摩诃婆罗多 · 章 14.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.26.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चातुर्होत्रविधानस्य विधानमिह यादृशम् ॥ १४.२६.१ ॥
这里人们也讲述这古老的故事,即四位荷塔所遵循的规则是如此。
14.26.2
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते ।
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम् ॥ १४.२६.२ ॥
我将依法向你讲述这一切的规则;吉祥的女子啊,请听我所说的这奇妙的秘密。
14.26.3
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि ।
चत्वार एते होतारो यैरिदं जगदावृतम् ॥ १४.२६.३ ॥
工具、行为、行为者与解脱——这便是四位荷塔,美丽的女子啊,世界正是被它们所笼罩。
14.26.4
होतॄणां साधनं चैव शृणु सर्वमशेषतः ।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः ॥ १४.२६.४ ॥
也请完整听取荷塔的工具:鼻、舌、眼、皮肤,第五为耳,还有意与觉——这七者应知为因缘之根由。
14.26.5
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः ।
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः ॥ १४.२६.५ ॥
气味、味道、形色、声音,第五为触——这七者当思之、当知之,是业的因由。
14.26.6
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ १४.२६.६ ॥
嗅者、食者、见者、触者,第五为听者;思者与知者——这七者应知为行者的因由。
14.26.7
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान् ।
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः ॥ १४.२६.७ ॥
这些有德者吞食自己的德性,善与恶皆然;而这些无实、无德者——这七者即是解脱之因。
14.26.8
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि ।
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः ॥ १४.२६.८ ॥
对于智者和有觉知者,各自依规归于其位,那些德性化为天神,常常享用祭供。
14.26.9
अदन्हवींषि चान्नानि ममत्वेन विहन्यते ।
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते ॥ १४.२६.९ ॥
不食祭供与食物者,因“我所”之念而毁灭;为自己烹饪食物者,因“我所”之念而受损。
14.26.10
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् ।
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः ॥ १४.२६.१० ॥
食用不可食之物与饮酒也会伤害他;他伤害食物,那食物又伤害他。伤害了别人的他,又再度被伤害。
14.26.11
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः ।
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ १४.२६.११ ॥
杀害食物者,这位智者,又再产生主宰;而从食物中,在他身上并无任何生成。这称为微细的违越。
14.26.12
मनसा मन्यते यच्च यच्च वाचा निगद्यते ।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ १४.२६.१२ ॥
凡意所想者,凡言所说者;凡耳所闻者,凡目所见者。
14.26.13
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् ।
मनस्येतानि संयम्य हवींष्येतानि सर्वशः ॥ १४.२६.१३ ॥
凡可由触觉所触、由嗅觉所嗅者,皆在心中加以摄制,把这一切全部作为祭品。
14.26.14
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः ।
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः। ॥ १४.२६.१४ ॥
在我体内,具备诸德的火为我燃烧;我的瑜伽祭已经开始,由梵构成的智慧便是祭品。
14.26.15
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ।
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा ॥ १४.२६.१५ ॥
上气为赞歌,下气为诵文,舍弃一切为丰厚的布施;作者与允许者即梵我,他是祭司与祭主,被赞颂者亦是他;真实是指导者,那就是诵文,解脱是它的布施。
14.26.16
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः ।
नारायणाय देवाययदविन्दन्पशून्पुरा ॥ १४.२६.१६ ॥
此处,知晓那罗延者也诵念梨俱,献给神那罗延,昔日人们借此获得牲畜。
14.26.17
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम् ।
देवं नारायणं भीरु सर्वात्मानं निबोध तम् ॥ १४.२६.१७ ॥
那里唱诵娑摩歌,也在那里举出一个例证。胆怯者啊,你要认识那一切的自我——神那罗延。