Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.12.1

द्विवोधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते ॥ १४.१२.१ ॥

疾病有两种,身体的和心理的;二者的产生并非彼此独立。

14.12.2

शरीरे जायते व्याधिः शरीरः स निगद्यते ।
मानसे जायते व्याधिर्मानसस्तु निगद्यते ॥ १४.१२.२ ॥

在身体中产生的疾病称为身病;在心中产生的疾病称为心病。

14.12.3

शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ १४.१२.३ ॥

大王啊,寒、热与风,是从身体所生的属性;若这些属性达到平衡,人们便称之为健康的标志。

14.12.4

उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥ १४.१२.४ ॥

寒被热所制,热也被寒所制。

14.12.5

सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ १४.१२.५ ॥

善性、激性与暗性被称为自我的三种属性;若这些属性达到平衡,人们便称之为健康的标志。

14.12.6

तेषामन्यतमोत्सेके विधानमुपदिश्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥ १४.१२.६ ॥

当其中任何一种过度时,便有对治之法:喜被忧所制,忧也被喜所制。

14.12.7

कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥ १४.१२.७ ॥

身处悲痛之中的人想要回忆快乐,身处快乐之中的人想要回忆悲痛。

14.12.8

स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा ।
स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम्।
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे ॥ १४.१२.८ ॥

你在悲痛中并不悲伤,在大欢乐中也不快乐,然而,贡蒂之子啊,你却想要回忆它。命运确实极其强大。或者这是你的天性,使你,普利塔之子,被牵引而去。

14.12.9

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि ॥ १४.१२.९ ॥

看到黑天(Kṛṣṇā)被带入议会,身着一件衣裳,正值月经期,而般度之子们在旁观看,你难道不想回忆这件事吗?

14.12.10

प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥ १४.१२.१० ॥

被逐出城市,身披鹿皮流亡,居住在大森林中——你难道不想回忆这些吗?

14.12.11

जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः ।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥ १४.१२.११ ॥

遭受阇吒修罗的苦难,与citrasena的战斗,以及来自信度王的折磨——你难道不想回忆这些吗?

14.12.12

पुनरज्ञातचर्यायां कीचकेन पदा वधः ।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि ॥ १४.१२.१२ ॥

在隐匿期间,基查卡以脚踢打,以及同样施加于耶诃先尼(德罗波蒂)的凌辱——普利塔之子啊,你难道不想回忆这些吗?

14.12.13

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ १४.१२.१३ ॥

降伏敌人者啊!你曾与德罗纳和毗湿摩进行的那场战斗,如今已摆在你面前;必须以专一的心去战斗。

14.12.14

तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः ॥ १४.१२.१४ ॥

因此,婆罗多族中的雄牛啊!你应当准备投入战斗,以智巧和自己的业行,抵达至高未显现之形的彼岸。

14.12.15

यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ १४.१२.१५ ॥

在箭矢、仆从和亲族都无济于事之处,必须独自以自身去战斗;那场战斗如今已摆在你面前。

14.12.16

तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥ १४.१२.१६ ॥

若能在那场未能征服的战斗中取胜,你将得到所愿的境地;知此道理,贡蒂之子啊,你将完成你的使命。

14.12.17

एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ १४.१२.१७ ॥

坚定地确立此智慧,明了众生的来去,依照你父祖的德行,恰当地治理王国吧。