摩诃婆罗多 · 章 14.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.18.1
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः ॥ १४.१८.१ ॥
于是他握住其双足,提出极难回答的问题;持法者中最杰出者便讲说那些法。
14.18.2
कथं शरीराच्च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ १४.१८.२ ॥
人如何离开身体,又如何再生?在痛苦的轮回中流转,如何得以解脱?
14.18.3
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते ॥ १४.१८.३ ॥
如何与自我结合而舍弃那身体?又如何完全脱离身体后,得到另一身体?
14.18.4
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते ॥ १४.१८.४ ॥
人如何享受自己所造善恶业的果报?或者,业在何处临近那无身之人?
14.18.5
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः ॥ १४.१८.५ ॥
受此催促,成就者便回答了那些问题。瓦尔什尼之裔啊,请按次第听我所说。
14.18.6
अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाःस्मृताः ।
आयुःकीर्तिकराणीह यानि कृत्यानि सेवते।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ १४.१८.६ ॥
于此生中,人们记住那些速得果报、增益寿命的仪轨;凡在此世行那些带来寿命与名声之业者,在取得另一身体时,待其果报全部耗尽时……
14.18.7
आयुःक्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ १४.१८.७ ॥
心被寿命衰败所困的人,会去做相反的事;毁灭临近时,他的智慧也随之颠倒。
14.18.8
सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा ।
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान् ॥ १४.१८.८ ॥
不知自己的心力、体力与时宜,缺乏自制的人便过量进食,吃那些与自身相冲的东西。
14.18.9
यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥ १४.१८.९ ॥
此人若沉溺于一切极有害之物,有时过量进食,有时又完全不吃。
14.18.10
दुष्टान्नामिषपानं च यदन्योन्यविरोधि च ।
गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः ॥ १४.१८.१० ॥
他过量进食腐败之食、肉与饮品、相互冲突之物以及难消化的食物;前一餐尚未消化良好时,白天不应再次进食。
14.18.11
व्यायाममतिमात्रं च व्यावाय चोपसेवते ।
सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत् ॥ १४.१८.११ ॥
他过度劳累并沉溺于房事,或因贪恋工作而不停劳作;已生起的冲动应当加以克制。
14.18.12
रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयेत् ॥ १४.१८.१२ ॥
他进食调味过重之食,或白天睡觉;在食物尚未消化、不合时宜之际,他自己便激发了体液之失调。
14.18.13
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १४.१८.१३ ॥
因自身过失之扰动,人染上致死之病;或被痛苦所围,便决意上吊等事。
14.18.14
तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४.१८.१४ ॥
由于这些原因,那众生的身体便随之衰败。现在请如实领会所要讲述的生命。
14.18.15
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै ॥ १४.१८.१५ ॥
体内被激怒的热气,由猛烈之风所驱,环绕身体,阻塞所有的生气。
14.18.16
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च ॥ १४.१८.१६ ॥
体内极为强盛、完全激怒的热气,破坏生命之处所;也当知其各自的作用。
14.18.17
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १४.१८.१७ ॥
此时,感受痛苦的生灵立即滑脱流散;当要害被割断时,众生便舍弃身体。对于心被痛苦所围者,应当如此了知,二生者中的最上者。
14.18.18
जनीमरणसंविग्राः सततं सर्वजन्तवः ।
दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ॥ १४.१८.१८ ॥
一切众生常因生死而惊惧,也可见他们舍弃身体,二生者中的雄牛啊。
14.18.19
गर्भसंक्रमणे चापि गर्भाणापुपसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ॥ १४.१८.१९ ॥
入胎之时,胚胎前行之际,人又再次承受同样的痛苦。
14.18.20
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः ॥ १४.१८.२० ॥
关节断裂之后,人便因水分而腐烂溃解。
14.18.21
यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ १४.१८.२१ ॥
如五大之中生起之态受到约束,寒冷使身中之风激怒,被猛烈之风所鼓动,
14.18.22
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः।
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते ॥ १४.१८.२२ ॥
那在五大之中作为上气与下气而存在的风,向上而行;费力地使有身者解脱,如此舍弃身体,人便显得无有呼吸。
14.18.23
स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः ।
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ॥ १४.१८.२३ ॥
那人失去温热,失去呼吸,失去光彩,失去知觉,被业完全舍弃,便称为死者。
14.18.24
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणानाहारसम्भवान् ॥ १४.१८.२४ ॥
有身者借以认知诸根之境的那些通道,恰恰也使他不能觉知由食物所生的诸气。
14.18.25
तत्रैव कुरुते काये यः स जीवः सनातनः ॥ १४.१८.२५ ॥
在身体中居住于彼处者,即是永恒的生命之我。
14.18.26
तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ १४.१८.२६ ॥
同样,凡在冲撞中于某处被击中者,皆应知其为要害;典籍中正是如此所见。
14.18.27
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ॥ १४.१८.२७ ॥
当那些要害被刺破时,它剧烈运动,进入生灵的心脏,迅速阻塞其生命之气。
14.18.28
ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन ।
तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु।
स जीवो निरदिष्ठानश्चाल्यते मातरिश्वना ॥ १४.१८.२८ ॥
此时有知觉的生灵便一无所知;知识被黑暗遮蔽,要害被掩闭,那生命之我离开其位,被风所推动。
14.18.29
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ १४.१८.२९ ॥
于是它猛烈地呼出那巨大可怖的气息,在离去之际迅速使那无知觉的身体颤动。
14.18.30
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते ॥ १४.१८.३० ॥
那生命之我离开身体,被自身业力所包裹,被自身的善功或罪恶所标记,于是再次受生。
14.18.31
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ १४.१८.३१ ॥
具足智慧、依所闻而确定的婆罗门,凭其征象便能辨识他,无论他是行过功德者还是另一种人。
14.18.32
यथान्धकारे खद्येतं दीप्यमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः ॥ १४.१८.३२ ॥
如同黑暗中闪耀的萤火,被有眼之人看见,具有智慧之眼者也如此看见。
14.18.33
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ १४.१८.३३ ॥
悉陀以天眼见此类生命离开身体、出生、并进入胎中。
14.18.34
तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ १४.१८.३४ ॥
依据经典,其种种处所已在此被看见。此地是业之地,众生在此居住。
14.18.35
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ १४.१८.३५ ॥
此后,众有身者行善与恶,便在此地依自身业行而得高低不等的享受。
14.18.36
इहैवाशुभकर्माणः कर्मभिर्निरयं गताः ।
अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः।
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम् ॥ १४.१८.३६ ॥
在此,作恶者依其业行而堕入地狱。这条人们被烹煮的下行之路痛苦不堪。因此解脱极难获得,应当极力守护自我。
14.18.37
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ॥ १४.१८.३७ ॥
众生上升之后所处的那些境界,我在此如实述说,你要专心听我讲。
14.18.38
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम् ।
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् ॥ १४.१८.३८ ॥
听了这些,你应以坚定的智慧理解业的确定性;这些都是星辰之形,月轮便在其中。
14.18.39
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम् ॥ १४.१८.३९ ॥
世间太阳之轮以自身之光照耀之处——应知这些处所属于行善积德之人。
14.18.40
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोस्ति दिवि नीचोच्चमध्यमः ॥ १४.१८.४० ॥
业力耗尽之时,他们都会一次又一次地坠落;即使在天界,也有下、上、中之分。
14.18.41
न च तत्रापि संतोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः ॥ १४.१८.४१ ॥
即使在那里,见到更加辉煌的光荣,也不会满足。如此,这些去处都已分别向你述说了。
14.18.42
उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम् ।
तथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ १४.१८.४२ ॥
接下来我要讲述胎儿的形成;你要专心听我说,啊再生者。