摩诃婆罗多 · 章 14.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.17.1
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १४.१७.१ ॥
婆罗门啊,在那里的大殿中,他们杀尽敌人之后,伟大的克沙瓦与阿周那之间发生了什么事?
14.17.2
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम् ।
तस्यां सभायां दिव्यायां विजहार मुदा युतः ॥ १४.१७.२ ॥
普利塔之子帕尔塔与黑天同在,完全收回了自己的王国,在那华丽的天界大殿中欢快地游乐。
14.17.3
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ १४.१७.३ ॥
大王啊,他们二人欢喜地随意走到大殿的某一处,那里如同天界的一隅,周围簇拥着自己的亲族。
14.17.4
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ १४.१७.४ ॥
于是,与黑天同在、心中欢喜的般度之子阿周那望着那美丽的大殿,说出了这些话。
14.17.5
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते ।
महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ॥ १४.१७.५ ॥
大臂者啊,战事临近时,我得知了你的伟大,德瓦吉之子啊,还有你那威严的神圣形相。
14.17.6
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः ॥ १४.१७.६ ॥
克沙瓦啊,你从前出于友情对我所说的一切,人中虎啊,都已在我心神纷乱中遗失了。
14.17.7
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः ।
भवांस्तु द्वारकां गन्ता नचिरादिव माधव ॥ १४.१७.७ ॥
关于那些问题,我一次又一次地心生好奇。但是摩陀婆啊,你不久就要前往德瓦拉卡了。
14.17.8
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतांवरः ॥ १४.१७.८ ॥
被如此询问后,光辉伟大、善于言辞的克里希纳拥抱了阿周那并作答。
14.17.9
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान् ॥ १४.१७.९ ॥
阿周那啊,我让你听闻了秘密,使你认识了真实形态的永恒法,以及永恒的诸世界。
14.17.10
अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम् ।
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति ॥ १४.१७.१० ॥
你因无知而未能领会的,让我深感不悦;而今日那段记忆也不会再在我心中浮现了。
14.17.11
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव ।
न च शक्यं पुनर्वक्तुमशेषेण धनंजय ॥ १४.१७.११ ॥
你确实缺乏信心,般度之子啊,你是愚钝的。财富征服者啊,那些内容不可能再完整地重述了。
14.17.12
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ १४.१७.१२ ॥
那法对于认识梵之境界已经完全足够。我无法再像那样完整地重述它。
14.17.13
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १४.१७.१३ ॥
我已经修习瑜伽,宣说了至高的梵。现在我要讲一段关于此事的古老传说。
14.17.14
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे ॥ १४.१७.१४ ॥
依此智慧,你将抵达最高之道。持守法者中最优秀的人啊,请听我所说的一切。
14.17.15
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम ।
ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत् ॥ १४.१७.१५ ॥
降伏敌人者啊,一位婆罗门从天界而来。他即便来自梵界也是无可战胜的,我们曾敬重他。
14.17.16
अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १४.१७.१६ ॥
婆罗多族的雄牛啊,他在我们询问时所说的,普利塔之子啊,请以神圣的方式、毫无疑虑地听取。
14.17.17
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि ।
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो ॥ १४.१७.१७ ॥
克里希那啊,你依靠解脱之法向我提问,威力无边者啊,是为了怜悯众生,也为了斩断我的迷惑。
14.17.18
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १४.१७.१८ ॥
摩杜苏陀那啊,那件事我将如实地为你讲述。摩陀婆啊,请专心聆听我所说的。
14.17.19
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कंचिद्धर्माणामागतागमम् ॥ १४.१७.१९ ॥
一位具足苦行、最通晓法的迦叶,走近一位知晓诸法来去的再生者。
14.17.20
गतागमं सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः ॥ १४.१७.२० ॥
多次知晓来去,已达知与悟的彼岸,善于洞悉诸世界的真实本性,知晓乐与苦。
14.17.21
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ १४.१७.२१ ॥
通晓宿命记忆之真谛,精通罪与福,依业力观见有身众生的高低去向。
14.17.22
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः ॥ १४.१७.२२ ॥
如解脱者般游行,是成就者,极其寂静,诸根调伏,以梵的光辉照耀,四处行走。
14.17.23
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ १४.१७.२३ ॥
迦叶确实听说他知晓隐没之道,并且他与隐形的成就者及持轮者同行。
14.17.24
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ १४.१७.२४ ॥
与他们在僻静处相谈而坐,随意而行,如风一般无所执著。
14.17.25
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
चरणौ धर्मकामो वै स तस्य सुसमाहितः।
प्रतिपदे यथान्यायं भक्त्या परमया युतः ॥ १४.१७.२५ ॥
他走近老师,这位智慧的再生者之最,渴求法,心志专一,依规矩以至高的虔敬侍奉其足下。
14.17.26
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं तं पर्यतोषयत् ॥ १४.१७.२६ ॥
迦叶见此奇事而惊讶,以大为侍奉,使那位再生者之最的老师完全欢喜。
14.17.27
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम् ।
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः ॥ १४.१७.२७ ॥
这一切都合宜,兼具学问与德行;他以师长的行止自处,使那地生之神欢喜。
14.17.28
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन ॥ १४.१७.२८ ॥
老师对那弟子感到满意,欢喜地说道:“着眼于至高的成就,janārdana啊,请听我说。”
14.17.29
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम् ॥ १४.१७.२९ ॥
孩子,凭借种种业行与纯粹的福德结合,凡人在此获得一种归宿,或在天界获得安住。
14.17.30
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः ॥ १४.१७.३० ॥
任何地方都没有绝对的快乐,任何地方都没有永恒的安住。从伟大的境地会有坠落,从以苦难获得的境地也会一再坠落。
14.17.31
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ॥ १४.१७.३१ ॥
因行恶之故,我得到了不吉祥和痛苦的去处;为欲望与愤怒所缠,为贪渴所迷惑。
14.17.32
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः ॥ १४.१७.३२ ॥
一次又一次地死亡,一次又一次地出生;我吃了各式各样的食物,喝了各种乳汁。
14.17.33
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयाऽनघ ॥ १४.१७.३३ ॥
我见过各式各样的母亲,各不相同的父亲;无垢者啊,我也经历了种种奇异的快乐与痛苦。
14.17.34
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ १४.१७.३४ ॥
我屡次与所爱之人分离,与不喜之人相处;财富也失去了,那财富是我历尽艰辛才得到的。
14.17.35
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसा वाऽपि वेदना भृशदारुणाः ॥ १४.१७.३५ ॥
无论来自他人还是自己的亲人,所受的羞辱都极为痛苦;身体或心灵的苦痛也极其可怖。
14.17.36
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ॥ १४.१७.३६ ॥
我遭受了猛烈的侮辱、残酷的杀戮与束缚;我坠入地狱,并在阎摩之域忍受折磨。
14.17.37
जरारोगाश्च सततं व्यसनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ १४.१७.३७ ॥
衰老与疾病,以及众多的灾难,我在此世间经历了不断而极多,它们都生于二元对立。
14.17.38
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ॥ १४.१७.३८ ॥
于是有一次,因厌倦、因屈辱、因受伤,我为痛苦所折磨,极度悲伤,便舍弃了世间的秩序。
14.17.39
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः ।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया।
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ॥ १४.१७.३९ ॥
在此世间经历之后,我遵循此道;随后,凭借自身的恩典,我获得了这圆满。我不会再来此地;我正注视着诸世界。
14.17.40
आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः ।
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ॥ १४.१७.४० ॥
直至圆满,直至子嗣之创生,我凭借自身也获得了吉祥的归宿;如此,哦,二生者中最优者,这至上的圆满也已获得。
14.17.41
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः ॥ १४.१७.४१ ॥
从此处我将前行,之后更加远去,往梵的不显现之境而去;愿你对此没有任何疑惑。
14.17.42
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप ।
प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ १४.१७.४२ ॥
哦,令敌人痛苦者,我不会再来此凡世了。哦,大智者,我对你感到欣悦;请告诉我,我可为你做什么?
14.17.43
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मामुपागतः ॥ १४.१७.४३ ॥
若你是为此而来,那么此事的时机已经到了。我知道你为何而来到我这里。
14.17.44
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ।
भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण ॥ १४.१७.४४ ॥
我很快就会离去,因为我已经教导了你。智者啊,我非常满意你的品行。
14.17.45
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम् ॥ १४.१७.४५ ॥
你想问多少就问多少;凡是你所愿闻的,我都会说。
14.17.46
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ १४.१७.४६ ॥
我非常看重你的智慧,并极为敬重它,因为,迦叶啊,是你使我觉醒;你确实是有智慧的人。