摩诃婆罗多 · 章 14.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.15.1
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ १४.१५.१ ॥
他安慰了以慧眼盲目的父亲之后,这位法心之人与兄弟们共同治理大地。
14.15.2
यथा मनुर्महाराजो रामो दाशरथिर्यथा ।
तथा भरतसिंहोऽपि पालयामास मेदिनीम् ॥ १४.१५.२ ॥
正如大王摩奴和达舍罗他之子罗摩,那位婆罗多之狮同样守护了大地。
14.15.3
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः ।
बभूव नरशार्दूल यथा कृतयुगे तथा ॥ १४.१५.३ ॥
那里没有不义;所有的人都喜好法,人中之虎啊,正如在圆满时代那样。
14.15.4
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः ।
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः ॥ १४.१५.४ ॥
阻挡了即将降临并正在进入的迦利时代,智慧的王子与兄弟们一同光辉闪耀,因法力而崇高。
14.15.5
ववर्ष भगवान्देवः काले देशे यथेप्सितम् ।
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन ॥ १४.१५.५ ॥
尊贵的天神依时依地如愿降雨;世界免于疾病,毫无饥渴之苦。
14.15.6
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः ।
ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः ॥ १४.१५.६ ॥
人们之中没有心灵的苦恼,遭遇灾难时心也不乱;以婆罗门为首的诸种姓善良,且专注于各自的法。
14.15.7
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम् ।
धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान्।
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः ॥ १४.१५.७ ॥
以法与真实为首,与善人一同坐于法座之上,全力守护妇女、儿童、病人、老人,以及依次序各得其养的诸种姓之民。
14.15.8
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि ।
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव ॥ १४.१५.८ ॥
因为给予无生计者以生计、布施、祭祀等善行,即便病者也不惧怕来世;此世之惧也只因所作之业而有。
14.15.9
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति ।
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम् ॥ १४.१५.९ ॥
当他治理之时,世界如同天界;快乐成为至上,而那快乐更加殊胜、至高无上。
14.15.10
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः ।
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः ॥ १४.१५.१० ॥
诸妇皆贞守夫君,容颜秀美,装饰得体;依照所规定的行为而行,以其自身德行成为令人喜悦的缘由。
14.15.11
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः ।
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन ॥ १४.१५.११ ॥
男子富有福德与善行,各自遵循本分之法,安乐而无乐,从不曾作丝毫之罪。
14.15.12
सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः ।
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः ॥ १४.१५.१२ ॥
所有男女常常说话和善,心地正直,清净无染,免于劳苦。
14.15.13
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः ।
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले ॥ १४.१५.१३ ॥
佩戴耳环、项链、手镯和腰带,衣着华美,满身芬芳,大多居于大地之上。
14.15.14
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः ।
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः ॥ १४.१५.१४ ॥
所有婆罗门都通晓梵,处处安定,没有皱纹和白发,快乐而有远见。
14.15.15
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः ।
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता ॥ १४.१५.१५ ॥
大王啊,人们不生出超出其种姓的欲望,也没有种姓混杂;规范秩序井然确立。
14.15.16
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः ।
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन ॥ १४.१५.१६ ॥
当那位王中之王统治时,鹿、猛兽和爬虫彼此之间,以及对其他生物,从不互相伤害。
14.15.17
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः ।
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः ॥ १४.१५.१७ ॥
母牛奶汁丰沛,面容与腹部都很美好,不受耕者等人的侵扰,没有疾病,也不失去小牛。
14.15.18
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् ।
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः ॥ १४.१५.१८ ॥
人们不虚度时光;依次致力于人生的目标、不被禁止的享乐,以及吠陀和经论。
14.15.19
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः ॥ १४.१५.१९ ॥
体格健壮、膘肥体壮、味美如甘露的公牛,应运而生,带来安乐。
14.15.20
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम् ।
करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ ॥ १४.१५.२० ॥
声音极其悦耳,触感与滋味都十分美好;形貌悦目、可爱、令人心醉,并散发着芬芳。
14.15.21
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् ।
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम् ॥ १४.१५.२१ ॥
与法、利、欲相应,为解脱与兴盛之因,令心喜悦而有功德的曼陀罗之湖,于是出现。
14.15.22
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा ।
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः ॥ १४.१५.२२ ॥
繁花满枝、结果成荫、触之柔和而无毒的树木,以及生出美丽枝叶和树皮的嫩芽,纷纷涌现。
14.15.23
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः ।
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि ॥ १४.१५.२३ ॥
众人皆合乎人心,远离劳苦与灾患;王仙亦复如是,那样的行为在大地上得以实现。
14.15.24
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः ।
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः ॥ १४.१५.२४ ॥
具足一切吉祥之相、行持法道的般度诸子,皆顺从长兄,容貌令人喜悦。
14.15.25
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः ।
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः ॥ १४.१५.२५ ॥
他们都胸如狮子,战胜了愤怒,具有光辉与力量,双臂长至膝盖,乐于布施,并且克制了诸根。
14.15.26
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः ।
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह ॥ १४.१५.२६ ॥
在他们统治之时,大地的季节因其自身的德性而光彩焕发;为了幸福的升起,诸行星与星群一同运行。
14.15.27
मही च सस्यबहुला सर्वरत्नगुणोदया ।
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा ॥ १४.१५.२७ ॥
大地谷物丰饶,生出一切珍宝与德性;如同如意牛,使享受千倍地结果。
14.15.28
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः ।
अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च।
अन्वशासत राजानो धर्मपुत्रप्रियंकराः ॥ १४.१५.२८ ॥
诸王顺从法之子之意而统治,不逾越摩奴等先前在人类中所立的界限,也不违背各族的规矩与习俗。
14.15.29
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः ।
मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम् ॥ १४.१५.२९ ॥
最为虔敬正直的诸王,尤其增益大族,依照摩奴所立的行为规范治理这美好的大地。
14.15.30
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले ।
प्रायो लोकमतिस्तान राजवृत्तानुगामिनी ॥ १४.१५.३० ॥
王者的这种行为在大地上始终极为正直;而民众的心志也大多跟随王者的行为。
14.15.31
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् ।
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन ॥ १४.१५.३१ ॥
如此,国王如因陀罗统治天界一般,与胜利者阿周那(持甘狄拔弓者)共同统治自己的婆罗多国,gotrāṃ…