॥

国王坚战也怀着爱意随后登上;随即,他将御者达如迦——最优秀的御者——迅速推开,俱卢之主亲自执起缰绳。

14.118.58

उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् ।
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ १४.११८.५८ ॥

阿周那也登上,在头顶挥动一把大而吉祥的白拂,金柄,顺时针转动。

14.118.59

तथैव भीमसेनोपि रथमारुह्य वीर्यवान् ।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥ १४.११८.५९ ॥

同样,勇武的怖军也登上战车,持一柄百骨、以天界花环装饰的伞盖。

14.118.60

वैडूर्यमणिदण्डं च चामीकरविभूषितम् ।
दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः ॥ १४.११८.६० ॥

毗摩迅速举起那把属于持沙尔伽弓的黑天的伞盖,伞柄以吠琉璃宝石制成,并饰有黄金。

14.118.61

उपारुह्य रथं शीघ्रं चामरव्यजने सिते ।
नकुलः सहदेवश्च धूयमानौ जनार्दनम् ॥ १४.११८.६१ ॥

纳古拉与萨诃提婆迅速登上战车,用白色的牦牛尾拂尘和扇子为遮那陀那(黑天)扇风。

14.118.62

भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ ।
पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः ॥ १४.११८.६२ ॥

毗摩森那、阿周那与两位孪生者,灭敌者,欢喜地高呼“摩沙布达”,从后跟随黑天。

14.118.63

त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् ।
विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ ॥ १४.११८.६३ ॥

走过三由旬之后,黑天拥抱了般度诸子,遣散了所有行礼致敬的人,便前往多伽罗卡。

14.118.64

तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः ।
कपिलाद्यानि दानानि ददुर्धर्मपरायणाः ॥ १४.११८.६४ ॥

同样,他们向戈文达行礼之后,从那时起,般度诸子以法为依归,布施了包括迦毗罗牛在内的各种施舍。

14.118.65

मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः ।
मनसा पूजयामासुर्हदयस्थानि पाण्डवाः ॥ १४.११८.६५ ॥

般度诸子反复回忆又忘却摩图苏陀那的话语,在心中以意念供奉那些存留于心的言辞。

14.118.66

युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् ।
तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥ १४.११८.६६ ॥

心地正直的坚战将阇那陀那置于心中,成为他的虔信者,心意专注于他,崇拜他,一心向往他。

14.118.67

एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम् ।
मया ते कथितं राजन्पिवित्रं पापनाशनम् ॥ १४.११८.६७ ॥

如此,我已为你讲述了这古老的传说,即与毗湿奴有关的法教。大王啊,它能净化,能消除罪业。

14.118.68

तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह ।
तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ॥ १४.११८.६८ ॥

大王啊,库鲁之最,请听毗湿奴所宣说的教诲。唯有借此,你才能到达毗湿奴的至上居所,别无他途。