摩诃婆罗多 · 章 14.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.16.1
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ ॥ १४.१६.१ ॥
最优秀的婆罗门啊!当般度之子征服并安定了王国之后,在你的国土上,那两位英雄——瓦苏提婆与达南遮耶——在那里。
14.16.2
विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ॥ १४.१६.२ ॥
国王啊!在那被般度之子征服并安定的人民之主的王国里,瓦苏提婆与达南遮耶都欢欣喜悦。
14.16.3
विजह्राते मुदा युक्तौ दिवि देवश्वराविव ।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः ॥ १४.१६.३ ॥
两人满怀喜悦,如同天上的两位天神之王,在各色的森林和山峦及其坡地间游憩。
14.16.4
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च ।
चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ १४.१६.४ ॥
二人在圣渡口、净池和河流间漫步,满心欢喜,如同在难陀那园中的双阿输摩。
14.16.5
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥ १४.१६.५ ॥
婆罗多啊!在因陀罗普拉斯塔,伟大的克里希那与般度之子尽情欢乐;他们步入那美丽的议事厅,在其中徜徉。
14.16.6
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव ।
कथायोगे कथायोगे कथयामासतुः सदा ॥ १४.१६.६ ॥
国王啊,在那里,每逢谈话引出故事之时,他们总是讲述战争的奇妙故事与种种艰辛。
14.16.7
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा ।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ १४.१६.७ ॥
二人欣然不断讲述仙人与诸神的世系;他们是伟大的圣者、古老的、最卓越的仙人。
14.16.8
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः ।
निश्चयज्ञः स पार्थाय कथयामास केशवः ॥ १४.१६.८ ॥
这些故事甜美而多样,意义与言辞都清晰;通晓真理的克舍婆将其讲述给帕尔塔。
14.16.9
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः ।
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः ॥ १४.१६.९ ॥
舜罗之后裔、人主克里希那以故事安抚了为子之丧而痛苦的帕尔塔,以及成千的亲族。
14.16.10
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥ १४.१६.१० ॥
依法安慰了他之后,通晓仪轨的大苦行者萨特瓦塔仿佛卸下了自己的重担,得以休息。
14.16.11
ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह ।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ १४.१६.११ ॥
于是故事讲完,哥温达对古达克沙说话;他以温和的言辞安慰他,说出了这番有理有据的话。
14.16.12
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप ।
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह ॥ १४.१६.१२ ॥
萨维亚萨钦啊,烧灼敌人者!凭借你双臂的力量,法之子王已征服了整个大地。
14.16.13
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः ।
भीमसेनानुभावेन यमयोश्च नरोत्तम ॥ १४.१६.१३ ॥
正法之王坚战凭借毗摩森那与阎摩二子之力,享有无敌的大地。人中最优者啊。
14.16.14
धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् ।
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥ १४.१६.१४ ॥
知法者啊,царь凭正法获得了无荆棘的王国;也依正法,在战斗中苏约达那王被杀。
14.16.15
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ १४.१६.१५ ॥
喜好不法、贪婪、常说不悦耳之言、心怀恶念的持国之子,连同其党羽一起被打倒了。
14.16.16
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ १४.१६.१६ ॥
般度之子啊,俱卢中的翘楚,受你护佑的正法之子国王,正享有这整个已经平息的大地。
14.16.17
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन ॥ १४.१६.१७ ॥
般度之子啊,我即使与你同在森林中也感到快乐;何况这些人和普利塔所在之处,啊,摧毁敌人行为者!
14.16.18
यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः ।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ १४.१६.१८ ॥
正法之子国王在哪里,大力的毗摩在哪里,摩德罗之子的两位在哪里,那里便是我最大的喜悦。
14.16.19
तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव ।
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध ॥ १४.१६.१९ ॥
同样在天界、议事殿堂,以及美丽繁盛之地,与你同在时,哦俱卢之子,哦无罪者。
14.16.20
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः ।
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान् ॥ १४.१६.२० ॥
我已许久未见到舜罗之子、大力罗摩、俱卢之子,以及其他毗瑟尼族的英杰了。
14.16.21
सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति ।
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ ॥ १४.१६.२१ ॥
我想前往杜婆罗婆提城。哦人中之牛,愿这次出行也令你和我都满意。
14.16.22
उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः ।
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः ॥ १४.१६.२२ ॥
我们与毗湿摩一起,多次、在各处,把适当的道理告诉了为悲伤所苦的国王坚战。
14.16.23
शिष्टो युधिष्टिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना ॥ १४.१६.२३ ॥
虽然般度之子坚战本身是君主,我们仍然教导了他,而那位大德之人也恰当地接受了这些话。
14.16.24
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि ।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥ १४.१६.२४ ॥
在法之子身上,他通晓法,懂得感恩,言说真实,真理、法、至上的智慧以及恒常坚定的品格都常驻其中。
14.16.25
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन ।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥ १४.१६.२५ ॥
阿周那,如果你愿意,就前去对那位大德的人主传达我们前来的话。
14.16.26
न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते ।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति ॥ १४.१६.२६ ॥
即使生命遭遇危难,我也不会做他不喜欢的事;那么,对于前往德瓦拉瓦蒂城,我又怎能推辞呢,大臂者啊?
14.16.27
सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया ।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥ १४.१६.२७ ॥
普利塔之子啊,我说这一切,是出于希望你安好和得益的心意;库鲁之后啊,这是真实的,丝毫不是虚妄。
14.16.28
प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन ।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥ १४.१६.२८ ॥
阿周那,我在此停留的目的已经达成:持国之子国王连同他的军队、步兵和随从都已被杀。
14.16.29
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।
स्थिता समुद्रवसना सशैलवनकानना ॥ १४.१६.२९ ॥
亲爱的,大地处于智慧的法之子的掌控之下;以海洋为衣,连同山岳、森林与园林,它都在他的统治之中。
14.16.30
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् ॥ १४.१६.३० ॥
般度之子啊,库鲁王的宝库堆满了各种珠宝;愿通晓法的国王依法守护整个大地。
14.16.31
उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः ।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ १४.१६.३१ ॥
受众仙人、成就者与大德者侍奉,又被游吟诗人不断赞颂,婆罗多的雄牛啊。
14.16.32
तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम् ।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ १४.१६.३२ ॥
今日与我同往,向那位增益库鲁族的国王请求准许前往德瓦拉卡,库鲁族的猛虎啊。
14.16.33
इदं शरीरं वसु यच्च मे गृहे ।
निवेदितं पार्थ सदा युधिष्ठिरे।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः ।
सदा कुरूणामधिपो महामतिः ॥ १४.१६.३३ ॥
此身与我家中的一切财富,都永远奉献给坚战,普利塔之子啊。坚战于我亲爱而可敬;他始终是库鲁族的主宰,大智慧者。
14.16.34
प्रयोजनं चापि निवासकारणे ।
न विद्यते मे त्वदृते नृपात्मज।
स्थिता हि पृथ्वी तव पार्थ शासने ।
गुरोः सुवृत्तस्य युधिष्ठिरस्य च ॥ १४.१६.३४ ॥
除你之外,我在此停留已无他因,王子啊。普利塔之子啊,大地在你的统治之下安稳,也在年长而品行端正的坚战的治理之下安稳。
14.16.35
इतीदमुक्तः स तदा महात्मना ।
जनार्दनेनामितविक्रमोऽर्जुनः।
तथेति दुःखादिव वाक्यमैरय-
ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ॥ १४.१६.३५ ॥
大德的阇那陀那如此说罢,无量勇武的阿周那似乎带着悲伤说道:“就这样吧。”他恭敬地尊敬阇那陀那,国王啊,说出了这些话。