Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.20.1

यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन् ।
पूर्वंपूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १४.२०.१ ॥

独坐静默、不思一事者,舍弃前前之事,便成无所作为之人。

14.20.2

सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ १४.२०.२ ॥

与众为友、忍受一切、乐于寂静、克制诸根、离恐离怒、断除贪欲的人,得解脱。

14.20.3

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः।
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ १४.२०.३ ॥

视一切众生如己者,自制而清净,常依正理而行,诸根调伏,无慢无我慢者,此人方为全然解脱。

14.20.4

जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ १४.२०.४ ॥

于生死、苦乐、得失、爱憎皆平等者,亦得解脱。

14.20.5

न कस्यचित्स्पृहयते नावजानाति किचन ।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः ॥ १४.२०.५ ॥

不贪求任何人,亦不轻慢任何事,离诸对待,心无贪欲者,全然解脱。

14.20.6

अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित् ।
त्यक्तधर्मार्थकामश्च निराराङ्क्षी च मुच्यते ॥ १४.२०.६ ॥

无敌无亲,亦无子嗣,舍弃法、利、欲,无所希求者,得解脱。

14.20.7

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
क्षीणधातुः प्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥ १४.२०.७ ॥

既不守法也不违法,能断除往昔积累之业,身之诸界已尽,心意寂静,超越二元对立者,便得解脱。

14.20.8

अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम् ।
अस्वस्तमवशं नित्यं जन्ममृत्युजरायुतम् ॥ १४.२०.८ ॥

无业无欲,应见此世界无常、不安、不由自主,且常受生、死、老所缠绕。

14.20.9

वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ १४.२०.९ ॥

心存离欲,常观世间诸过,便能迅速从自我之缚中解脱,仿佛瞬间即成。

14.20.10

अगन्धमरसस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते ॥ १४.२०.१० ॥

见自我无香、无味、无触、无声、无所有、无形、不可知,便得解脱。

14.20.11

पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ १४.२०.११ ॥

见自我离五大之性,无形、无染、无德,而为诸德之受用者,此人便得解脱。

14.20.12

विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १४.२०.१२ ॥

以智慧舍弃身心一切意念,渐次得入涅槃,如薪尽之火。

14.20.13

सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः ।
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः ॥ १४.२०.१३ ॥

脱离一切习气,超越二元对立,无所执取,以苦行调御诸根者,才是真正解脱之人。

14.20.14

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्मि सनातनम् ।
परमाप्नोति संशान्तमचलं नित्यमक्षरम् ॥ १४.२०.१४ ॥

脱离一切习气者,随即证得永恒的梵——至上、寂静、不动、恒常、不灭。

14.20.15

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४.२०.१५ ॥

此后我将宣说无上的瑜伽论,知之者,瑜伽士在此世见自我已成就。

14.20.16

तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे ।
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १४.२०.१६ ॥

其教导我将如实宣说,请从我这里听闻:借由那些修习,恒常观想,便能在自我中见到自我。

14.20.17

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥ १४.२०.१७ ॥

收摄诸根,将心安住于自我;先行猛烈苦行,然后修习解脱之瑜伽。

14.20.18

तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १४.२०.१८ ॥

苦行者,恒定其志,离于矫饰与我慢,智慧的婆罗门以意在自我中见自我。

14.20.19

स चेच्छक्रोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १४.२०.१९ ॥

若此善人能使自我与自我相合,则乐于独居者便能在自我中见到自我。

14.20.20

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥ १४.२०.२० ॥

克制、常修瑜伽、自我把握、战胜诸根者,如以自我正确地结合自我者那样观见。

14.20.21

यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधुयुक्तः प्रपश्यति ॥ १४.२०.२१ ॥

如人在梦中见之,说“彼即是他”,同样,善于相应者以那样的形相见自我。

14.20.22

इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत् ।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः ॥ १४.२०.२२ ॥

如人从草中抽出一根芦苇而示之,瑜伽行者也从身体中抽出自我而观见。

14.20.23

मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ १४.२०.२३ ॥

人们称muñja草为身体,居于自我中的芦苇为自我;这是通晓瑜伽者所说的最上譬喻。

14.20.24

यदा हि युक्तमात्मानं सम्यक् पश्यति देहभूत् ।
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ १४.२०.२४ ॥

当有身之人正确地见到相应的自我时,此世便无主宰能统御他,即便是三界之主也不能。

14.20.25

अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति ॥ १४.२०.२५ ॥

他随意获得其他身体;穿越衰老与死亡之后,他既不悲伤,也不喜悦。

14.20.26

देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ १४.२०.२६ ॥

自律而节制的人甚至能获得诸神的神性;舍弃无常之身,他便得到不朽的梵。

14.20.27

विनश्यत्सु च लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ १४.२०.२७ ॥

即使世界毁灭,他心中也不生恐惧;即使众生受苦,他也不因任何事而烦恼。

14.20.28

दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः ।
न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः ॥ १४.२०.२८ ॥

心志专一之人,不会被由执着与爱恋所生的可怕的忧苦之垢所动摇;他无欲,心境平静。

14.20.29

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते ॥ १४.२०.२९ ॥

兵器不能伤他,他也没有死亡;世间任何地方都看不到比这更快乐的事。

14.20.30

सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते ।
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः ॥ १४.२०.३० ॥

他完全将自己调摄于自身之中,稳立于自我,脱离了衰老之苦,安乐地入睡。

14.20.31

देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् ।
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन ॥ १४.२०.३१ ॥

舍弃此人身之后,他随其所愿而往别的身体;但享受者无论如何不应舍弃厌离之心。

14.20.32

सम्यग्युक्तो यदात्मानमात्मन्येव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ १४.२०.३२ ॥

当善于瑜伽者只在自我中见到自我时,他甚至不愿得到因陀罗本人的地位。

14.20.33

योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु ।
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्परे ॥ १४.२०.३३ ॥

现在听我说,喜好独处者如何获得瑜伽:思念先前见过的方向,在其中远处居住。

14.20.34

पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः ।
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत।
तस्मिन्नावसथे धार्यं सबाद्याभ्यन्तरं मनः ॥ १४.२०.३४ ॥

他应将心安放在城内,而不在城外。住在城内,无论住在哪个居所,都应在那居所中把心念保持在外与内两方面。

14.20.35

प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति ।
तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः ॥ १४.२०.३५ ॥

在住处充分观想,所见的那身体中,心应安住于那身体,外面的任何东西都不要。

14.20.36

सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ १४.२०.३६ ॥

善于制止诸根,在无人、无声的森林中,专注一境,应当全面观想内在的整个身体。

14.20.37

इन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ १४.२०.३७ ॥

他应当观想上颚与舌头、喉咙与颈项,同样观想心脏,以及心的束缚。

14.20.38

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ १४.२०.३८ ॥

这样经我教导之后,摩豆苏陀那啊,那位聪慧的弟子又问起这极难言说的解脱法。

14.20.39

भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते ।
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः ॥ १४.२०.३९ ॥

已吃下、又吃下的这食物,如何在胃中消化?它如何变为精华之态,又如何变为血之态?

14.20.40

तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत् ।
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ॥ १४.२०.४० ॥

同样,它如何滋养肌肉、脂肪、筋与骨?有身之众生的这一切身体,又是如何形成的?

14.20.41

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरासनं निष्कसनं मलानां च पृथक् पृथक् ॥ १४.२०.४१ ॥

成长者的肢体如何增长,力量如何增加?各种废物如何排出、各自分别清除?

14.20.42

कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि ॥ १४.२०.४२ ॥

此身从何处吸气、呼气?又栖身于何处,此我安住于自身之中?

14.20.43

जीवः कथं वहति च चेष्टमानः कलेवरम् ।
किंवर्णं कीदृशं चैव निवेशयति वै मनः ॥ १४.२०.४३ ॥

生命之我在活动时如何承载身体?它又以何种颜色、何种样态安置心念?

14.20.44

याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ।
इति सम्परिपृष्टोऽहं तेन विप्रेणि माधव ॥ १४.२०.४४ ॥

尊者啊,无垢者啊,您理应如实地告诉我。摩陀婆啊,那位婆罗门如此详尽地问我。

14.20.45

प्रत्यब्रवं महाबाहो यथाश्रुतमरिंदम ।
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत् ॥ १४.२०.४५ ॥

大臂者啊,制敌者啊,我照所闻作答:如同把一只器皿放在自家仓库里,心便一直系于那只器皿之上。

14.20.46

तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ १४.२०.४६ ॥

同样,将心念通过不动摇的感官之门安置在自身之中,便应在那里寻求自我,并彻底远离放逸。

14.20.47

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ १४.२०.४७ ॥

如此恒常精进、心怀欢喜者,不久便能证得那梵;见到它之后,便成为知晓根本之理的人。

14.20.48

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मा प्रदृश्यते ॥ १४.२०.४८ ॥

然而,那伟大的自我既不能由眼睛把握,也不能由一切感官把握;唯有借心念之灯,才能清楚地看见。

14.20.49

सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४.२०.४९ ॥

他处处有手足与末端,处处有眼、头与面;处处能听。他立于世间,遍覆一切。

14.20.50

जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ।
स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम् ॥ १४.२०.५० ॥

命我见到已离身而出的自我;他舍弃自己的身体,应当唯独证得梵。

14.20.51

आत्मानमालोकयति मनसा प्रहसन्निव ।
तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि ॥ १४.२०.५१ ॥

他以心意观照自我,仿佛含笑;以此为依归,然后便在我之中得到解脱。

14.20.52

इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम ।
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम् ॥ १४.२०.५२ ॥

最优秀的再生者,我已将这一切秘密告诉你。我告辞去成就之;婆罗门,随意去吧。

14.20.53

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ १४.२०.५३ ॥

克里希那啊,如此被告知之后,那位大苦行的弟子,疑惑已断的婆罗门,便随心所欲地离去了。

14.20.54

इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः ।
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत ॥ १४.२०.५४ ॥

阿周那啊,那位最优秀的再生者向我说完这些关于解脱之法的话,便在那里消失了。

14.20.55

कच्चिदेतत्त्वया पार्थ श्रुत्मेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ १४.२०.५५ ॥

帕尔塔啊,你是否专心一意地听过这些?即便当时你站在战车上,你确实也听过这些。

14.20.56

नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना ॥ १४.२०.५६ ॥

帕尔塔啊,我认为,心神混杂的人不易理解此事;只有无执着、内心清净的人才能领会。

14.20.57

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित् ॥ १४.२०.५७ ॥

婆罗多族的雄牛啊,这一至深的秘密是由诸神宣说的。帕尔塔啊,你可曾在这世上从任何一个人那里听过它?

14.20.58

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदन्येनि विज्ञेयं व्यामिश्रेणान्तरात्मना ॥ १४.२०.५८ ॥

无罪者啊,除你之外,世上没有别人配听此事。内心混杂的其他人,是不能领会它的。

14.20.59

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ॥ १४.२०.५९ ॥

昆提之子啊,诸天界被行祭仪者所环绕。诸神并不愿意凡人居于他们之上。

14.20.60

परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ १४.२०.६० ॥

帕尔塔啊,那才是至上之境,即永恒的梵。在那里,人获得不死,永远舍弃痛苦,常享喜乐。

14.20.61

इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ १४.२०.६१ ॥

依此法而行者,即便出身罪恶之家,妇女、吠舍与首陀罗,也都能抵达至高之境。

14.20.62

किं पुनर्ब्रह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणः ॥ १४.२०.६२ ॥

何况,婆罗门与博学的刹帝利,他们常乐于自身之法,专心趋向梵界,那就更不必说了!

14.20.63

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः ॥ १४.२०.६३ ॥

此事已说明其理由,也有成就它的方法:成就、其果报、解脱,以及苦的确定止息。

14.20.64

नातः परं सुखं त्वन्यत्किंचित्स्याद्भरतर्षभ ।
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ॥ १४.२०.६४ ॥

除此之外,没有更大的快乐,婆罗多之最!对于博学、有信、勇猛者而言,如此,般度之子啊。

14.20.65

यः परित्यज्यते मर्त्यो लोकसारमसरवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते ॥ १४.२०.६५ ॥

凡人若弃世间之精华如同弃无用之物,便借此诸法迅速抵达至高之境。

14.20.66

एतावदेव वक्तव्यं नान्तो भूयोस्ति किञ्चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ १४.२०.६६ ॥

只须说这些,再无其他。帕尔塔啊,常自约束者,六个月后瑜伽便会生起。