摩诃婆罗多 · 章 14.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.13.1
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा ॥ १४.१३.१ ॥
婆罗多之子啊,不舍弃外在之物,成就便不会到来。舍弃身体之物,成就是否会到来,尚待考量。
14.13.2
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः ।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥ १४.१३.२ ॥
凡是摆脱外物、执着于身体之事者所拥有的法与乐,愿它归于你的敌人。
14.13.3
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम् ॥ १४.१३.३ ॥
双音节的“mama”(“我的”)即是死亡,而三音节的梵(Brahman)是永恒的。双音节的“mama”是死亡,而“na mama”(“非我的”)是永恒的。
14.13.4
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ ।
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ १४.१३.४ ॥
于是,大王啊,梵与死亡二者都安住于自我之中,不被看见,无疑地与众生相斗。
14.13.5
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत ।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ १४.१३.५ ॥
婆罗多之子啊,若此真理的不灭已经确定,那么穿越身体者便获得对众生的不害。
14.13.6
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ १४.१३.६ ॥
即使得到整个大地,连同其中的动与不动之众生,若无“我的”之念,他又能用它做什么呢?
14.13.7
अथवा वसतः पार्थ वने वन्येन जीवतः ।
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ॥ १४.१३.७ ॥
或者,普利塔之子啊,住在森林中以野果为生的人,若对财富有执着,便仍处于死亡之口。
14.13.8
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ १४.१३.८ ॥
婆罗多的后裔啊,看看外在与内在敌人的本性。不见那真实者,便不能从大恐惧中解脱。
14.13.9
द्योगी योगं सारमार्गं विचिन्त्य ॥ १४.१३.९ ॥
瑜伽士思索瑜伽与精华之道之后。
14.13.10
नयो धर्मो नियमस्तस्य मूलम् ॥ १४.१३.१० ॥
行为、法与克制,是其根本。
14.13.11
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर ॥ १४.१३.११ ॥
此处,通晓古事者吟诵名为《爱神之歌》的诗句。俱卢之子啊,待它们被完整吟唱时,你要全部听取。
14.13.12
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥ १४.१३.१२ ॥
没有任何计谋,任何生灵都无法杀死我。
14.13.13
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ १४.१३.१३ ॥
凡想要杀我、并知晓武器之力者,我便在那同一武器中再次显现。
14.13.14
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ १४.१३.१४ ॥
凡以多种祭礼布施、善心地想要杀我者,我便如在动物之中再次显现。
14.13.15
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥ १४.१३.१५ ॥
凡以吠陀与吠檀多之法想要杀我者,我便在静止的生物中,作为众生之魂向他显现。
14.13.16
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।
भावो भवामि तस्याहं स च मां नावबुध्यते ॥ १४.१३.१६ ॥
凡以坚忍与真正的勇力想要杀我者,我便成为他的心念之状;然而他并不认识我。
14.13.17
यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम् ॥ १४.१३.१७ ॥
凡以苦行、坚定誓愿想要杀我者,我便在他的苦行之中再次显现。
14.13.18
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः ।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च।
अवध्यः सर्वभूतानामहमेकः सनातनः ॥ १४.१३.१८ ॥
凡智者依托解脱而想要杀我,我便在那安住于解脱之乐的他面前起舞、大笑。我不为一切众生所杀,唯我一人,永恒不灭。
14.13.19
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।
धर्मे कुरु महाराज तत्र ते स भविष्यति ॥ १४.१३.१९ ॥
因此,大王,你也应以种种布施的祭祀,在法中成就那欲望;在那里它将属于你。
14.13.20
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः ।
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ॥ १४.१३.२० ॥
看到被杀的亲族一次又一次地出现,愿你不要痛苦;那些未在这战场上死去的人,你将再也无法见到。
14.13.21
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ १४.१३.२१ ॥
你以丰盛圆满布施的大祭祀供奉之后,在世间获得至高的名声,将抵达最上的归宿。