Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.2.1

एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता ।
तूष्णींबभूव मेधावी तमुवाचाथ केशवः ॥ १४.२.१ ॥

智慧的持国如此对他说完,那位国王沉默不语;于是睿智的克沙婆对他说道。

14.2.2

अतीव मनसा शोकः क्रियमाणो जनाधिप ।
सन्तपयति चैतस्य पूर्वप्रेतान्पितामहान् ॥ १४.२.२ ॥

人主啊,心中升起极大的悲痛,使他为先前已逝的祖父们而痛苦。

14.2.3

यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ।
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥ १४.२.३ ॥

举行各种祭祀,多多布施祭司;以苏摩满足诸神,以施陀(svadhā)供养祖先。

14.2.4

अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान् ।
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते।
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥ १४.२.४ ॥

以饮食及其他所求之物款待宾客,也要周济贫困之人。大智者啊,像你这样的人今日不应如此。该知道的你已知道,该做的你也已做了。

14.2.5

श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् ।
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥ १४.२.५ ॥

你已从恒河之子毗湿摩、黑天·二岛(毗耶娑)、那罗陀,以及毗杜罗那里听过王法。

14.2.6

नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् ।
पितृपैतामहं वृत्तमास्थाय धुरमुद्वह ॥ १४.२.६ ॥

你不应当效法这些愚人的行为;应当遵循父亲和祖父的行为,承担起重担。

14.2.7

युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम् ।
नहि कश्चिद्धि शूरणां निहतोऽत्र पराङ्मुखः ॥ १४.२.७ ॥

武士之道与荣誉相连,无疑可得天界。此处的勇士中,没有人是背对敌人而被杀的。

14.2.8

त्यज शोकं महाराज भवितव्यं हि तत्तथा ।
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन्रणे हताः ॥ १४.२.८ ॥

大王,请舍弃悲伤,因为注定之事已如此发生。在这场战争中阵亡的人,你再也无法见到了。

14.2.9

एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् ।
विरराम महातेजास्तमुवाच युधिष्ठिरः ॥ १४.२.९ ॥

说完这些,大光明的戈文达便在法王坚战面前沉默;坚战于是对他说道。

14.2.10

गोविन्द मयि या प्रीतिस्तव सा विदिता मम ।
सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे ॥ १४.२.१० ॥

戈文达,我知道你对我的爱;你以友情与深情,始终怜悯于我。

14.2.11

प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर ।
श्रीमन्प्रीतेन मनसाक सर्वं यादवनन्दन ॥ १४.२.११ ॥

执轮持杖者啊,若你怀着欢喜之心完成这一切,那对我将是莫大的恩惠。耶达瓦人的欢喜者,尊贵的主啊。

14.2.12

यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् ।
कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः ॥ १४.२.१२ ॥

若你允许我前往林中修行处,我便可以完成使命——这是我坚定的决心。

14.2.13

न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम् ।
नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम्।
कर्णं च पुरुषव्याघ्नं सङ्ग्रामेष्वपलायिनम् ॥ १४.२.१३ ॥

杀死祖父、具有勇力的师尊,以及从不在战场上逃避的人中虎卡尔纳之后,我看不到平静;我已变得残忍。

14.2.14

कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम ।
कर्मणा तद्विधत्स्वेह येन शुध्यति मे मनः ॥ १४.२.१४ ॥

哦,降伏敌人者,请在此为我规定一种行为,借此我可以摆脱这份残忍,借此我的心得以清净。

14.2.15

तमेवंवादिनं पार्थं व्यासः प्रोवाच धर्मवित् ।
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥ १४.२.१५ ॥

对这样说话的般度之子,精通法的、大光辉的毗耶娑以安慰之语,说了吉祥而有意义的话。

14.2.16

सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे ।
किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः ॥ १४.२.१६ ॥

孩子,你的决心本是好的,但因为童稚你又陷入迷惑。我们何必对着天空一次又一次徒然地喃喃自语呢?

14.2.17

विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका ।
तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे ॥ १४.२.१७ ॥

你知道刹帝利的法,他们以战争为生;作为国王而从事其中,你不会被束缚所缚。

14.2.18

मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः ।
यथा वै कामजां मायां परित्युक्तं त्वमर्हसि ॥ १४.२.१८ ॥

解脱之法的一切教导,你都已如实听闻;所以你应当舍弃由欲望所生的幻术。

14.2.19

असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया ।
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ॥ १४.२.१९ ॥

我已多次为你消除了由欲望而生的疑惑,你却变得不信、愚钝,而且确实失去了记忆。

14.2.20

मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥ १४.२.२० ॥

不要如此;你不应有这样的无知。

14.2.21

प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ ।
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥ १४.२.२१ ॥

无罪者啊,所有的赎罪之法你都已知晓,王者之法和布施之法你也都已听闻。

14.2.22

स कथं सर्वधर्मज्ञः सर्वागमविशारदः ।
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥ १४.२.२२ ॥

你通晓一切法,精通一切经典,为何又如此迷惑,仿佛出于无知一般,婆罗多啊?