摩诃婆罗多 · 章 14.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.22.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबोध दशहोतृणां विधानमिह यादृशम् ॥ १४.२२.१ ॥
这里也讲述这古老的故事。请听取这里十位献祭主持者的规定。
14.22.2
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ ।
उपस्थं पायुरिति वाग्घोतृणि दश भामिनि ॥ १४.२२.२ ॥
耳、皮肤、双眼、舌、鼻、双足、双手、生殖器、肛门和言语——这十者即是献祭主持者,贤妻啊。
14.22.3
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः ।
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च ॥ १४.२२.३ ॥
声与触、色与味、香、言语、行动、行走,以及精液、小便、大便的排泄——这十者是祭品。
14.22.4
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च ।
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि ॥ १४.२२.४ ॥
四方、风、日、月、地与火,以及毗湿奴、因陀罗、生主、密多罗和诸火——贤妻啊,这十者。
14.22.5
दशेन्द्रियाणि होतृणि हवींषि दश भामिनि ।
विषया नाम समिधो हूयन्ते तु दशाग्निषु ॥ १४.२२.५ ॥
十根感官是献祭者,十者是祭品,贤妻啊。名为“境”的柴薪投入十火之中而被献上。
14.22.6
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम् ।
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम् ॥ १४.२२.६ ॥
心是勺,财富亦然;纯净至上的知识也是。据闻此世界往昔便是如此妥善地划分。
14.22.7
ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते ।
सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ १४.२२.७ ॥
于是她被分离而被知晓;她审视财富。此处一切皆可由观察心中知识者而知。精液在具身者之身中;而具身者即是知者。
14.22.8
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते ।
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः ॥ १४.२२.८ ॥
具身者即是家火(gārhapatya);因此火被引出。心即是供火(āhavanīya);祭品投入其中。
14.22.9
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते ।
रूपं भवति वै वक्त्रं तदनुद्रवते मनः ॥ १४.२२.९ ॥
于是语主(Vācaspati)诞生;心审视他。形体即是口;心随之而奔赴。
14.22.10
ब्राह्मण्युवाच ।
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्।
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते ॥ १४.२२.१० ॥
婆罗门妇人说:为何言语先生起,而心后生?先由心所思者,便成为完整的句子。
14.22.11
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते ॥ १४.२२.११ ॥
以何种知识瑜伽,智性稳固于心意之中?虽被提起,却未能得到;是谁阻碍了它?
14.22.12
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति ।
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते ॥ १४.२२.१२ ॥
成为居于心中的主宰,它便向前去而又返回。人们称那智性为心之状态;因此心期待它。
14.22.13
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि ।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ १४.२२.१३ ॥
你既问言语与心意之事,我便为你讲述两者之间的那场较量。
14.22.14
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् ।
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो ॥ १४.२२.१४ ॥
言语与心意二者同往众生之魂处问道:'请告诉我们二者谁为最胜,主啊,请断我们的疑惑。'
14.22.15
मन इत्येवि भगवांस्तदा प्राह सरस्वतीम् ।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १४.२२.१५ ॥
于是世尊对萨拉斯瓦蒂说:'我实为你的如意牛。'然后言语对他说道。
14.22.16
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम ।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ १४.२२.१६ ॥
应知静止与运动两种心意皆属于我:静止者在我这里,运动者在你的领域。
14.22.17
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा ।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १४.२२.१७ ॥
凡在你的领域中运行的咒语、字音或声调,皆称为运动之心;因此你更为尊贵。
14.22.18
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने ।
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति ॥ १४.२२.१८ ॥
因此我自己前来便有资格成为在场者,光辉的女神啊。因此我得到呼吸之后便要说话,萨拉斯瓦蒂啊。
14.22.19
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति ।
प्रीयमाणा महाभागे विना प्राणांश्च मामपि।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४.२२.१९ ॥
居于生气与下气之间的言语,哦,大福者,欣喜地离开诸生气和我,奔向生主,说:“尊者啊,请慈悲。”
14.22.20
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः ।
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥ १४.२२.२० ॥
于是生气再次出现,再次滋养言语。因此,言语达到呼出之后,便永不言说。
14.22.21
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।
तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी ॥ १४.२२.२१ ॥
回响者产生轰鸣,恒常运作。在那两者之中,回响者的轰鸣确实更为殊胜。
14.22.22
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी ।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १४.२२.२२ ॥
如母牛般,她流淌出义理,以至上之汁液庄严。此能言梵者恒常永久地流淌。
14.22.23
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते ।
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः ॥ १४.२२.२३ ॥
凭借神圣与非神圣的力量,婆罗提是母牛。哦,纯净微笑者,请看这两位精微而勤勉者之间的区别。
14.22.24
ब्राह्मण्युवाच ।
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया।
किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती ॥ १४.२२.२४ ॥
婆罗门女说:当言辞尚未生起,受创造之愿驱动时,那时女神萨罗室伐蒂首先说了什么?
14.22.25
प्राणेन य सम्भवते शरीरे ।
प्राणादपानं प्रतिपद्यते च।
उदानभूता च विसृज्य देहं ।
व्यानेन सर्वं दिवमावृणोति ॥ १४.२२.२५ ॥
凭气息生于身中者,由气息而至下行气,化为上行气离开身体,并以遍行气遍覆整个天空。
14.22.26
ततः समाने प्रतितिष्ठतीह ।
इत्येव पूर्वं प्रजजल्प वागपि।
तस्मान्मनः स्थावरत्वाद्विशिष्टं ।
तथा देवी जङ्गमत्वाद्विशिष्टाः ॥ १४.२२.२६ ॥
此后它便安住于此,于平衡气中;如此,从前语言也曾开口说话。因此,心因其静止而殊胜,同样,女神(语言)因其流动而殊胜。